| YouTube Channel

आधिबन्ध (Adhibandha)

 
Monier Williams Cologne
English
आधि-बन्ध a See under आ-√ ध्यै.
आ-धि—बन्ध b
m.
the tie of anxiety (said of a king in relation to his care of his subjects),
MBh.
वाचस्पत्यम्
Sanskrit
आधिबन्ध
पु०
आधिः बहुप्रजानां कथं पालनं स्यादितिचिन्ता एव बन्धः बहुप्रजारक्षणार्थचिन्तारूपबन्धे ।“कथं राजन्! प्रजारक्षन्नाधिबन्धेन युज्यते” युधिष्थिरप्रश्नेतच्चिन्ताधिरूपबन्धनिवारणाय यथा राज्ञाचरणीयंतथोक्तं तं प्रति भीष्मेण भा० शा० ७० अ० “समासेनैवते राजन्! धर्मान् वक्ष्यामि शाश्वतान् विस्तरे-णेह धर्माणां जात्वन्तमवाप्नुयात् धर्मनिष्ठान् श्रुत-वतो देवव्रतसमाहितान् अर्च्चयित्वा यजेथास्त्वं गृहेगुणवतो द्विजान् प्रत्युत्थायोपसंगृह्य चरणावभिवाद्यच अथ सर्व्वाणि कुर्व्वीथाः कार्य्याणि सपुरोहितः ।धर्म्मकार्य्याणि निर्वर्त्य मङ्गलानि प्रयुज्य ब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः आर्ज्जवेन सम्पन्नोधृत्या बुद्ध्या भारत! यथार्थं प्रतिगृह्णीयाः काम-क्रोधौ वर्ज्जयेः कामक्रोधौ पुरस्कृत्य योऽयं राजा-ज्नुतिष्ठति धर्म्मं चाप्यर्थं प्रतिगृह्णाति वा-लिशः मा स्म लुब्धांश्च मूर्खांश्च कामार्थेषु प्रयूयुजः ।अलुब्धान् बुद्धिसम्पन्नान् सर्वकर्म्मसु योजयेः मूर्खोह्यधिकृतोऽर्थेषु कार्य्याणामविशारदः प्रजाः क्लिश्नात्ययो-गेन कामक्रोधसमन्वितः बलिषष्ठेन शुल्केन दण्डेना-थापराधिनाम् शास्त्राणि तेन लिप्सेथा वेतनेन धना-गमम् दापयित्वा करं धर्मं राष्ट्रं नीत्या यथाविधि ।तथैतं कल्पयेद्राजा योगक्षेममतन्द्रितः गोपायितारंदातारं षर्मनित्यमतन्द्रितम् अकामद्वेषसंयुक्तमनुरज्यन्तिमानवाः मा स्माधर्मेण लोभेन लिप्सेथास्त्वं धनागमम् ।धर्मार्थावध्रुवौ तस्य यो शास्त्रपरो भवेत् अर्थशास्त्र-परो राजा धर्मार्थान्नाधिगच्छति अस्थाने चास्य त-द्वित्तं सर्वमेव विनश्यति अर्थमूलो हि हिंसाञ्च कुरुतेस्वयमात्मनः करेरशास्त्रदृष्टैर्हि मोहात् सम्पीडयेत्प्रजाः ऊधश्छिन्द्यात्तु यो धेन्वाः क्षीरार्थी लभेत्पयः एवं राष्ट्रमयोगेन पीडितं विवर्द्धते यो हिदोग्ध्रीमुपास्ते नित्यं विन्दते पयः एवं राष्ट्रमुपा-येन भुञ्जानो लभते फलम् अथ राष्ट्रमुपायेन भुज्य-मानं सुरक्षितम् जनयत्यलां नित्यं कोषवृद्धिं युधि-ष्टिर! दोग्ध्री धान्यं हिरण्यञ्च मही राज्ञा सुरक्षिता ।नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः माला-कारोपमो राजन्! भव नाङ्गारिकोपमः तथा युक्तश्चिरंराज्यं भोक्तुं शक्ष्यसि पलयन् परचक्राभियानेन यदिते स्याद्धनक्षयः अथ साम्नैव लिप्सेथा धनमब्राह्मणेषुयत् मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रच लेन्मनः अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत धनानि तेभ्योदद्यास्त्वं यथाशक्ति यथाऽर्हतः सान्त्वयन् परिरक्षंश्च स्व-र्गमाप्स्यसि दुर्ज्जयम् एवं धर्मेण वृत्तेन प्रजास्त्वं परि-पालय स्वन्तं पुण्यं यशो नित्यं प्राप्स्यसे कुरुनन्दन! ।धर्म्मेणव्यवहारेण प्रजां पालय पाण्डव! युधिष्ठिर! यथायुक्तो नाधिबन्धेन योक्ष्यसे एष एव परो धर्मो यद्राजारक्षति प्रजाः भूतानां हि यदा धर्मो रक्षणं परमादया तस्मादेव परं धर्म्मं मन्यन्ते धर्म्मकोविदाः योराजा रक्षणे युक्तो भूतेषु कुरुते दयाम् यदह्ना कुरुतेपापमरक्ष भयतः प्रजाः राजा वर्षसहस्रेण तस्यान्त-मधिगच्छति यदह्ना कुरुते धर्म्मं प्रजा धर्मेण पालयन् ।दश वर्षसहस्राणि तस्यभुङ्क्तेफलं दिवि स्विष्टिः स्वधीतिःसुतपा लोकान् जयति यावतः क्षणेन तानवाप्नोतिप्रजा धर्मेण पालयन् एवं धर्मं प्रयत्नेन कौन्तेय! परि-पालय ततः पुण्यफलं लब्ध्वा नाधिवन्धेन योक्ष्यसे”