आमपाक (AmapAka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritआमपाक आमस्य अजीर्ण्ण विशेषस्य पाकः । वैद्यकोक्तेशोफरोगाद्यङ्गे आमस्य पाकभेदे । तद्विरणमुक्तं सुश्रुते यथा“स यदा बाह्याभ्यन्तरैः क्रियाविशेषैर्न सम्भावितः प्रशम-यितुं क्रियाविपर्य्ययाद्बहुत्वाद्वा दोषाणां, तदा पाकाभि-सुखो भवति । तस्यामस्य पच्यमानस्य पक्वस्य च लक्षण-मुच्यमानमवधारय । तत्र मन्दोष्मता त्वक्सवर्ण्णता शीत-शोफता स्थैर्य्यं मन्दवेगताल्पशोफता चामलक्षणमुद्दिष्टम् ।सूचिभिरिव निस्तुद्यते, दश्यत इव पिपीलिकाभिः, ताभिश्चसंसृप्यत इव, छिद्यतैव शस्त्रेण, भिद्यत इव शक्तिभिः, ता-ड्यत इव दण्डेन, पीड्यत इव पाणिना, घट्ट्यत इव चाङ्गुल्या, दह्यत इव पच्यत इव चाग्निक्षाराभ्यामोषचोषपरीदाहाश्चभवन्ति वृश्चिकविद्ध इव च स्थानासनशयनेषु न शान्तिमु-पैति आध्मातवस्तिरिव । अतश्च शोफो भवति त्वग्वैवर्ण्यंशोफाभिवृद्धिर्ज्वरदाहपिपासा भक्तारुचिश्च पच्यमानलि-ङ्गम् । वेदनोपशान्तिः पाण्डुताल्पशोफता बलीप्रादु-र्भावस्त्वक्परिपुटनं निम्नदर्शनमङ्गुल्यावपीडिते प्रत्युन्नमनंवस्ताविवोदकसञ्चरणं पूयस्य प्रपीडयत्ये कमन्तमन्ते चाव-पीडिते मुहुर्मुहुस्तोदः कण्डूरनुन्नतता च व्याधेरु-पद्रवशान्तिर्भक्ताभिकाङ्क्षा च पक्वलिङ्गम् । कफजेषु तुरोगेषु गम्भीरगतित्वादभिघातजेषु वा केषुचिदसमस्तंपक्वलक्षणं दृष्ट्वा पक्वमपक्वमिति मन्यमानो भिषग्मोह-मुपैति यत्र हि त्वक्सवर्णता शीतशोफता स्थौल्यमल्प-रुजताश्मवद्घनता न तत्र मोहमुपेयादिति । भवन्तिचात्र । आमं विपच्यमानञ्च सम्यक् पक्वञ्च यो भिषक् ।जानीयात् स भवेद्वैद्यः शेषास्तस्करवृत्तयः । वातादृतेनास्ति रुजा, न पाकः पित्तादृते, नास्ति कफाच्च पूयः, ।तस्मात्समस्ताः परिपाककाले पचन्ति शोफांस्त्रय एवदोषाः” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
