| YouTube Channel

आप्लवव्रतिन् (Aplavavratin)

 
शब्दसागरः
English
आप्लवव्रतिन्
m.
(-ती) An initiated householder, one who has passed
through the first order, that of the Brahmachari, and is admitted
into the second.
E.
आङ् before प्लव bathing, ब्रतिन् performer of a
व्रत, or religious obligation
bathing being part of the prescribed
ceremony.
Yates
English
आप्लव-व्रतिन् (ती) 5.
m.
An initiated
householder.
Spoken Sanskrit
English
आप्लवव्रतिन् Aplavavratin
m.
one whose duty is to perform the samAvartana ablution
आप्लवव्रतिन् Aplavavratin
m.
initiated householder
आप्लवव्रतिन् Aplavavratin
m.
one whose duty is to perform the samAvartana ablution
Wilson
English
आप्लवव्रतिन्
m.
(-ती) An initiated householder, one who has passed
through the first order, that of the Brahmacārī, and is admitted into the
second.
E.
आङ् before प्लव bathing, व्रतिन् performer of a व्रत, or
religious obligation
bathing being part of the prescribed ceremony.
Monier Williams Cologne
English
आ-प्लव—व्रतिन्
m.
one whose duty is to perform the Samāvartana ablution (on returning home after completing his studies), an initiated householder,
L.
Apte Hindi
Hindi
आप्लवव्रतिन्
पुं*
आप्लवः-व्रतिन् -
दीक्षित गृहस्थ
Shabdartha Kaustubha
Kannada
आप्लवव्रतिन्
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸ್ನಾತಕ /ಸಾಂಗ ವೇದಾಧ್ಯಯನ ಮಾಡಿ ವಿವಾಹಕ್ಕೆ ಮುಂಚಿತವಾಗಿ ವ್ರತಸ್ನಾನ ಮಾಡಿದವನು
व्युत्पत्तिः - > आप्लवश्चासै व्रती
L R Vaidya
English
Aplava-vratin {% m. %} a householder who has passed through the first order. (Also आप्लुतव्रतिन्.)
वाचस्पत्यम्
Sanskrit
आप्लवव्रतिन्
पु०
आप्लवः समावर्त्तनस्नानमेव व्रतमस्त्यस्यइनि स्नातके गृहस्थभेदे यस्तु वेदानघीत्य दारपरिग्रहार्थं कृतसमावर्त्तनस्नानः दारलाभात् प्राक् स्मार्त्तंबतविशेषमाचरति तादृशे द्विजे “अलाभे चैव कन्यायाःस्नातकव्रतमाचरेत्” स्मृत्युक्तं व्रतं दर्शितं विधानपा०यथा “स्नात्वैवं विधिना काले मासमात्रमपि द्विजः ।अनाश्रमी तिष्ठेत्तु सुखस्थस्तु प्रयत्नवान् निःस्वोरोगा-र्दितोभीत आपन्नोऽन्यैश्च कारणैः स्नातकः प्रयतोवह्रिं त्यजेदिति वै श्रुतिः नित्यदा ब्रह्मचारी स्यात्पञ्चयज्ञपराथणः जपतीर्थरतोवा स्यात् स्नातकोलौल्यवर्ज्जितः श्राद्धे निमन्त्रितो गच्छेत् कुर्य्यात् षट्कर्म्मच द्विजः येन केनाप्युपायेन व्रतचर्य्यां लोपयेत् शक-लान् जुहुयात् प्रातः” स्मृतिः अत्र प्रातरितिविशेषणात्न सायम् तेन प्रातः सन्ध्यामुपास्याग्निकार्य्यं कृत्वाशकलहोमः कार्य्यः तन्मन्त्राश्च तैत्तिरीयारण्ये पठिताः“दैवकृतस्यैनसोऽवयजनमसि स्वाहेत्यादिकाः तदीयहोमद्रव्यविशेषोबौधायनेनोक्तः “सएष उपनयनप्रभृतिव्याहुतिभिः षडिभरेव समिद्भिः समावर्त्तनात् ।समावर्त्तनप्रभृति आज्येनैव पाणिग्रहणात् ।पाणिग्रहणप्रभृति व्रीहिभिर्यवैर्वा व्यस्तेनेकेन पञ्चाहुतीर्जुहुयात्” “वैश्वदेवं गृहस्थस्य प्रत्यहारम्भणं भवेत् ।स्नातकेनापि तत्कार्य्यं पृथक्पाको गृहे यदि” शौनकः ।“यज्ञोपवीतद्वितयं सोदकं कमुण्डलुम् छत्रञ्चोष्णीष-माले पादुके चाप्युपानहौ रौक्मे कुण्डले वेणुंकृत्तकेशनखः शुचिः स्याध्याये नित्ययुक्तः स्यात् बहिर्मा-ल्यञ्च धारयेत् शुक्लाम्बरधरोनित्यं सुगन्धः प्रियदर्शनः ।न जीर्ण्णमलवद्वासा भवेच्च विभवे सति रक्तमुल्वणंचान्यधृतं वासो कन्थिकाम्” कूर्म्मपु० “उपानहौ चवासश्च धृतमन्यैर्न धारयेत् उपवीतमलङ्कारं स्रजं क-नकमेव च” मनुः “स्नातः समुद्वहेत् कन्यां प्रव्रजेत्तद-निच्छुकः वनस्थो वा भवेद्विप्रः सुखस्थो विधिना शुचिः ।अनाश्रमी तिष्ठेत दिनमेकमपि द्विजः आश्रमेणविना तिष्ठन् प्रायत्तीयते हि सः” इति विधा पा० धृतास्मृतिः तस्य कन्यालाभार्थं काम्यजप उक्त ऋग्विधाने“सुषुमं प्रजपेत् सूक्तमथ सम्यक् शिवालये अयुतं तुजपेत् कन्यां षण्मासात् लभते नर” इति ।अत्रानाश्रमदोषविषये किञ्चिदुच्यते स्नातको हि गृह-स्थभेदोद्विजातिमात्रः समावर्त्तनस्नानस्य तेषामेव सम्भ-वात् अतस्तद्विषयकमेवानाश्रमादिदोषोत्कीर्त्तनम् ।तथा हि विधानपारिजातधृतयोः स्मृत्योः “स्नात्वैव वि-धिना काले” इत्यादौ स्नातः समुद्वहेत् कन्यामित्यादौचोपक्रमे द्विजातिविषयकत्वावगमेन उपसंहारे अना-श्रमदोषकीर्त्तनं तद्विषयकमेव उपक्रमोपसंहारयोरेक-विषयकत्वौचित्यात् एतेन “स्वीकरोति यदा वेदं चरेद्वेद-व्रतानि ब्रह्मचारी भवेदूर्द्ध्वं ततः स्नातो भवेद्गृही ।द्विविधो ब्रह्मचारी तु स्मृतः शास्त्रे मनीषिभिः उप-कुर्व्वाणकस्त्वाद्यो द्वितीयो नैष्ठिकः स्मृतः योगृहाश्रममस्थाय ब्रह्मचारी भवेत् पुनः यतिर्न वनस्थश्च सर्वा-श्रमविवर्ज्जितः अनाश्रमी तिष्ठेत्तु दिनमेकमपिद्विजः आश्रमेण विना तिष्ठन् प्रायश्चित्तीयते हि सः ।जपे होमे तथा दाने स्वाध्याये रतस्तु यः नासौ तत्-फलमाप्नोति कुर्व्वाणोऽप्याश्रमाच्च्युतः त्रयाणामानुलोम्यं हि प्रातिलोम्यं विद्यते प्रातिलोम्येनयोयाति तस्मात् पापकृत्तमः” दक्षवचनमपि वेदाध्य-यनोत्तरस्नातकानामेवोपक्रमे कीर्त्तनात् अन्ते त्रयाणा-माश्रमाणामानुलोम्यविधानाच्च द्विजमात्रविषयकम् यत्तुतद्वाक्यैकदेशमादाय रघुनन्देन अनाश्रमी तिष्ठेत्त्वित्यादिवाक्यं शूद्रोपलक्षणपरमुक्तं तद्युक्तमुपक्रमोपसंहाराभ्यांद्विजमात्रविषयकत्वनिश्चयात् किञ्च त्रयाणामानु-लोम्योक्तेरपि शूद्रविषयकत्वं तत्प्रदर्शितवामनपुराणवचने शूद्रस्यैकमात्राश्रमावगतेः तथा येषामेवआश्रमचतुष्टयं तत्त्रयं तद्द्वयं वा सम्मवति तेषामेवानुलोम्यप्रातिलोम्यसम्भव एकमात्राश्रमस्य शूद्रस्यः कथन्तरामानु-लोम्म्यप्रातिलोम्यसम्भवः एतेन “व्रतेषु लोपकोयश्च आ-श्रमाद्विच्युतश्च यः संदंशयातनामध्ये पततस्ताबुभावपि”इति भविष्यपुराणवचनेन दक्षस्मृतेः सङ्कोचनमपि परास्तम्“श्रुतिस्मृतिपुराणानां विरोधो यत्र दृश्यते तत्र श्रौतंप्रमाणं तु तयोर्द्वैधे स्मृतिर्वरेति” विधान पा० धृतव्यास-वाक्येन पुराणापेक्षया स्मृतेर्वरत्वकीर्त्तनेन पुराणेन स्मृते-र्बाधस्यायोग्यत्वात् “विरोधे त्वनपेक्षमसति ह्यनुमानमिति”जैमिनिसूत्रेण श्रुतिस्मृत्योर्बिरोधे स्मृतेराप्रमाण्यस्येवस्मृतिपुराणयोर्विरोधेऽपि पुराणस्याप्रमाण्यस्यैवोचितत्वात्वस्तुतः नात्र विरोधः “स्पष्टस्य तु विधेर्नान्यैरुपसंहारइष्यते” इतिन्यायेनार्थक स्मृतौ द्विजपदस्य स्पष्टतया अ-न्योपसंहारकत्वासम्भवेन पौराणिकयच्छब्दस्यास्पष्टार्थकतयातत्परत्वकल्पनेनैवोपपत्तौ विरोधाभावात् तथा चभविष्यपुराणवचनमेव द्विजातिविषयकं शूद्रविषय-कमित्येव कल्पनीयमिति अत्रेदं विवेक्तव्यं किं पौरा-णिकास्पष्टार्थकयच्छब्दस्य यावद्वर्ण्णविषयकत्वमुत स्पष्टा-र्थकस्मृत्येकवाक्यतया त्रैवर्णिकमात्रविषयकत्वं तत्र पुरा-णेन स्मृतेर्बाधायोगेन पौराणिकयच्छब्दस्यैव स्मृत्यु क्तत्रि-वर्ण्णपरत्वकल्पनं युक्तमित्य त्पश्यामः यदपि “चत्वार आश्र-माश्चैव ब्राह्मणस्य प्रकीर्त्तिताः ब्रह्मचर्य्यञ्च गार्हस्थ्यं वान-प्रस्थञ्च भिक्षुकम् क्षत्रियस्यापि कथिता आश्रमास्त्रयएव हि ब्रह्मचर्य्यञ्च गार्हस्थ्यमाश्रमद्वितयं विशः ।गार्हस्थ्यमुचितं त्वेकं शूद्रस्य क्षणमाचरेत्” वाम०
पु०
वाक्यं तत् शूद्रस्य गार्हस्थ्यमात्राधिकारबोधकम् ।न तु तदकरणे पापजनकताबोधकमपि उचितमितिपदस्वारस्यात् उचितपदस्य योग्यार्थकत्वात् तेनैव उद्वा०त० क्षणमुत्सवमिति व्याख्यानेन तदीयगृहस्थाश्रमस्योत्सवार्थकत्वोक्त्या काम्यत्वसूचनात् “चत्वारिंशद्वत्सराणांसाष्टानाञ्च परे यदि स्त्रिया वियुज्यते कश्रित्स तु रण्डाश्रमी मतः अष्टाचत्वारिंशदब्दं वयोयावन्नपूर्य्यते भार्य्यापुत्रवियुक्तस्य नास्ति यज्ञेऽधिका-रितेति” भविष्यपुराणवचनमपि यज्ञेऽधिकारिताप्रति-षेधात् द्विजविषयकमेव शूद्रस्य यज्ञेऽनधिकारात् ।द्विजातीनामेव यज्ञीयाज्यावेक्षणादेः पत्रीसाध्यतयापत्न्यभावे कथमाज्यावेक्षणाद्यङ्गसिद्धिरिति युक्तः तेषामन-धिकारः” यज्ञाधिकारे शूद्रस्य पर्य्युदस्तया तदधिकारा-भावकथनमनर्थकं स्यात् अतो येषामेव यज्ञाधिकारस्तेषा-मेव भार्य्याराहित्ये अनधिकारिताप्रतिपादने वचनं सार्थ-कम् तेन तद्द्विजविषयकमेव एवं प्रागुक्तदक्षवचने जपे-होमे तथा दाने स्वाध्याये निष्फलत्वकथनमपि उप-क्रमोपसंहाराभ्यां होमस्वाध्याययोर्द्विजातीनामेव सम्भ-वाच्च द्विजातिविषयकमेव अतः शूद्राणांविवाहस्य उत्-सवार्थतया काम्यत्वेनाकरणे पत्यवाय इति सुस्थितम् ।एतेन बहुविवाहवादे मया दक्षवचनस्थ द्विजपदस्योपल-क्षणार्थकत्वं यत् खण्डितं तत् सुस्थितमेवेति द्रष्टव्यम्