| YouTube Channel

आपॢ (AplR)

 
धातुप्रदीपः
Sanskrit
आपॢँ आपॢँ व्याप्तौ
- आप्नोति आप आप्ता आपत् व्याप्य प्राप्य प्रापय्य आप्यम् आपः (4) 16
आपॢँ आपॢँ लम्भने
- आपयति आपति आपत् अन्यत्राप्नोति (35) 283
क्षीरतरङ्गिणी
Sanskrit
आपॢँ आपॢँ व्याप्तौ
- चत्वारोऽनिटः आप्नोति आपत् (द्र0 3155) आप्ता आण्ज्ञपृधामीत् (तु0 7455)-ईप्सति उदके नुम्भौ (उ0 4210) इत्यम्भः ल्यपि लघुपूर्वात्, विभाषाऽऽपः (6456, 57) इति णेर्वा लोपः-प्राप्य प्रापय्य गुरोश्च हलः ( 33103) इत्यङि प्राप्ते क्तिन् आबादिभ्यः (3394 वा ) आप्तिः 14
आपॢँ आपॢ लम्भने
- (अर्थविवरणम्) लम्भनं प्राप्तिः
आपयति, आपति, आपितम् स्वादौ व्याप्तौ (517) आप्नोति आप्तम् 282
धातुवृत्तिः
Sanskrit
आपॢँ आपॢ (अर्थः) व्याप्तौ
(आप्नोति आप्नुतः अप्नुवन्ति आप्नोषि आप्नोमि आप्नुवः) "लोपश्चास्या'' इत्युकारलोपः संयोगपूर्वत्वान्न भवति "हुश्नुवोः सार्वधातुके'' इति यणप्संयोगपूर्वस्येत्यादौ "अचि श्नुधातु'' इत्युवङ् ( आप आपतुः आपिथ आपिव ) क्रादिनियमादिट् "उपदेशेऽत्वतः"' इत्यत्रात्वत इति तपरकरणान्न थलीण्निषेधः यत्रायं निषेधस्तत्र भारद्वाजनियम इति विकल्पोऽपि भवति (आप्ता आप्स्यति आप्नुहि ) "उतश्च प्रत्ययात्'' इति हेर्लुक् संयोगपूर्वत्वान्न भवति (आप्नवानि आत्नोत् आप्नुयात्) आशिषि ( आप्यात् आपत् ) लृदित्वात् च्लेरङ् ( ईप्सति ) "आप्ज्ञप्पृधामीत्'' इतीत्वम्, अभ्यासलोपः ( आपयति मा भवानापिपत् ) कृते णौ चङि ह्रस्वत्वे पश्चाद् द्वितीयस्यैकाचः पिशब्दस्य द्विर्वचनम् ( प्रापप्य प्राप्य ) ण्यन्तात्क्त्वि क्त्वो ल्यपि विभाषा इति पक्षे णेरयादेशः, अन्यदा लोपः ( आप्यम् ) ण्यत्"पोरदुपधात्'' इत्यत्र तपरकारणान्न यत् ( आप्तिः ) "क्तिन्नाबादिभ्य'' इति क्तिन् जीविकां प्राप्तः ( प्राप्तजीविकः, जीविकाप्राप्तः ) इति वा "द्वितीया श्रिता0'' इत्यादिना"प्राप्तापन्ने द्वितीयया'' इति समासः प्राप्तापन्नेत्यत्र लिङ्गविशिष्टपरिभाषया प्राप्तशब्दस्य समासेऽपि प्राप्तजीविक इति तत्र ह्यकारः प्रश्लिष्यते प्राप्तापन्ने चेति, सौत्रत्वान्न प्रकृतिभावः एतत्पद गतावप्युक्तम् ( आपः ) "आप्नोतेर्ह्रस्वश्च'' इति क्विप्, ह्रस्वः "अप्तृन्'' इत्यादिना सर्वनामस्थाने दीर्घः, (अद्भिः) "अपो भि'' इति भकारादौ तकारे जश्त्वम्, "अङ्गाधिकारे तस्य तदन्स्य च' इति दीर्घत्वे तदन्तेऽपि भवतः, ( स्वापः, स्वाद्भिः ) इति द्विधा गताः परितो गता अन्तर्गता आपो यस्मिन् ( द्वीपम्, परीपम्, अन्तरीपम् ) "द्व्यन्तरुपसर्गेभ्यो ऽप ईत्'' इत्यादेरीकारादेशः "ऋक्पूरब्धूः'' इत्यकारः समासान्तः ईत्वमनवर्णान्तादित्युक्तत्वाप्रापमित्यादौ भवति समापो नामदेवयजनमित्यत्र [समाप इतत्वप्रतिषेधः] इतीत्वाभावः अत एव निर्द्देशात् "अन्येषामपिदृश्यत'' इति वा दीर्घः "अव्ययं विभक्तिसमीप'' इति निर्द्देशात्समीपमित्यपि भवति यद्वा समापशब्दः समा आपो यस्मिन्निति समशब्देन व्युत्पाद्यः ( अनूपम् ) "ऊदनोर्देशे'' इत्यप आदेरूकारः, अदेशेऽन्वीपं, समुद्रे यद् द्वीपं तत्र भवादि ( द्वैप्यम् ) "द्वीपादनुसमुद्रं यञ्'' इति शैषिको यञ् ( अनुसमुदम् ) इति सप्तम्यर्थेऽव्ययीभावः "यञञोश्च'' इत्यत्रापत्ययञो ग्रहणादस्य बहुषु लुगभावाद् ( द्वैप्या ) इति भवति अनुसमुद्रमित्युक्तत्वादन्यत्रापि द्वैप इति भवति ( द्वैपायनो व्यासः ) नडादित्वात्कक् द्वीपशब्देन द्वीपस्थो मुनिरुच्यते अनन्तरापत्येऽप्यस्मिन् गोत्रात्वमारोपात् त्रिषु द्वे आप्यमम्मयमित्यत्राप्यशब्दो मयडर्थे दृश्यते तथाऽपां कारणेष्वाप्याः परमाणव इति, अत्र प्रत्यथो दृश्यते तथा स्वामी आप्यं तु लक्ष्यादिति परिपूर्वोऽयं रक्षणेऽपि तथा भवभूतिः पर्याप्नोतु सुकृतं महाभाग इति अयं युजादौ 14
आपॢँ आपॢ (अर्थः) लम्भने
(आपथति) लॄदित्त्वादङि (आपत् आप्ता) "तपिंतिपिम्' इतिकारिकापाठादनिट्त्त्वम् मैत्रेयेणापयतइत्यात्मनेपदमपि दर्शितम् अन्ये तु नैतन्मृष्यन्ति297
कृदन्तरूपमाला
Sanskrit
1 {@“आपॢ व्याप्तौ”@} 2 “आपयत्यापतीत्यापेर्यौ वा णौ लम्भने पदे।
व्याप्त्यर्थस्यास्य तु स्वादेराप्नोतीति पदं भवेत्।।” 3 इति देवः।
आपकः-प्रापकः-पिका, आपकः-पिका, ईप्सकः 4 प्सिका
आप्ता-प्त्री, प्रापयिता-त्री, ईप्सिता-त्री
5 आप्नुवन्-वती, प्रापयन्-न्ती, ईप्सन्-न्ती
6 आप्स्यन्-न्ती-ती, आपयिष्यन्-न्ती-ती, ईप्सिष्यन्-न्ती-ती
-- प्रापयमाणः, प्रापयिष्यमाणः
आपः 7
-- -- आप्तः- 8 संप्राप्तः-प्तम्-प्तवान्, प्रापितम्, 9 ईप्सितः-तवान्
आपः, आपः, व्यापी-व्यापिनी, 10 ईप्सुः, आपिपयिषुः
-- आप्तव्यम्, आपयितव्यम्, ईप्सितव्यम्
आपनीयम्, प्रापणीयम्, ईप्सनीयम्
11 संप्राप्यः, आप्यम्, -- प्राप्यम्, -- ईप्स्यम्
ईषदापः-दुरापः-स्वापः
-- -- प्राप्यमानः, प्राप्यमानः, ईप्स्यमानः
आपः, आपः, ईप्सः
आप्तुम्, आपयितुम्, ईप्सितुम्
12 आप्तिः, प्रापणा, ईप्सा, आपिपयिषा
प्रापणम्, आपनम्, ईप्सनम्
आप्त्वा, आपयित्वा, ईप्सित्वा
प्राप्य, 13 प्रापय्य 14 = प्राप्य, प्रेप्स्य
15 आपम् २, आप्त्वा २, आपम् २, आपयित्वा २, ईप्सम्
ईप्सित्वा
प्रासङ्गिक्यः
01
=>
(५९)
02
=>
(५-स्वादिः-१२६०। सक। अनिट्-पर।)
03
=>
(१३७)
04
=>
[[३। सनि ‘आप्ज्ञपृधामीत्’ (७-४-५५) इतीत्वे, द्वित्वे, ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः।]]
05
=>
[[४। ‘स्वादिभ्यः--’ (३-१-७३) इति श्नुप्रत्यये उवङ्।]]
06
=>
[पृष्ठम्००५८+ २८]
07
=>
[[१। ‘आप्नोतेर्ह्रस्वश्च’ (द। उ। ७-१।) इति क्विप्सन्नियोगेन ह्रस्वत्वे, ‘अप्तृन्--’ (६-४-११) इति सर्वनामस्थाने दीर्घः। ‘आपः स्त्री भूम्नि वार्वारि--’ इति अमरकोशात् नित्यं बहुवचनम्।]]
08
=>
[[आ। ‘तस्य मित्रीयतो दूतः संप्राप्तोऽस्मि वशंवदः’ भ। का। ६-१००।]]
09
=>
[[B। ‘अन्वयादिविभिन्नानां यथासंख्यमनीप्सितम्’ भ। का। ९। १३२।]]
10
=>
[[C। ‘दिग्व्यापिनीर्लोचनलोभनीया मृजाऽन्वयाः स्नेहमिव स्रवन्तीः’ भ। का। २-१३।]]
11
=>
[[ड्। ‘संप्राप्यो निजशक्तिराद्धतपसः साधोः देवोऽपि तामृज्वीकर्तुमुपानशे सुकृतिनीं प्रस्तिध्नुवानः खलान्।।’ धा। का। २-६९।]]
12
=>
[[२। ‘क्तिन् आबादिभ्यः निष्ठायामनिड्भ्यः’ (वा। ३-३-९४) इति क्तिन्। ‘गुरोश्च हल’ (३-३-१०३) इत्यस्यापवादः।]]
13
=>
[[E। ‘प्रापय्य शौरिमथ तां भगिनीं वाक्यैरक्षीणसौहृदमपेतशुचाऽवतानीत्’ वा। वि। ३-५६।]]
14
=>
[[३। ‘विभाषाऽऽपः’ (६-४-५७) इति णेरयादेशो वा।]]
15
=>
[पृष्ठम्००५९+ २५]
1 {@“आपॢ लम्भने”@} 2 आधृषीयः।
लम्भनम् = प्राप्तिः--इति क्षीरस्वामी।
‘आपयत्यापतीत्यापेर्यौ वा णौ लम्भने पदे।
व्याप्त्यर्थस्यास्य तु स्वादे- राप्नोतीति पदं भवेत्।।’ 3 इति देवः।
आधृषीयत्वात् णिचो वैकल्पिकत्वम्।
णिच्पक्षे रूपाणि पूर्वं लिखि- तस्याप्नोतेरिव 4 ज्ञेयानि।
णिजभावपक्षे ‘शेषात् कर्तरि परस्मैपदम्’ 5 इति परस्मैपदित्वमेव।
तत्र शतरि 6 ‘आपन्-न्ती’ इत्येव रूपम्
शप औत्सर्गिकत्वात्।
ईप्सकः-इत्यादि रूपम्।
ण्यन्तात् सनि तु-- आपिपयिषकः-षिका, आपिपयिष्यम्
आपिपयिषिता-त्री, आपिपयिष्यमाणः
आपिपयिषन्-न्ती, आपिपयिषितुम्
आपिपयिषिष्यन्-न्ती-ती, आपिपयिषः
आपिपयिषमाणः, आपिपयिषा
आपिपयिषिष्यमाणः, आपिपयिषणम्
आपिपयिषितः-तं-तवान्, आपिपयिषित्वा
आपिपयिषुः, समापिपयिष्य
आपिपयिषितव्यम्
आपिपयिषणीयम्
आपिपयिषम्
आपिपयिषित्वा
इति रूपाणि ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(६०)
02
=>
(१०-चुरादिः-१८४०-सक। सेट्। उभ।)
03
=>
(१३७)
04
=>
(५९)
05
=>
(१-३-७८)
06
=>
[[आ। “आपन् खेदमरिं तनञ्जनहितं चिक्रीड गोपेर्हरिः तूर्योत्थो वितनन् ध्वनिर्दिवमगात् दतो यथा वादितः” धा। का। ३-५१।]]