आपगेय (Apageya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishआपगेयः [āpagēyḥ], [आपगायां गङ्गायां भवः ढक्] A son of the river, an epithet of Bhīṣma or Krisṇa
यदाश्रौषं चापगेयेन संख्ये * 1.183.
Apte 1890
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Benfey
EnglishApte Hindi
Hindiआपगेयः
- आपगा+ढक्
"दरिया का पुत्र, भीष्म या कृष्ण की उपाधि"
Shabdartha Kaustubha
Kannadaआपगेय
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಭೀಷ್ಮಾಚಾರ್ಯರು
निष्पत्तिः - > "ढक्" (४-१-१२०)
व्युत्पत्तिः - > आपगाया अपत्यम्
वाचस्पत्यम्
Sanskritआपगेय आपगायां गङ्गायां भवः ढक् । गाङ्गेये भीष्मे तस्मतत उत्पत्तिकथा भा० आ० ९८ अ० शान्तनुप्रार्थने गङ्गा-वाक्यं यथा । “एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च ।वसूनां समयं स्मृत्वाऽथाभ्यगच्छदनिन्दिता । उवाच चैव राज्ञःसा ह्लादयन्ती मनो गिरा । भविष्यामि महीपाल! महिषीते वशानुगा । यत्तु कुर्य्यामहं राजन्! शुभं वा यदि वाशुभम् । न तद्वारयितव्याऽस्मि न वक्तव्या तथाऽप्रियम् ।एवं हि वर्त्तमानेऽहं त्वयि वत्स्यामि पार्थिव! । वारिताविप्रियं चोक्ता त्यज्येयं त्वामसंशयम्” । वैश० उक्तिः“तथेति राज्ञा सा तूक्ता तदा भरतसत्तम । प्रहर्ष-मतुलं लेभे प्राप्य तं पार्थिवोत्तमम् । आसाद्य शान्त-नुस्ताञ्च बुभुजे कामतो वशा । न प्रष्टव्येति मन्वानो नस तां किञ्चिदूचिवान् । स तस्याः शीलवृत्तेनरूपौदार्य्यगुणेन च । उपचारेण च रहस्तुतोष ज-गतीपतिः । दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा-मिनी । मानुषं विग्रहं कृत्वा श्रीमन्तं वरवर्णिनी ।भाग्योपनंतकामस्य भार्य्या चोपनताऽभवत् । शान्तनोर्न्नृ-पसिंहस्य देवराजसमद्युतेः । सम्भोगस्नेहचातुर्य्यैर्हावलास्यमनोहरैः । राजानं रमयामास यथा रेमे तथैव सः ।स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः । संवत्सरानृतू-न्मासान् बुबुधे न बहून् गतान् । रममाणस्तया सार्द्धंयथाकामं नरेश्वरः । अष्टावजनयत्पुत्त्रांस्तस्याममरसन्नि-भान् । जातं जातञ्च सा पुत्त्रं क्षिपत्यम्भसि भारत ।प्रीणाम्यहं त्वामित्युक्त्वा गङ्गास्रोतस्यमज्जयत् । तस्य तन्न-प्रियं राज्ञः शान्तनोरभवत्तदा । न च तां किञ्चनोवाचत्यागाद्भीतो महीपतिः । अथैनामष्टमे पुत्त्रे जाते प्रह-सतीमिव । उवाच राजा दुःखार्त्तः परीप्सन् पुत्त्रमात्मनः ।मा बधीः कस्य काऽसीति किं हिनस्ति सुतानिति । पु-त्त्रघ्नि! सुमहत्पापं सम्प्राप्तं ते सुगर्हितम्” । स्त्र्युवाच ।“पुत्त्रकाम! न ते हन्मि पुत्त्रं पुत्त्रवतां वर! । जीर्णोऽस्तुमम वासोऽयं यथा स समयः कृतः । अहं गङ्गा जह्नुसुतामहर्षिगणसेविता । देवकार्य्यार्थसिद्ध्यर्थमुषिताऽहं त्वयासह । इमेऽष्टौ वसवो देवा महाभागा महौजसः ।वशिष्ठशापदोषेण मानुषत्वमुपागताः । तेषां जनयितानान्यस्त्वट्टते भुवि विद्यते । मद्विधा मानुषी धात्री लोकेनास्तीह काचन । तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता ।जनयित्वा वसूनष्टौ जिता लोकास्त्वयाऽक्षयाः । देवानांसमयस्त्वेष वसूनां संश्रुतो मया । जातं जातं मोक्षयिष्येजन्मतो मानुषादिति । तत्ते शापाद्विनिर्मुक्ता आपवस्यमहात्मनः । स्वस्ति तेऽस्तु गमिष्यामि पुत्त्रं पाहि भहा-व्रतम् । एष पर्य्यायवासो मे वसूनां सन्निधौ कृतः । मत्प्र-सूतं विजानीहि गङ्गादत्तमिमम् सुतम्” । हृत निज-धेनुकान् वसून् प्रति गङ्गया वशिष्ठशापस्तत्रैवोस्यः९९ अ० । “अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः ।नचापश्यत्स गां तत्र सवत्सां काननोत्तमे । ततःस मृगयामास वने तस्मिंस्तपोधनः । नाध्यागमच्चमृगयंस्तां गां मुनिरुदारधीः । ज्ञात्वा तथाऽपनीतांतां वसुभिर्दिव्यदर्शनः । ययौ क्रोधवशं सद्यःशशाप च वसूंस्तदा । यस्मान्मे वसवो जह्रुर्गां वै दो-ग्ध्रीं सुबालधिम् । तस्मात्सर्व्वे जनिष्यन्ति मानुषेषुन संशयः । एवं शशाप भगवान् वसूंस्तान् भरतर्षभ! ।वशं क्रोधस्य सम्प्राप्त आपवो मुनिसत्तमः । शत्वा चतान्महाभागस्तपस्येव मनो दघे । एवं स शप्तवान् राजन्!वसूनष्टौ तपोधनः । महाप्रभावो ब्रह्मर्षिर्देवान् क्रोधसमन्वितः । अथोश्रमपदं प्राप्तास्ते वै भूयी महात्मनः ।शप्ताःस्म इति जानन्त ऋषिं तमुपचक्रमुः । प्रसादयन्त-स्तमृषिं वसवः पार्थिवर्षभ! । लेभिरे नच तस्मात्ते प्रसा-दमृषिसत्तमात् । आपवात्पुरुषव्याघ्र! सर्वधर्म्मविशारदात् ।उवाच च स धर्म्मात्मा शप्ता यूयं धरादयः । अनुसंवत्सरात्सर्वे शापमोक्षमवाप्स्यथ । अयन्तु यत्कृते यूयंमया शप्ताः स वत्स्यति । द्यौस्मदा मानुषे लोके दीर्घ-कालं स्वकर्म्मणा । नानृतं तच्चिकीर्षामि क्रुद्धो युष्मान्यदब्रवम् । न प्रजास्यति चाप्येष मानुषेषु महामनाः ।भविष्यति च धर्म्मात्मा सर्वशास्त्रविशारदः । पितुः प्रिय-हिते युक्तः स्त्रीभोगान् वर्जयिष्यति । एवमुक्ता वसून् सर्वान्स जगाम महानृषिः । ततो मामुपजग्मुस्ते समेता वसव-स्तदा । अयाचन्त च मां राजन्! वरं तच्च मया कृतम् ।जातान् जातान् प्रक्षिपास्मान् स्वयं गङ्गे! त्वमम्भसि ।एवं तेषामहं सम्यक् शप्तानां राजसत्तम! । मोक्षार्थंमानुषाल्लोकाद्यथावत्कृतवत्यहम् । अयं शापादृषेस्तस्य एकएव नृपोत्तम । द्यौराजन्! मानुषे लोके चिरं वत्स्यतिभारत! । वैशाम्पायन उवाच । एतदाख्याय सा देवी त-त्रैवान्तरधीयत । आदाय च कुमारं तं जगामाथ यथेप्सितम् । स तु देवव्रतो नाम गाङ्गेय इति चाभवत् । द्यु-नामा शान्तनोः पुत्त्रः शान्तनोरधिको गुणैः” ।“अथापगेयं भीष्मं तं रामेणेच्छामि धीमता । रणे विनि-र्ज्जितं द्रष्टुं कुर्य्यात्तदपि भार्गवः” “यदि त्वामापगेयो वैन नयेद्गजसाह्वयम्” इति च भा० उ० प० ७७ अ० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
