| YouTube Channel

आन्धीगव (AndhIgava)

 
Monier Williams Cologne
English
आन्धीगव
n.
(fr. अन्धी-गु), ‘seen i.e. composed by the Ṛṣi Andhīgu’,
N.
of several Sāmans,
Lāṭy.
iv, 5, 27
TāṇḍyaBr.
Nyāyam.
वाचस्पत्यम्
Sanskrit
आन्धीगव
न०
अन्धीगुना ऋषिभेदेन दृष्टं साम--अण् तृती-यसवने गेये आर्भवपवमानसूक्तगते सूक्तभेदे तच्च सूक्तम्ऊहगाने प्र० ११ क० पठितम् तच्च साम० स० भा० दर्शितम्यथा “श्यावश्वान्धीगवेऽनुष्टुवानेये ग्रथ्यतेऽथ वा पुरेवलिङ्गं जगती चतुर्विंशति--कीर्त्तनम् इदमाम्नायते “पञ्च-छन्दा आवापः आर्भवः पवमानः सप्तसामा, गायत्र-संहिते गायत्र्ये तृचे भवतः, श्यावाश्वान्धीगवे आनुष्टुभेतृचे भवतः, उष्णिहि शफम्, ककुभि पौष्कलम्, काव-मन्त्यं जगतीषु” इति अयमर्थः अस्ति तृतीयसवनेपवमानः आर्भवसंज्ञकः, तस्मिन् पञ्च सूक्तानि, सप्तसामानि, “स्वादिष्ठया नदिष्ठा” इत्येकं सूक्तम् (उ, प्र, १५), तस्मिन् गायत्र्यस्तिस्र ऋचः तासु “गायत्रम्”“संहितम्” (उ, प्र, ८) चेति द्वे सामानी, “पु-रोजिती श्रो अन्धसः” इति सूक्तान्तरम् (उ, प्र, १८)तत्रैकानुष्टुबुत्तरे द्वे गायत्र्यौ तासु “श्यावाश्वम्”(ऊ, प्र, ११) “आन्धीगवम्” (उ, प्र, ११) चेति द्वे सा-मनी, “इन्द्रमच्छ सुता” इत्यपरं सूक्तम् (ऊ, प्र, १८), तस्मिनुष्णिहस्तिस्रः तासु “शफम्” साम, “पवस्वमधुमत्तम” इति प्रगाथः (उ, प्र, १६), तस्मिन् पूर्व्वाककुप्, उत्तरा पङ्क्तिः तत्र “पौष्कलम्” (ऊ, प्र, ९)साम, “अभिप्रियाणि पवते नोहित” इत्यन्त्यं सूक्तम्(उ, प्र, १९), तत्र तिस्रोजगत्यः तासु “कावम्”(ऊ, प्र, १३) साम”