| YouTube Channel

आनूपः (AnUpaH)

 
Apte Hindi
Hindi
आनूपः
पुं*
- अनूपदेशे भवः-अण्
दलदली भूमि में घूमने वाला पशु
Wordnet
Sanskrit
Synonyms:
महिषः, रक्ताश्वः, अश्वारिः, लुलापः, वाहद्विषा, कासरः, सैरिभः, यमवाहनः, विषज्वरा, वंशभीरुः, रजस्वलः, आनूपः
noun
पशुविशेषः यस्य स्त्रीत्वविशिष्टः पशुः दुग्धार्थं पाल्यते पुंजातीयश्च भारवहनार्थम् उपयुज्यते।
"सः नैकान् महिषान् पालयति।"
Synonyms:
महिषः, लुलापः, सैरिभः, यमाहनः, विषज्वरन्, वंशभीरुः, रजस्वलः, आनूपः, रक्ताक्षः, अश्वारिः, क्रोधी, कलुषः, मत्तः, विषाणी, गवली, बली
noun
महिषजातीयः पुमान् पशुः।
"सः महिषं हलेन युनक्ति।"
शब्दकल्पद्रुमः
Sanskrit
आनूपः,
पुं,
(अनूप + अण् ।) अनूपदेशस्थजन्तु-मात्रं तच्च खङ्गिमहिषवराहादि एषां मांस-गुणाः गुरुत्वं उष्णत्वं मधुरत्वं स्निग्धत्वं ।शुक्रकारित्वं वायुनाशित्वञ्च इति राजवल्लभः
अनूपदेशजलगुणाः घनत्वं गुरुत्वं पिच्छि-लत्वं मधुरत्वं श्लेष्मजनकत्वं स्निग्धत्वं अग्नि-नाशित्वं प्रमेहश्लीपदच्छर्द्दिगलगण्डादिरोग-कारित्वञ्च इति राजनिर्घण्टः
अनूपदेशस्थ-जन्तोर्लक्षणं तन्मांसस्य गुणाश्च ।“कुलेचराः प्लवाश्चापि कोशस्थाः पादिनस्तथा ।मत्स्या एते समाख्याताः पञ्चधानूपजातयः
आनूपा मधुराः स्निग्धा गुरवो वह्निमर्द्दनाः ।श्लेष्मलाः पिच्छिलाश्चापि मांसपुष्टिप्रदा भृशं
तथाभिष्यन्दिनस्ते हि प्रायोऽपथ्यतमाः स्मृताः”
इति भावप्रकाशः
(“सृमरश्चमरः खङ्गो महिषो गवयो गजः ।न्यङ्कुर्वराहश्चानूपा मृगाः सर्व्वे रुरुस्तथा”
“गुरूष्णो मधुरो नातिधान्वानूपनिषेवणात्” ।इति चरकः
तथाच हारीतः
“आनूपास्तेषु विज्ञेयाः श्लेष्मना वातकोपनाः” ।आनूपवर्गस्तु पञ्चविधः यथा “कूलचराः प्लवाःकोशस्थाः पादिनो मत्स्याश्चेति” इति सुश्रुतः
बहुजलयुक्ते, त्रि ।)