| YouTube Channel

आद्युदात्त (AdyudAtta)

 
Monier Williams Cologne
English
आद्य्-उदात्त
mfn.
having the Udātta accent on the first syllable,
Pāṇ.
iii, 1, 3
Macdonell
English
आद्युदात्त ādi‿udātta,
a.
having the acute on 🞄the first syllable: -tva,
n.
accentuation on that 🞄syllable.
Apte Hindi
Hindi
आद्युदात्त
वि* आदि-उदात्त -
वह शब्द जिसके आरम्भिक अक्षर पर स्वराघात हो
L R Vaidya
English
Adi-udAtta {% a. %} having the acute accent on the first syllable.
Abhyankara Grammar
English
आद्युदात्त a word beginning with an acute-accent i.e. which has got the first vowel accented acute: words in the vocative case and words formed with an affix marked with a mute ञ् or न् are ādyudātta
cf.P. VI.1.197, 198: for illustrations in detail see P.VI.1.189-216.
वाचस्पत्यम्
Sanskrit
आद्युदात्त
त्रि०
आदिः उदात्तो यस्य यस्य आदिरुदात्तःतादृशे प्रत्ययादौ पाणिन्यादिभिर्दर्शितः “प्रत्ययः”इत्यचिकारे “आद्युदत्तः” पा० असति अपवादे सर्वोऽपिप्रत्यय आद्युदात्तः कर्त्तमत्र तेति उदात्तः “स्वपादि-हिंसानामच्यनिटि” पा० अदाद्यन्तर्गणस्वपादेर्हिनस्तेश्च अ-निटि अजादौ लसार्वधातुके परे आदिरुदात्तोवा स्वपन्तिइत्यत्र स्वेत्यस्य वा उदात्तता “अभ्यस्तानामादिः” पा०सूर्व्वोक्तविषये अभ्यस्तसंज्ञकानामादिरुदात्तः दघति, इत्यादौदेत्यस्योदात्तता “अनुदात्ते च” पा० अविद्यमानोदात्ते लसर्वधातुके परे अभ्यस्तानामादिरुदात्तः दधासि अनजा-दावपि देत्यस्योदात्तता “आदिर्णमुल्यन्यतरस्याम्” पा०अभ्यस्तानामादिर्णमुलि परे उदात्तो वा लोलूयं लोलूयम्पक्षे लित्स्वरः “अचः कर्त्तृयकि” पा० कर्म्मकर्त्तरि यकिपरे उपदेशेऽजन्तानामादिरुदात्तो वा लूयते केदारःस्वयमेव “सर्वस्य सुपि” पा० सुपि परे सर्वशब्दस्य आदि-रुदात्तः सर्वे अत्र सेत्यस्योदत्तता “ञ्नित्यादिनित्यम्” पा०ञिदन्तस्य निदन्तस्यादिरुदात्तः व्यञोञित्त्वात् तदन्तस्यादि-रुदात्तः “पथिमथोः सवनामस्थाने” पा० अन्योरादिरुदात्तःसुर्वनामस्थाने परे पन्थाः पेत्युदात्तः “क्षयोनिवासे” पा०निवासार्थे क्षयस्यादिरुदात्तः “जयः करणम्” पा०करणवाची जयशब्द आद्युदात्तः “वृषादीनाञ्च” पा०एषामादिरुदात्तः! वृष जन ज्वर ग्रह हय गय नय तायतय चय अम वेद सूद अंश गुह्य (शमरणौ संज्ञायाम्)(संमतौ भावकर्म्मणोः) मन्त्र शान्ति काम याम तारा धाराकारा वह कल्प पाद “आकृतिगणत्वात् अविहितलक्ष-णमाद्युदात्तत्वं वृषादिषु ज्ञेयम्” सि० कौ० “संज्ञाया-मुपमानम्” पा० चञ्चेव चञ्चा “निष्ठा ह्यजनात्” पा०निष्ठान्तस्य द्व्यचः संज्ञायामादिरुदात्तः नत्वाकारान्त ।दत्तः आकारस्तु स्नातः “शुष्कधृष्टौ” पा०एतावाद्युदात्तौ असंज्ञायाम् “आशितः कर्त्ता” पा०कर्त्तृवाची आशितशब्द आद्युदात्तः “रिक्ते विभाषा”पा० रिक्तस्यादिरुदात्तः असंज्ञायाम् “जुष्टा-र्पिते छन्दसि” पा० एतौ आद्युदात्तौ असंज्ञायाम्“युष्मदस्मदोर्ङसि” पा० अनयोः ङसि परे आदिरुदात्तः ।“ङयि च” पा० अनयोर्ङयि परे आदिरुदात्तः “यतोऽ-नावः” पा० यत्प्रत्ययान्तस्य द्व्यच आदिरुदात्तः नावं विना ।गव्यम् काम्या “ईडवन्दवृहसदुहां ण्यतः” पा० ण्यदन्तानामेषामादिरुदात्तः “विभाषा बेण्विन्धानयोः” पा०एतयोरादिरुदात्तः “त्यागरागहासकुहश्वठक्रथानाम्” पा०एषाम् आदिरुदात्तः फिट्सूत्रे शान्तनवाचार्य्यैरन्येऽपिआद्युदात्ता उक्ता यथा “दक्षिणस्य साधौ” फि०स्याङ्गार्थकदक्षिणशब्दस्यादिरुदात्तोवा दक्षिणोबाहुः “छ-न्दसि च” फि० “शुक्लगौरयोरादिः” फि० “अनयोरादि-रुदात्तः “अङ्गुष्ठोदकवकवशानां छन्दस्यन्तः” फि० लोके तुआदिरुदात्तः “अथादिः प्राक् शकटेः” फि० पादे सू० ।अधिकारोऽयम् शकटिशकष्ट्योरिति यावत् “ह्रस्वान्तस्यस्त्रीविषयस्य २” आदिरुदात्तः स्यात् वलिःतनुः “नब्-विषयस्यानिसन्तस्य” वनं वयः इसन्तस्य तु सर्पिः नप्नपुंसकम् “तृणधान्यानां द्व्यषाम्” द्यचामित्यर्थः ।कुशाः, काशाः, माषाः, तिला, बह्वचान्तु गोधूमाः “न्रःसंख्यायाः” पञ्च, चतस्रः “स्वाङ्गशिटासदन्ता-नाम्” शिट् सर्व्वनाम, “कर्ण्णाभ्यां चुचूकादधि” “ओ-ष्ठाविव मधु” “विश्वो विहायाः” “प्राणिनां कुपूर्वम्” ।कवर्ग्गात् पूर्व्व आदिरुदात्तः काकः, वृकः, “शुकेषुमे” प्राणिनां किम्, “क्षीरसर्पिर्मधूदकम्” “खय्यु-वर्ण्णं कृत्रिमाख्या चेत्” खयि परे उवर्ण्णमुदात्तं स्यात्, कन्दूकः, “उनर्व्वनन्तानाम्” उन “वरुणं वोऽरि-शादसम्” “स्वसारन्त्वाकृणवै” वन् “पीवानंमेषम्” “वर्ण्णानान्तणतिनितान्तानाम्” १० आदिरु-दात्तः, एतः हरिणः, शितिः, पृश्निः, हरित् ।“ह्रस्वान्तस्य ह्रस्वमनृ ताच्छील्ये” ११ ऋद्वर्जं ह्रस्वा-न्तस्यादिभूतं ह्रस्वमुदात्तं स्यात् मुनिः “अक्षस्यादे-वनस्य” १२ आदिरुदात्तः, “तस्य नाक्षः” देवने तु“अक्षैर्म्मा दीव्य” “अर्द्धस्यासमद्योतने” १३ अर्द्धो ग्राम-स्य, समेऽंशके तु अर्द्धं पिप्पल्याः “पीतद्र्वर्थानाम्”१४ आदिरुदात्तः, पीतद्रुः, सरलः “ग्रामा-दीनाञ्च” १५ ग्रामः, सोमः, यामः “लुबन्तस्यो-पमेयनामधेयस्य” १६ चञ्चेव चञ्चा, स्फिगन्तस्येति पा-ठान्तरम् स्फिगिति लुपः प्राचां संज्ञा “न वृक्षपर्वत-विशेषव्याघ्रसिंहमहिषाणाम्” १७ एषामुपमेयनाम्ना-मादिरुदात्तो ताल इव तालः, मेरुरिव मेरुः, व्याघ्रः, सिंहः, महिषः “राजविशेषस्य यमन्वा चेत्”१८ यमन्वा वृद्धः, आङ्ग उदाहरणम् अङ्गाः प्रत्यु-दाहरणम् “स्त्रीविषयवर्ण्णाक्षुपूर्व्वाणाम्” २० ।एषान्त्रयाणामाद्युदात्तः, स्त्रीविषयः, मल्लिका, वर्णः, श्येनी, हरिणी, अक्षुशब्दात् पूर्वोऽस्त्येषान्ते अक्षु-पूर्वाः, तरक्षुः “शकुनीनाञ्च लघुपूर्वम्” २१ पूवंलघु उदात्तं स्यात्, कुक्कुटः, तित्तिरिः, “नर्त्तुप्राण्या-ख्यायाम्” २२ यथालक्षणं प्राप्तमुदात्तत्वन्न, वसन्तः, कृकलासः “धान्यानाञ्च वृद्धक्षान्तानाम्” २३ आदिरु-दात्तः, कान्तानाम्, श्यामाकाः, षान्तानाम्, राज-माषाः “जनपदशब्दानामपान्तानाम्” २४ केकयः, “हयादीनामसंयुक्तलान्तानामन्तः पूर्व्वं वा” २५ हयितिहलःसंज्ञा पललम्, शललम्, हयादीनां किम् एकलःअसंयुक्तेति किं मल्लः “इगन्तानाञ्च द्व्यषाम्” २६ ।आदिरुदात्तः, कृषिः एतानि पादस्थानि “मक-रवरुडपारेवतवितस्तेक्ष्वार्ज्जिद्राक्षाकलोमाकाष्ठायुतष्ठा का-शीनामादिर्वा” ३, ९, एषामादिर्द्वितीयो वा उ-दाच्चः मकरः वरुडः “छन्दसि च” १० अमकराद्यर्थआरम्भः लक्ष्यानुसारादादिर्द्वितीयम् वा उदात्तंज्ञेयम् “कर्दमादीनाञ्च” ११ आदिर्द्वितीयं वोदा-त्तः “सुगन्धितेजनस्य ते वा” १२ आदि र्द्वितीयंते शब्दश्चेति पर्य्यायेण वोदात्ताः “नपः फलान्ता-नाम्” आदिर्द्वितीयं वोदात्तम् राजादनफलम् ।“ईषान्तस्य हलादेरादिर्वा” १४ हलीषा लाङ्गलीषा ।उशीरदाशेरकपालपलाशशैवालश्यामाकशरीरशरावहृदय-हिरण्यारण्यापत्यदेवराणाम्” १९ “एषामादिरुदात्तःस्यात् “महिष्याषाढयोर्ज्जायेष्टकाख्यां चेत्” २० आदिरुदात्तः, “महिषी जाया” आषाढा उपदधाति एतानि३ पादस्थानि “निपाता आद्युदात्ताः” फि० ४, १२ ।स्वाहा “उपसर्गाश्चाभिवर्ज्जम्” फि० ४, १३ ।तथा पाणिनिशान्तनवाचार्य्यादिभिर्यस्यादेरुदात्तत्वंविहितं ते शब्दा लोके वेदे आद्युदादात्ता भवन्ति
Burnouf
French
आद्युदात्त आद्युदात्त a. (उदात्त) qui a l'udātta sur
la 1ʳᵉ syllabe, tg.