| YouTube Channel

आनुपूर्व्वी (AnupUrvvI)

 
शब्दकल्पद्रुमः
Sanskrit
आनुपूर्व्वी,
स्त्री,
क्ली,
(अनुपूर्व्व + अण् ।) परिपाटी ।अनुक्रमः इत्यमरः
(यथा मनुः २३ ।“षडानुपूर्व्व्या विप्रस्य क्षत्रस्य चतुरो वरान्”
यथा रामायणे ।“आनुपूर्व्व्या धर्म्मज्ञः पप्रच्छ कुशलं कुले” ।)
वाचस्पत्यम्
Sanskrit
आनुपूर्व्वी स्त्री पूर्व्वमनुक्रम्य अनुपूर्व्वं तस्य भावः ष्यञ् ततोवा ङीषि यलोपः परिपाट्याम् मूलावधिके क्रमे“षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान्” मनुः ।ङीषभावपक्षे आनुपूर्व्यमप्यत्र
न०
“वसीरन्नानुपूर्व्येणशाणक्षौमाविकानि च” मनुः