| YouTube Channel

आप्यं (ApyaM)

 
शब्दकल्पद्रुमः
Sanskrit
आप्यं, त्रि, (अपां विकारः तस्य विकारैत्वणत्वात्स्वाथे ष्यञ् ।) जलविकारजं फेनादि तत्पर्य्यायः ।अम्मयं इत्यमरः
(यथा हरिवंशे ।“आप्याः प्रभूता ऋभवः पृथुकाश्च दिवौकसः ।लेखा नाम महाराज पञ्च देवगणाः स्मृताः”
“तस्मादाप्यो रसः परस्परसंसर्गात् परस्परानु-ग्रहात् परस्परानुप्रवेशाच्च सर्व्वेषु सर्व्वेषां सा-न्निध्यमस्त्युत्कर्षापकर्षात्तु ग्रहणं” इति सुश्रुतः
)
आप्यं,
क्ली,
वाप्यवृक्षः इत्यमरटीकायां रायमुकुटः ।कुड इति भाषा