| YouTube Channel

आध्मानं (AdhmAnaM)

 
Apte 1890
English
आध्मानं [आ-ध्मा-ल्युट्] 1 Blowing inflation
(fig.) growth, increase
Mv. 7. 14.
2 Boasting, vaunting.
3 A bellows.
4 Intumescence, swelling of the belly, body &c., dropsy.
शब्दकल्पद्रुमः
Sanskrit
आध्मानं,
क्ली,
(आङ् + ध्मा + ल्युट् ।) वातव्याधि-विशेषः तस्य रूपं ।“साटोपमत्युग्ररुजमाध्मातमुदरं भृशं ।आध्मानमिति जानीयाद्घोरं वातनिरोधजं”
इति निदानं
पेटफाँपा इति भाषा ।तस्य चिकित्सा यथा, --“आध्माने लङ्घनं पूर्व्वं दीपनं पाचनं ततः ।फलवर्त्तिक्रियां कुर्य्यात् वस्तिकर्म्म शोधनं
कर्षमात्रा भवेत् कृष्णा त्रिवृता स्यात् पलोन्मिता ।खण्डादपि पलं ग्राह्यं चूर्णमेकत्र कारयेत्
भधुनाक्षमितं लिह्यातं चूर्णमाध्माननाशनं”
नारायणचूर्णं
“दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः ।लिम्पेब् कोष्णैरम्लपिष्टैः शूलाध्मानयुतोदरं
हैमवती वचा दारुषट्कलेपः
“अभयारग्वधो धात्री दन्ती तिक्ता स्नुही त्रिवृत् ।मुस्ता प्रत्येकमेतानि ग्राह्याणि पलमात्रया
तानि संक्षुद्य सर्व्वाणि जलाढकयुगे पचेत् ।तत्र तोयेऽष्टमं भागं कषायमवशेषयेत्
निस्त्वग्जैपालवीजानि नवानि पलमात्रया ।तनुवस्त्रधृतान्येव तस्मिन् क्वाथे शनैः पचेत्
ज्वालयेदनलं मन्दं यावत् क्वाथो घनो भवेत् ।ततः खल्ले क्षिपेत् भागानष्टौ जैपालबीजतः
भागांस्त्रीन् नागराद्द्वौ मरिचात् द्वौ पारदात् ।गन्धकात् द्वौ तानीह यावद्यामं विमर्दयेत्
रसो नाराचनामायं भक्षितो रक्तिकामितः ।जलेन शीतलेनैव रोगानेतान् विनाशयेत्
आध्मानं शूलमानाहं प्रत्याध्मानं तथैव ।उदावर्त्तं तथागुल्भमुदराणि हरत्यसौ
वेगे शान्ते भुञ्जीत शर्करासहितं दधि ।ततस्तत्सैन्धवेनापि ततो दध्योदनं मनाक्”
महानाराचो रसः
इति भावप्रकाशः
(वायुना सवेदनमुदरपरिपूर्णत्वमाध्मानत्वं इतिरुग्विनिश्चयग्रन्थव्याख्यानकृद्विजयरक्षितः
)