| YouTube Channel

आभिषेचनिक (AbhiSecanika)

 
Capeller Eng
English
आभि°षेचनिक (f. ई) relating to the inauguration
of a king.
Yates
English
आभि-षेचनिक (कः-का-कं)
a. Belong-
ing to the inauguration.
Apte
English
आभिषेचनिक [ābhiṣēcanika],
a.
(-की
f.
) [अभिषेचन-ठञ्] Relating to the inauguration of a king
आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम्
Rām.*
2.19.31
Mv.*
4. -कम् The material required for अभिषेक
आभिषेचनिकान्यस्मा आजह्रुः सर्वतो जनाः
Bhāg.*
4.15.11.
Apte 1890
English
आभिषेचनिक a. (की f.) [ अभिषेचन-ठञ्] Relating to the inauguration of a king
आभिषेचनिकं यत्ते रामार्थमुपकल्पितं Rām.
Mv. 4.
Monier Williams Cologne
English
आभिषेचनिक
mfn.
id.,
MBh.
R.
Monier Williams 1872
English
आभिषेचनिक आभिषेचनिक, अस्, ई, अम् (fr.
अभि-षेचन), relating to the inauguration of a king
serving for it.
Benfey
English
आभिषेचनिक आभिषेचनिक, i. e.
अभिषेचन + इक,
adj.
,
f.
की, Refer-
ring or serving to the inauguration of
a king, Rām. 6, 112, 69.
Apte Hindi
Hindi
आभिषेचनिक
वि* - अभिषेचन+ठञ्
राजतिलक से संबंध रखने वाला
Shabdartha Kaustubha
Kannada
आभिषेचनिक
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಅಭಿಷೇಕದ ವಸ್ತು /ಅಭಿಷೇಕ ಸಂಬಂಧವಾದ ಪದಾರ್ಥ
निष्पत्तिः - > "ठञ्" (५-१-१०९)
व्युत्पत्तिः - > अभिषेचनमभिषेकः, प्रयोजनमस्य
प्रयोगाः - > "अभिषेचनिकं यत्ते रामार्थमुपकल्पितम्"
उल्लेखाः - > रामा०
आभिषेचनिक
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಸ್ನಾನ ಮಾಡುವ ವಿಧಾನ
आभिषेचनिक
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಸ್ನಾನದ ಮಂತ್ರ ಮತ್ತು ಸ್ನಾನೋಪಯೋಗಿ ವಸ್ತು
निष्पत्तिः - > "ठञ्"
व्युत्पत्तिः - > अभिषेचनं स्नानं प्रयोजनमस्य
L R Vaidya
English
ABizecanika {% a. (f. की) %} Relating to अभिषेचन q.v., आभिषेचनिकं यत्ते रामार्थमुपकल्पितम् Ram.
Mahabharata
English
Ābhishecanika(m) parva: I, 2, 350 (Dharmarājasya dhīmataḥ), i.e. XII, 40 (Yudhishṭhirābhishekaḥ) (Parvas).
वाचस्पत्यम्
Sanskrit
आभिषेचनिक
त्रि०
अभिषेचनं राज्याभिषेकः प्रयोजनमस्य ठञ्राजाभिषेकसाधने द्रव्यभेदे “आभिषेचनिकं यत्तेरामार्थमुपकल्पितम् भरतस्तदवाप्नोतु” भा० व० २७५ अ० ।तत्रत्यद्रव्यदिविधानानि” भा० शा० प० ४० अ० पुराकल्पव्या-जेनोक्तानि यथा “ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम् ।ददृशुर्धर्मराजानमादाय बहुमङ्गलम् पृथिवीञ्च सुवर्णञ्चरत्नानि विविधानि आभिषेचनिकं भाण्डं सर्वसम्भा-रसम्भृतम् काञ्चमौदुम्बरास्तत्र राजताः पृथिवीमयाः ।पूर्णाः कुम्भाः सुमनसोलाजा वर्हींषि गोरसम् शमी-पिप्पलपालाशसमिधो मधुसर्पिषी स्रुव औदुम्बरः शङ्ख-स्तथा हेमविभूषितः दाशार्हेणाभ्यनुज्ञातस्तत्र धौम्यपुरोहितः प्रागुदक्प्लवने वेदीं लक्षणेनोपलिख्य ।व्याघ्रचर्म्मोत्तरे शुक्ले सर्वतोभद्र आसने दृढपादप्रतिष्ठानेहुताशनसमत्विषि उपवेश्य महात्मानं कृष्णाञ्च द्रुप-दात्मजाम् जुहाव पावकं धीमान् विधिमन्त्रपुरस्कृतम् ।ततौत्थाय दाशार्हः शङ्खमादाय पूजितम् अभ्यषिञ्च-त्पतिं पृथ्व्याः कून्तीपुत्रं युधिष्ठिरम् धृत-राष्ट्रश्च राजर्षिः सर्व्वाः प्रकृतयस्तथा अनुज्ञाती-ऽथ कृष्णेन भ्रातृभिः सह पाण्डवः पाञ्चजन्याभि-षिक्तश्च राजाऽमृतमुखोऽभवत् ततोऽनु वादयामासुःपणवानकदुन्दुभीन् धर्म्मराजोऽपि तत्सर्वं प्रतिजग्राहधर्म्मतः पूजयामास तांश्चापि विधिवद्भूरिदक्षिणः ततोनिष्कसहस्रेण ब्राह्मणान् स्वस्ति वाचयन् वेदाध्ययन-सम्पन्नान् धृतिशीलसमन्वितान्” एतानि द्रव्यादीनिराजाभिषेचनिकानि ज्ञेयानि अधिकं राजाभिषेकशब्देवक्ष्यते स्त्रियां ङीप् अभिषेचनमधिकृत्य कृतो-ग्रन्थः ठक् अभिषेकाधिकारेण कृते भारतान्तर्गतेअवान्तरपर्वभेदे “आभिषेचनिकं पर्व्वधर्म्मराजस्य धीमतः”भा० आ० अ० अभिषेचनं स्नानं प्रयोजनमस्य ठञ् ।३ स्नानार्थे विधाने तत्रत्ये द्रव्यमन्त्रादौ स्मानविभागपूर्वकं तत्रत्यद्रव्यविधान मन्त्रा उच्यन्ते तत्र स्नानं तावत्सप्तविधम्” मान्त्रंभौमं तथाग्नेयं वायव्यं दिव्यमेव ।वारुणं मानसं चैव सप्त स्नानान्यनुक्रमात् “आपोहिष्ठा-दिभिर्मान्त्रम् मृदालम्भश्च पाथिवम् आग्नेयं भस्मनास्नानं वायव्यं रजसा कृतम् अद्भिरातववर्षाभिः स्नानंतद्दिव्यमुच्यते वारुणञ्चावगाहश्च मानसं विष्णुचि-न्तनम्” योगिया० तत्र विशेषस्तनैवोक्तः” “शन्नआपस्तु द्रुपदा आपोहिष्ठाघमर्षणम् एतैस्तु पञ्चभिर्मन्त्रैर्मन्त्रस्नानं तदुच्यते” मन्त्राणां समुच्चयोविकल्पोवाशक्त्यपेक्षया तत्र वारुणं स्नानं मुख्यमसामर्थ्ये अन्यानिस्नानानि “स्नानं तु द्विविधं प्रोक्तं गौणमुख्यप्रमेदतः ।तयोस्तु वारुणं मुख्यं तत्पुनः षड्विघं स्मृतम् नित्यंनैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम् क्रियास्नानंतथा ष्ठं षोढा स्नानं प्रकीर्त्तितम्” व्यासोक्तेःतत्र नित्यादीन्यनुपदं वक्ष्यन्ते “असामर्थ्याच्छरीरस्य देशकालाद्यपेक्षया मन्त्रस्नानादितः सप्त केचिदिच्छन्तिसूरयः जा० स्मृ० “गृहेऽपि द्विजातीनां मन्त्रवत्स्नानमिष्यते विधिलोपं ते कुर्य्युः सामर्थ्ये सति कर्म्मसु”जैमि० स्मृ० “अल्पत्वाद्धोमकालस्य बहुत्वात् स्नानकर्म्मणःप्रातर्न तनुयात् स्नानं होमलोपोविगर्हितः” कात्या० स्मृ० ।“प्रातः संक्षेपतः स्नानं शौचार्थं तु तदिष्यते मन्त्रै स्तुविधिनिष्पाद्यं मध्याह्ने तु सविस्तरम्” वशि० अत्यन्ता-शक्तौ “अशिरस्यं भवेत्स्नानं स्नानाशक्तौ तु क-र्म्मिणाम् आर्द्रेण वाससा वापि मार्जनं कापिलंविदुः कृताभिमन्त्रितैस्तोयैः प्रोक्षयेन्मूर्द्ध्नि सर्व्वतः अनु-कल्पमिदं स्नानं सर्व्वपापहरं नृणाम्” जावा० स्मृ० ।एकवाससाऽपि स्नानं कर्त्तृं शक्यते “एकेन वाससास्नायाद्द्वाभ्यामनियमः स्मृतः बहुवासोनिषेधश्च स्नानेफलमभीप्सतः” विष्णूक्तेः नैकवासाः क्रियां कुर्य्यात् स्नानंकर्म्म विना क्वचित्” तदुक्तेश्च “अस्पृश्यस्पर्शने चैव वार्त्तायांपुत्रजन्मनि एतद्द्विवाससा कार्य्यमन्यत्रैकेन वाससा” वसि०“न नग्नोनान्यदीयेन नार्द्रेण नसूच्याग्रथितेन विकृतेनच स्नायात्” इत्याचारतिलकः तत्र नित्यं प्रातःस्नानम्, “प्रातः समाचरेत् स्नानं तच्च नित्यमिति स्मृतम्” मार्क०
पु०
।चन्द्रसूर्य्योपरागे अशौचादौ अस्पृश्यस्पर्शने स्नानंनैमित्तिकम् “पुष्येऽर्के जन्मनक्षत्रे व्यतीपाते चवैधृतौ अमायाञ्च नदीस्नानं पुनात्या सप्तमात् कुलम्”इत्याद्युक्त स्नानं काम्यम् धर्म्म्कर्म्म कर्त्तुं यत्पूर्व्वस्नानं तत्क्रियाङ्गम् “मलापकर्षणं नाम स्नानम-भ्यङ्गपूर्व्वकम् मलापकर्षणायैव तत्प्रवृत्तिस्तु नान्यथा ।”तत्र स्नानविधिश्च आश्व० गृ० परि० उक्तः यथा ।“अथ स्नानविधिस्तत्प्रातर्सध्याह्ने गृहस्थः कुर्यादेकतरत्रवा प्रातरेव, ब्रह्मचारी यतिस्त्रिषु सवनेषु द्विः त्रिर्वा वान-प्रस्थः तत् प्रातः सहगोमयेन कुर्यान् मृदा मध्यन्दिनेसाय” शुद्धाभिरद्भिः प्रातःस्नानात् प्राक्सन्ध्यामुपा-सीत प्रातरुत्सृष्टं गोमयमन्तरिक्षस्थं सङ्गृह्य भूनिष्ठंवोपर्यधश्च संत्यक्तं तीर्थमेत्य धौतपादपाणिमुख आचम्यसन्ध्योक्तवदात्माभ्युक्षणादि कृत्वा द्विराचम्य दर्भपाणिःसंयतप्राणः कर्म सङ्कल्प्य गोमयं वीक्षितमादाय सव्येपाणौ कृत्वा व्याहृतिभिस्त्रेधा विभज्य दक्षिणं भागंप्रणवेन दिक्षु विक्षिप्योत्तरं तीर्थे क्षित्वा मध्यमं “मान-स्तोक” इत्यृचाभिमन्त्य्र “गन्धद्वाराम्” इत्यनया मूर्द्धादि-सर्वाङ्गमालिप्य प्राञ्जलिः “वरुणं हिरण्यशृङ्गमिति” द्वाभ्याम्“अव ते हेड” इति द्दाभ्यां “प्रसम्राजे वृहदु चेति” सूक्तेनप्रार्थ्य “हिरण्यशृङ्गं वरुणं पप्रद्ये तीर्थं मे देहि याचितः ।यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः यन्मे मनसावाचा कर्मणा वा दुष्कृतं कृतम् तन्न इन्द्रो वरुणोवृहस्पतिः सविता पुनन्तु पुनः पुनः” इत्यथ “याः प्रवतोनिवत उद्वत” इत्येतया तीर्थमभिमृश्यावगाह्य स्नातोद्विराचम्य मार्जयेत् अम्बयोयन्त्यध्वभिः” इत्यष्टाभिः “आपो-हिष्ठेति” नवभिरथ तीर्थमङ्गुष्ठेन” “इमं मे गङ्ग” इत्यृचात्रिः प्रदक्षिणमालोड्य प्रकाशपृष्ठमग्नौ अघमर्षणसूक्तं त्रि-राबर्त्य निमज्योन्मज्यादित्यमालोक्य द्वादशकृत्व आप्लुत्यपाणिभ्यां शङ्खमुद्रया योनिमुद्रया वोदकमादाय मूर्ध्नि मुखेबाह्वोरुरसि चात्मानङ्गायत्र्याभिषिच्य “त्वन्नो अग्ने वरु-णस्य विद्वानिति” द्वाभ्यात् “तरत्समन्दीधातीति” सूक्तेनपुनः स्नायान्मूर्ध्नि चाभिषिञ्चेत् “तद्विष्णोः परमम्पदम्“अग्नेरक्षाणो अंहसो यत्किञ्चेदं वरुणदेव्ये जने” इत्येताजपेत्, स्रोतोऽभिमुखः सरित्सु स्नायादन्यत्रादित्याभिमुखोऽथसाक्षताभिरद्भिः प्राङ्मुख उपवीती दैवतीर्थेन व्याहृति-भिर्व्यस्तसमस्ताभिर्ब्रह्मादीन्देवान् सकृत्सकृत्तर्पयित्वाथो-दङ्मुखः निवीती सयवाभिरद्भिः प्राजापत्येन तीर्थेन कृ-ष्णद्वैपायनादीन् ऋषींस्ताभिर्व्याहृतिभिर्व्यस्ताभिस्तर्पयित्वाथदक्षिणाभिमुखः प्राचीनावोती पितृतीर्थेन सतिलमद्भि-र्व्याहृतिभिरेव सोमः पितृमान् यमो अङ्गिरस्वानग्नि-स्वत्ताः कव्यवाहन इत्यादीं स्त्रींस्त्रींस्तर्पयेदेतत्स्नानाङ्गत-र्पणमथ तीरमेत्य दक्षिणाभिमुखः प्राचीनावीती “ये केचास्मत्कुले जाता अपुत्रागोत्रिणो मृताः ते गृह्णन्तुमया दत्तं वस्त्रनिष्पीडनोदकमिति वस्त्रं निष्पीड्य यज्ञो-पवीत्यप उपस्पृश्य परिधानीयमभ्युक्ष्य परिधाय द्विती-यञ्चोत्तरीयं पर्युक्षितं प्रावृत्य द्विराचामेदथोक्तसन्ध्या-मुपासीतेदं प्रातः स्नानविधानम् ।अथ मध्यन्दिने तीर्यमेत्य धौतपाणिपादमुखो द्विराचम्या-यतप्राणः स्नानं सङ्कल्प्य दर्भपवित्रपाणिः शुचौ देशेखनित्रेण भूमिङ्गायत्र्यस्त्रेण खात्वोपरिमृदञ्चतुरङ्गुलमुद्वायतखास्ताम्मुदं तथा खात्वा गायत्र्यादाय गर्तमुद्वासितयामृदा परिपूर्य मृदमुपात्तां शुचौ देशे तोरे निधाय गायत्र्याप्रोक्ष्य तच्छिरसा त्रेधा विभज्यैकेन मूर्ध्न आनाभेरपरेणचाधस्तादङ्गमनुलिप्याप्स्वाप्लुत्य क्षालयित्वादित्यन्निरीक्ष्य तंध्यायन् स्नायादेतन्मलस्नानमाहुरथ तीरे द्विराचम्य तृती-यमस्त्रेणादाय सव्ये पाणौ कृत्वा व्याहृतिभिस्त्रेधा विभज्यदक्षिणभागमस्त्रेण दिक्षु दशसु विनिक्षिप्योत्तरन्तीर्थे क्षित्यातृतीयङ्गायत्र्याभिमन्त्रितमादित्याय दर्शयित्वा तेन मूर्ध्नआपादात् गायत्र्या प्रणवेन वा सर्वाङ्गमनुलिप्य “सुमि-त्रियान आप ओषधयः सन्त्विति” सकृदद्भिरात्मानमभिषिच्य“दुर्मित्र्यास्तस्मै सन्तु योऽस्मान्द्वेष्टि यञ्च वयन्द्विष्म” इतिमृच्छेषमद्भिः क्षालयेदथ वरुणप्रार्थना तर्पणान्तेनोक्तेनविधिना स्नायात् नास्मिन् प्राक् ब्रह्मयज्ञतर्पणद्वस्त्रं नि-ष्पीडयेदपुत्रादयो ह्य्न्ते तर्प्या इत्येष स्नानविधिस्तदेतद-सम्भवेऽद्भिरेव कुर्याद्भौमदिनादिषु गृहे मृदा स्ना-यान्न शीतोदकेन शीतोष्णोदकेन गृहे स्नायान्मन्त्र-विधिं वर्जयेद्बहिर्वा शुचौ देशे सर्वं पश्चात्कुर्यादिति ।अथाशक्तस्य मन्त्रस्नानं शुचौ देशे शुचिराचान्तः प्राणा-नायम्य दर्पाणिः सव्ये पाणावपः कृत्वा तिसृभिरापोहिष्ठीयाभिः पछः प्रणवपूर्वं दर्भोदकैर्मार्जयेत् पादयोर्मूर्ध्नि हृदये मूर्ध्नि हृदये पादयोर्हृदये पादयोः मूघ्निचाथार्धर्चशो मूर्ध्नि हृदये पादयोर्हृदये पादयोर्मूर्ध्निचाथ ऋक्शो हृदये पादयोर्मूर्ध्नि चाथ तृचेन मूर्ध्नीतिमार्जयित्वा गायत्र्या दशधाभिमन्त्रिता अपः प्रणवेनपीत्वा द्विराचामेदेतन्मन्त्रस्नानम्” शाखिभेदेनान्थविधवि-धानं तत्तत्सूत्रेषु दृश्यम् ततश्च स्मृत्याद्युक्तद्रव्याणां तत्रत्यमन्त्राणां तद्विधानानाञ्चाभिषेचनिकत्वं बोध्यम् कर्म्मान्ते५ यजमानाभिषेकार्थे मन्त्रे ते मन्त्राः वैदिकाःपौराणिकाश्च तत्र मन्त्रास्तु मत्कृततुलादानादिपद्धतौ२०६ पृष्ठादौ दृश्याः पौराणिकतान्त्रिकतत्तत्कर्म्मस्व-धिकारसिद्ध्यर्थस्याभिषेकस्य साधने मन्त्राद तद्द्रव्यभेदे८ तद्विधाने तत्र पौराणिकाभिषेकद्रव्यविधानादि“शिबमन्त्राभिषेकं यः कुर्य्याच्छिष्यादिकश्रिये” इत्यारभ्य“अस्त्ररक्षाभिषेक” इत्यन्तेन अग्निपुराणे दर्शितम् शाक्ता-भिषेकद्रव्यविधानानि तन्त्रे ज्ञेयानि रुद्राभिषेकद्रव्ये १० तद्विधाने तद्द्यव्यविधानादि विधानपारिजातेरुद्रकल्पपद्धतौ दृश्यम् ११ देवाभिषेकादिसाधनद्रव्यादौ