| YouTube Channel

आप्यायितः (ApyAyitaH)

 
E Bharati Sampat
Sanskrit
(वि) आ+प्यायी+णिच्+क्तः। ‘निष्ठा’ ३.२.१०२। १.तृप्तिं कारितः। २.प्रीणितः। ‘तदुक्तिभिस्स्वादुतमाभिरासीदाप्ययितो नूनं नाविलाभिः’ याद०१३.३७। ३.वर्द्धितः, प्रवर्द्धितः।
शब्दकल्पद्रुमः
Sanskrit
आप्यायितः, त्रि, (आङ् + प्याय् + णिच् + क्तः ।)तृप्तः प्रीतः बर्द्धितः यथा, --“एषा सूर्य्यस्य वीर्य्येण सोमस्याप्यायिता तनुः ।पौर्णमास्यां दृश्येत सम्पूर्णो दिवसक्रमात्”
इति कौर्म्मे ४० अध्यायः
आनन्दितः इतिलोकप्रसिद्धं
(यथा हितोपदेशे ।“आप्यायितोऽहं भवतामनेन वचनामृतेन”
)