आनर्थक्य (Anarthakya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
English आनर्थक्य Anarthakya unfitness
आनर्थक्य Anarthakya unprofitableness
आनर्थक्य Anarthakya uselessness
आनर्थक्य Anarthakya absurdity
आनर्थक्य Anarthakya impropriety
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishआनर्थक्यम् [ānarthakyam], [अनर्थस्य भावः ष्यञ्]
Uselessness, unprofitableness
श्रुत्यानर्थक्यमिति चेत् Kāty.
आम्नायस्य क्रियार्थत्वा- दानर्थक्यमतदर्थानाम् Jaimini S.
Unfitness, impropriety.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiआनर्थक्यम्
- अनर्थकस्य भावः-ष्यञ्
"अनुपयुक्तता, निरर्थकता"
आनर्थक्यम्
- अनर्थकस्य भावः-ष्यञ्
अयोग्यता
Shabdartha Kaustubha
Kannadaआनर्थक्य
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ವೈಯರ್ಥ್ಯ /ವ್ಯರ್ಥತೆ
निष्पत्तिः - > "ष्यञ्" (५-१-१२४)
व्युत्पत्तिः - > अनर्थकस्य भावः
L R Vaidya
EnglishAbhyankara Grammar
Englishआनर्थक्य absence of any utility
superfluity
absence of any object or purpose
cf. स्थानिवद्वचनानर्थक्यं शास्त्रा- सिद्धत्वात् । M. Bh. on P.VI.1.86 Vārt. 5 cf. also P.VI.1.158 Vārt. 4
VI.1.161 Vārt. 1, VI.1.166 Vārt. 1, VI.1.167 Vārt. 3.
वाचस्पत्यम्
Sanskritआनर्थक्य अनर्थस्य भावः ष्यञ् । १ निष्प्रयोज-नत्वे प्रयोजनाभावे । “श्रुत्यानर्थक्यमिति चेत्” कात्या०७१, ८, ५, “आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्”जै० सू० । अनेन क्रियाप्रतिपादकभिन्नवेदभागानामान-र्थक्योक्तेः वेदान्तवाक्यानां न स्वार्थे प्रामाण्यं सप्तद्वीपावसुमतीत्यादिवाक्यवत् तेषां भूतार्थोपदेशकत्वात् तथाच उपासनाविधिविशेषतयैव तेषां प्रामाण्यम् इतिमीमांसका मन्यन्ते । तदेतन्मतम् पूर्व्वपक्षत्वेनोपन्यस्य “तत्तुसमन्वयादिति” शारीरकसूत्रभाष्ये निराकृतं यथा“यद्यपि शास्त्रप्रमाणकं ब्रह्म तथापि प्रतिपत्तिविधिवि-षयतयैव शास्त्रेण ब्रह्म समर्प्यते । यथा यूपाहवनीया-दीन्यलौकिकान्यपि विधिविशेषतया समर्प्यन्ते तद्वत् । प्र-वृत्तिनिवृत्तिप्रयोजनत्वाच्छास्त्रस्य । तथा हि शास्त्रतात्-षर्य्यविद आहुः । “दृष्टोहि तस्यार्थः । कर्माववोधन-ञ्चोदनेति क्रियायाः प्रवर्त्तकं वचनम् । तस्य ज्ञानमुपदेशः ।तद्भूतानां क्रियार्थेन समाम्नायः” । “आम्नायस्य क्रिया-र्थत्वादानर्थक्यमतदर्थानामिति च” । अतः पुरुषं क्वचिद्विषयविशेषे प्रवर्त्तयत् कुतश्चिद्विषयविशेषान्निवर्त्तयच्चार्थवच्छा-स्त्रम् तच्छेषतया चान्यदुपयुक्तम् । तत्सामान्याद्वेदा-न्तानामपि तथैवार्थवत्त्वं स्यात् । सति च विधिपरत्वे-यथा स्यर्गादिकामस्याग्निहोत्रादि साधनं विधीयते एव-ममृतत्वकामस्य ब्रह्मज्ञानं विधीयत इति युक्तम् । नन्विहजिज्ञास्यवैलक्षण्यमुक्तम् । कर्मकाण्डे भव्योधर्मोजिज्ञास्यःइह तु भूतं नित्यवृत्तं ब्रह्म जिज्ञास्यमिति । तत्र धर्म्म-ज्ञानफलादनुष्ठानापेक्षाद्विलक्षणं ब्रह्मज्ञानफलं भवितुमर्हति । नार्हत्येवं भवितुम् । कार्यविधिप्रयुक्तस्यैवब्रह्मणः प्रतिपाद्यमानत्वात् । “आत्मा वा अरे द्रष्टव्यः”“योऽयमात्माऽपहतपापमा सोऽन्वेष्टव्यः स विजिज्ञासि-तव्यः” । “आत्मेत्येवोपासीत” । “आत्मानमेव लोकनुपा-सीत” “ब्रह्म वेद ब्रह्मैव भवति” इत्यादिषु हि विधानेषुसत्सु कोऽसावात्मा ब्रह्मेत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वेवेदान्ता उपयुक्ताः नित्यः सर्वज्ञः सर्व्वगतोनित्यतृप्तोनित्यशुद्धबुद्धमुक्तस्वभावोविज्ञानानन्दं ब्रह्मत्येवमादयः । तदु-पासनाच्च शास्त्रदृष्टोऽदृष्टोमोक्षः फलं भविष्यति । कर्त्तव्य-विध्यननुप्रवेशेन वस्तुमात्रकथने हानोपादानासम्भवात्“सप्तद्वीपा वसुमती” “राजासौ गच्छति” इत्यादि वाक्यवद्वे-दान्त वाक्यानामानर्थक्यमेव स्यात् । ननु वस्तुमात्रकथनेऽपिरज्जुरियं सर्प इत्यादौ म्रान्तिजनितभीतिनिवर्त्तनेनार्थवत्त्वंदृष्टं तथेहाप्यसंसार्य्यात्मवस्तुकथनेन संसारित्वभ्रान्तिनि-वर्तनेनार्थवत्त्वं स्यात् । स्यादेवं यदि रज्जुस्वरूपश्रव-णैव सर्पभ्रान्तिः संसारित्वभ्रान्तिर्ब्रह्मस्वरूपश्रवणमा-त्रेण निवर्त्तते श्रुतब्रह्मणोऽपि यथापूर्व्वं सुखदुःखादिसंसारित्वधर्मदर्शनात् । “श्रोतव्योमन्तव्योनिदिध्यासितव्यः”इति च श्रवणोत्तरकालयोर्मनननिदिध्यासनयोर्दर्शनात् ।तस्मात्प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्माऽभ्युप-गन्तव्यमिति” (पूर्व्वपक्षः) । “यदपि शास्त्र तात्पर्य्य विदा-मनुक्रमणम् । दृष्टोहि तस्यार्थः कर्म्माववोधनमित्येवमादि ।तत् धर्मजिज्ञासाविषयत्वाद्विधिप्रतिषेधशास्त्राभिप्रायं द्रष्ट-व्यम् । अपि च “आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्था-नाम्” इत्येतदेकान्तेनाभ्युगच्छतां भूतोपदेशानामानर्थक्यप्र-सङ्गः । प्रवृत्तिनिवृत्तिव्यतिरेकेण भूतञ्चेत् वस्तूपदिशतिभव्यार्थत्वेन, कूटस्थं नित्यंभूतं नोपदिशतीत्यत्रकोहेतुः? ।न हि भूतमुपदिश्यमानं क्रिया भवति । अक्रियात्वेपिभूतस्य क्रियासाधनत्वात् क्रियार्थएव भूतोपदेश इति चेन्नै-ष दोषः । क्रियार्थत्वेऽपि क्रियानिर्वर्त्तनर्शक्तिमद्वस्तूपदि-ष्टमेव । क्रियार्थत्वन्तु प्रयोजनं तस्य, न चैतावता वस्त्वनुप-दिष्टं भवति । यदि नामोपदिष्टं किं तव तेन स्यादितिउच्यते । अनवगतात्मवस्तूपदेशश्च तथैव मवितुमर्हति ।तदवगत्या मिथ्याज्ञानस्य संसारहेतोर्निवृत्तिः प्रयोजनंक्रियतैत्यविशिष्टमर्थवत्त्वं क्रियासाधनवस्तूपदेशेन । अपिच “ब्राह्मणोन हन्तव्यः” इति चैवमाद्या निवृत्तिरुपदि-श्यते । न च सा क्रिया नापि क्रियासाधनम् । अक्रि-यार्थानामुपदेशोऽनर्थकश्चेत् “ब्राह्मणोन हन्तव्यः” इत्यादिनिवृत्त्युपदेशानामानर्थक्यं प्राप्तं तच्चानिष्टम् । न च स्व-भावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रियार्थंत्वंकल्पयितुं हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण । नञश्चैष स्वभावोयत् स्वसम्बन्धिनोऽभावं बोधयति । अभावबुद्धिस्त्वौदासीन्यकारणम् । सा च दग्धेन्धनाग्निवत् स्वय-मेवोपशाम्यति । तस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेवब्राह्मणोनहन्तव्य इत्यादिषु प्रतिषेधार्थं मन्यामहे अन्यत्रप्रजापतिव्रतादिभ्यः । तस्मात् पुरुषार्थानुपयोग्युपाख्या-नादिभूतार्थवादपिषयमानर्थक्याभिधानं द्रष्टव्यम्” भा० ।(सिद्धान्तः) वाक्यादेः २ अर्थबोधकताभावे च । मीमांसकमतेकार्य्यान्वित एव शब्दानां शक्तिग्रहनियमात् लिङादेश्चकार्य्यताबोधकतया तच्छून्यवाक्यस्यार्थबोधकत्वाभाव इतिप्राभाकरामन्यन्ते ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
