| YouTube Channel

आधिदैविकं (AdhidaivikaM)

 
शब्दकल्पद्रुमः
Sanskrit
आधिदैविकं, त्रि, (अधि + देव + ठञ् अनु-शतिकादीनां इत्युपभयपदवृद्धिः ।) दुःखविशेषः ।तद्यथा, “आधिदैविकं यक्षराक्षसविनायकग्र-हाद्यावेशनिबन्धनं” इति साङ्ख्यसत्त्वकौमुदी
(देवतामधिकृत्य, प्रवृत्तं, दाहशीतादिजनितं दुःखं ।अतिवातादिवृष्ट्यादिहेतुकं दुःखं देवतामधि-कृत्य प्रवृत्तं शास्त्रम् यथा मनुः ८३ ।“अधियज्ञं ब्रह्म जपेदाधिदैविकमेव ।आध्यात्मिकञ्च सततं वेदान्ताभिहितञ्च यत्”
“तत्तु सप्तविधे व्याधावुपनिपतति” इति सुश्रुतः ।)