| YouTube Channel

आभिषेचनिकः (AbhiSecanikaH)

 
E Bharati Sampat
Sanskrit
(वि) अभिषेचनम् अभिषेकः प्रयोजनमस्य अभिषेक+ठञ् ‘प्रयोजनम् ठञ्’ ५.१.१०९। ‘आभिषेचनिकं यत्ते रामार्थमुपकल्पितम्’ रामा०। १.अभिषेकवस्तूनि २.स्नानविधानम् ३.स्नानमन्त्रं स्नानोपयोगीनि वस्तूनि ‘मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यमेव वारूणं मानसं चैव सप्तस्नानान्यनुक्रमात् ॥’ ‘आपोहिष्ठादिभिर्मान्त्रं मृदालम्भश्च पार्थिवम् आग्नेयं भस्मना स्नानं वायव्यं रजसा कृतम् यत्तु सातपवर्षेण स्नानं तद्दिव्यमुच्यते वारूणञ्चावशाहश्च मानसं विष्णुचिन्तनम्’ याज्ञवल्क्यः।