आमं (AmaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritआमं, त्रि, (आम्यते ईषत्पच्यते । आ + अम +कर्म्मणि घञ् ।) पाकरहितं । काँचा इति भाषा ।तत्पर्य्यायः । अपक्वं २ असिद्धं ३ असृतं ४ ।इति रत्नमाला ॥
(“आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः” ।इति वैद्यकचक्रपाणिसंग्रहः ॥
“मज्जत्यामागुरुत्वाद्विट् पक्वातूत्प्लबते जले ।विनातिद्रवसङ्घातशैत्यश्लेष्मप्रदूषणात् ॥
परीक्ष्यैवं पुरा सामं निरामं वा सदोषिणां ।विधिनोपाचरेत्सम्यक् पाचनेनेतरेण वा” ॥
चिकित्सा यथा, --“चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च ।व्योषं हिङ्खजमोदाञ्च चव्यञ्चैकत्र चूर्णयेत् ॥
गुडिका मातुलुङ्गस्य दाडिमस्य रसेन वा ।कृता विपाचयन्त्यामन्दीपयन्त्याशु चाननं” ॥
इति चित्रकाद्यगुडिकाः । इति चरकः ॥
)
आमं, षट्प्रकाराजीर्णरोगमध्ये रोगविशेषः ।तस्य कारणरूपे ।“आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः ।अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ॥
अजीर्णं पञ्चमं केचिन्निर्दोषं दिनपाकि च ।वदन्ति षष्ठं चाजीर्णं प्राकृतं प्रतिवासरं ॥
तत्रामे गुरुतोत्क्लेदः शोथो गण्डाक्षिकूटगः ।उद्गारश्च यथाभुक्तमविदग्धः प्रवर्त्तते” ॥
इति निदानं ॥
अन्यच्च ।भुक्तमन्नावशेषं यत् रसं भूयस्त्वपाचितं ।गतमामाशये यस्मात्तस्मादामं तदुच्यते ॥
अन्नमन्नरसं केचित् केचिच्च मलसञ्चयं ।प्रथमां दोषटुष्टिञ्च आममित्यभिधीयते” ॥
अपक्वं । यथा, --“शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते ।आमं वितुषमित्युक्तं स्विन्नमन्नमुदाहृतं” ॥
इति श्राद्धतत्त्वधृतवशिष्ठवचनं ॥
रोगविशेषःतल्लक्षणादि अजीर्णशब्दे द्रष्टव्यं ॥
(“उष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितं ।दुष्टमामाशयगतं रसमामं प्रचक्षते ॥
आमेन तेन संपृक्ता दोषादूष्याश्च दूषिताः ।सामाइत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः ॥
स्रोतोरोधबलभ्रंशगौरवानिलमूढताः ।आलस्यापक्तिनिष्ठीवमनोभेदारुचिक्लमाः ॥
लिङ्गं मलानां सामानां निरामाणां विपर्य्ययः” ।इति चरकः ॥
“आमेऽजीर्ने तु बन्धश्चेत् क्षाराम्लं लघु शस्यते ।पुष्पकासीशमिश्रं वा क्षीरेण लवणेन च ।सदाडिमरसं सर्पिः पिबेद्वातेऽधिके सति” ॥
इति च चरकः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
