| YouTube Channel

आभीलं (AbhIlaM)

 
शब्दकल्पद्रुमः
Sanskrit
आभीलं,
क्ली,
(आ समन्तात् भियं लाति जनयति ।आङ् + भी + ला + ।) कष्टं कृच्छ्रं इत्यमरः
(भयावहः, भीतिजनकः यथा मेदिनी, --“आभीलं द्वयोः कृच्छ्रे वाच्यलिङ्गं भयानके”
यथा महाभारते, --“रात्रौ निशीथे स्वाभीले गतेऽर्द्धसमये नृप ।प्रचारे पुरुषादानां रक्षसां घोरकर्म्मणाम्”
)