| YouTube Channel

आप्तः (AptaH)

 
Apte Hindi
Hindi
आप्तः
पुं*
- आप्+क्त
"विश्वास योग्य, विश्वसनीय, योग्य व्यक्ति, विश्वस्त पुरुष या साधन"
आप्तः
पुं*
- आप्+क्त
सम्बन्धी मित्र
E Bharati Sampat
Sanskrit
(वि) आपॄ(व्याप्तौ)+क्तः। ‘निष्ठा’ ३.२.१०२। १.प्राप्तः। २.विश्वस्तः, प्रतीतः। ‘आप्तस्तु यथार्थवक्ता’ तर्कसंग्रहः। ३.हिताकाङ्क्षी ‘कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्रैरथ गर्भमर्मणि’ रघुः३.१२। ४.निपुणः, चतुरः। ‘प्राजकश्चेद् भवेद् आप्तः प्राजको दण्डम् अर्हति’ मनुस्मृतिः८.२९४। ५.समीपसम्बन्धी ‘आप्तबन्धुरदितेरहं सुतः’ यादवाभ्युदयम् १७.१२७। ६.बन्धुः। ‘निग्रहात् स्वसुराप्तानां बधाच्च धनदानुजः’ रघुवंशम् १२.५२। ७.युक्तः। ८.प्रभूतः, विशिष्टः। ‘यजेत राजा क्रतुभिः विविधैराप्तदक्षिणैः’ मनुस्मृतिः ७.७९।
Wordnet
Sanskrit
Synonyms:
आप्तः, अद्धातिः, त्यागः, निर्लिप्तः, शिलम्बः, संस्कृतात्मा
noun
सः पुरुषः यः आध्यात्मिकः भौतिकतत्त्वस्य ज्ञाता तथा पण्डितः सच्चरित्रः त्यागी च।
"आप्तस्तु यथार्थ वक्ता।"
शब्दकल्पद्रुमः
Sanskrit
आप्तः, त्रि, (आप + क्तः ।) प्रत्ययितः विश्वस्तः ।इत्यमरः
(यथा मानवे ८० ।“सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेत् वलिं” ।)प्राप्तः लब्धः (तेभ्यः किमाप्तं मया इति कालि-दासः ।) सत्यं इति हेमचन्द्रः
(हितः कुशलः ।“कुमारभृत्याकुशलैरनुष्ठितेभिषग्भिराप्तैरथ गर्भभर्म्मणि” ।इति रघुवंशे १२ सन्निकृष्टः आत्मीयः ।“असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान्”
इति मनुः १२ “आप्तान् स्वन्निकृष्टान् सहो-दरभातृमगिन्यादीन्” इति तट्टीका बहुः ।अधिकः यथा मनुः ।“यजेत राजा क्रतुभिर्व्विविधैराप्तदक्षिणैः” ।“राजा नानाप्रकारान् बहुदक्षिणान् अश्वमेधा-दियज्ञान् कुर्य्यात्” इति तट्टीका
आप्तः,
पुं,
(आप् + क्त ।) भ्रमप्रमादविप्रलिप्साकरणा-पाटवरूपदोषचतुष्टयरहितः ऋष्यादिः ।इति स्मृतिः आप्तास्तावत्
“रजस्तमोभ्यां निर्म्मुक्तास्तपोज्ञानबलेन ये ।येषां त्रैकालममलं ज्ञानमव्याहतं सदा
आप्ताः शिष्टा विबुद्धास्ते तेषां वाक्यमसंशयं ।सत्यं वक्ष्यन्ति ते कस्मादसत्यं नीरजस्तमाः”
इति चरकः
)