| YouTube Channel

आधिभौतिकं (AdhibhautikaM)

 
शब्दकल्पद्रुमः
Sanskrit
आधिभौतिकं, त्रि, (अधिभूत + ठञ् अनुशति-कादीनां चेत्युभयपदवृद्धिः ।) दुःखविशेषः यथा ।“वाह्योपायसाध्यं दुःखं द्वेधा आधिभौतिकं आ-धिदैविकञ्च तत्राधिभौतिकं मानुषपशुमृगप-क्षिसरीसृपस्थावरनिमित्तं” इति साङ्ख्यतत्त्व-कौमुदी
(“तत्तु सप्तबिधे ब्याधावुपनिपतति” ।इति सुश्रुतः
)