आदिसर्ग (Adisarga)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiआदिसर्गः
आदि-सर्गः -
प्रथम सृष्टि
Shabdartha Kaustubha
Kannadaआदिसर्ग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಜಗತ್ತಿನ ಮೊದಲನೆಯ ಸೃಷ್ಟಿ /ಮಹಾಪ್ರಳಯದ ನಂತರ ಪ್ರಪಂಚದ ಸೃಷ್ಟಿ
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritआदिसर्ग कर्म्म० । प्राकृतप्रलयोत्तरं प्रथमसृष्टौ “अव्यक्तात्पूर्व्वमुत्पन्नो महानात्मा महामतिः । आदिर्गुणानां सर्वेषांप्रथमः सर्ग उच्यते । महानात्मा मतिर्विष्णुर्जिष्णुः शम्भुश्चवीर्य्यवान् । बुद्धिः प्रज्ञोपलब्धिश्च तथा ख्यातिर्धृतिःस्मृतिः । पर्य्यायवाचकैः शब्दैर्म्महानात्मा विभाव्यते ।तं जानन् ब्राह्मणो विद्वान् प्रभोहं नाधिगच्छति ।सर्व्वतः पाणिपादश्च सर्वतोऽक्षिशिरोमुखः । सर्व्वतःश्रुति-मान् लोके सर्व्वं व्याप्य स तिष्ठति । महाप्रभावः पुरुषःसर्व्वस्यैव हि निश्चितः । अणिमा लघिमा प्राप्तिरीशानोज्योतिरव्ययः । तत्र बुद्धिविदो लोके सद्भावनिरताश्च ये ।ध्यानिनो मित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः । ज्ञानवन्तश्चये केचिदलुब्धा जितमन्यवः । प्रसन्नमनसो धीरा निर्ममानिरहङ्कृताः । विमुक्ताः सर्व एवैते महत्त्वमुपय न्त्युत ।आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम् । अहङ्का-रात् प्रसूतानि महाभूतानि पञ्च वै । पृधिवी वायुराकाश-मापो ज्योतिश्च पञ्चमम् । तेषु भूतानि युज्यन्ते महा-भूतेषु पञ्चसु । ते शब्दस्पर्शरूपेष रसगन्धक्रियासु च ।महाभूतविनाशस्तु प्रलये प्रत्युपस्थिते । सर्व्वप्राणभृतांधीरा! महदुत्पद्यते भयम् । स धीरः सर्व्वलोकेषु न मोह-मधिगच्छति । विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः ।एवं हि यो वेद गुहाशयं प्रभुं परं पुराणं पुरुषंविश्वरूपम् । हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्बुद्धिमतीत्य तिष्ठति” भा० आश्व० प० अ० ४० । स च सर्गःदशविथः प्राकृतः षडिवधः, वैकृतस्त्रिविधः, उभयात्मक एक-विधः इति भेदात् तद्विवरणम्” भाग० ३ स्क० १० अ० ।“विश्वं वै ब्रह्म तन्मात्रं संस्थितं विष्णुमायया ।ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्त्तिना १२ । यथेदानींतथाग्रे च पश्चादप्येतदीदृशम् १३ । सर्गोनवविधस्तस्यप्राकृतोवैकृतश्च यः । कालद्रव्यगुणैरस्य त्रिविधः प्रतिसं-क्रयः १४ । आद्यस्तु महतः सर्गोगुणवैषम्यमात्मनः ।द्वितीयस्त्वहमोयत्र द्रव्यज्ञानक्रियोदयः १५ । भूतसर्ग-स्तृतीयस्तु तन्मात्रोद्रव्यशक्तिमान् । चतुर्थ ऐन्द्रियःसर्गो यस्तु ज्ञानक्रियात्मकः १६ । वैकारिको देवसर्गःपञ्चमोयन्मयं मनः । षष्ठस्तु तससः सर्गोयस्तु बुद्धिकृतःप्रभोः १७ । षडिमे प्राकृताः सर्गा वैकृतानपि मे शृणुरजोभाजो भगवतोलीलेयं हरिमेधसः १८ । सप्तमोमुख्यसर्गस्तु षद्धिधस्तस्थुषाञ्च यः । वनस्पत्योषधिलतात्वक्सारावीरुधो द्रुमाः १९ । उत्स्रोतसस्तमःप्राया अन्तःस्पर्शाविशेषिणः २० । तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधोमतः ।अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः २१ । गोरजोमहिषःकृष्णः शूकरो गवयोरुरुः । द्विशफाः पशवश्चेमे अविरु-ष्ट्रश्च सत्तम! । खरोऽश्वोऽश्चतरोगौरः शरभश्चमरी तथाएते चैकशफाः क्षत्तः! शृणु पञ्चनखान् पशून् २२ । श्वाशृगालोवृकोव्याघ्रोमार्ज्रारः शशशल्लकौ । सिंहः कपिर्गञःकूर्म्मो गोधा च मकरादयः । कङ्कगृध्रवकश्येनभासभल्ल-कबर्हिणः । हंससारसचक्राह्वकाकोलूकादयः खगाः २३ ।अर्व्वाक्स्रोतस्तु नवमः क्षत्तरेकविधोनृणाम् । रजोऽधिकाःकर्म्मपरा दुःखे च सुखमानिनः २४ । वैकृतास्त्रयएवैते देवस-र्गश्च सत्तम! । वैकारिकस्तु यः प्रोक्तःकौमारस्तूभयात्मकः २५ ।देवसर्गश्चाष्टविधोविबुधाः पितरोऽसुराः । गन्धर्व्वाप्सरसःसिद्धा यक्षरक्षांसि चारणाः । भूत प्रेतपिशाचाश्च विद्याध्राःकिन्नरादयः । दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः” ।“स्वव्यतिरिक्तसृज्याभावं दर्शयन् कालस्य सृष्टिनिमि-त्ततां दर्शयति विश्वमिति । विष्णुमायया संस्थितं सं-हृतम् । ब्रह्म तन्मात्रं सत विश्वं ईश्वरेण कर्त्रा कालेननिमित्तेन परिच्छिन्नं पृथक् प्रकाशितम् । अव्यक्ता मूर्त्तिःस्वरूपं यस्येति स्वतोनिर्व्विशेषता दर्शिता १२ । अप्र-तिष्ठत्वं दर्शयितुं तत्कार्य्यविश्वप्रवाहस्याप्रतिष्ठामाहयथेदानीमस्ति तथाग्ने पूर्व्वमप्यासीत् । पश्चादपि तथाभविष्यति १३ । एवं सामान्यतः कालं निरूप्य विशेषतोनिरूपयिष्यन् तन्निमित्तस्य पूर्व्वसर्गस्य पूर्व्वोक्तानेवभेदान् अनुवदति सर्गैति । यस्तु प्राकृतोवैकृतश्च स तु दशमःतन्निमित्तमेव त्रिविधं प्रलयमाह कालेनैव बलेन नित्य-प्रलयः द्रव्येण सङ्कर्षणमुखाग्न्यादिना नैमित्तिकः गुणैःस्वस्वकार्य्यं ग्रसद्भिः प्राकृतिकः १४ । तानेव सर्गान् प्रप-ञ्चयति । आद्य इत्यादिना यावदध्यायसमाप्ति । महतोलक्षणम् आत्मनोहरेः सकाशात् गुणानां वैषम्यमिति ।अहमः अहङ्कारस्य । तस्य लक्षणं यत्रेति । द्रव्यादयो-वक्ष्यमाणास्त्रयः सर्गाः १५ तन्मात्रो भूतसर्गः । ततः-सूक्ष्मसर्ग इत्यर्थः । द्रव्यशक्तिमान् महाभूतोत्पादकःज्ञानकर्म्मेन्द्रियात्मकश्चतुर्थः १६ । पञ्चमोवैकारिकः ।इन्द्रियाधिष्ठातारोदेवाः मनश्च । षष्ठस्त तमसः पञ्चपर्व्वा-विद्यायाः । अबुद्धिर्जीवानामावरणम् विक्षेपश्च तां करोतीत्य-बुद्धिकृत् तस्य १७ । मेमस्तः शृणु अनुद्वेगेन श्रोतव्य-तामाह । यद्विषया मेधा संसारं हरति तस्य हरेर्लीला ।यद्वा इयमिति तमआदिसर्गरूपा । रजोभाज इतिब्रह्मरूपस्येत्यर्थः । अस्मिन् पक्षेऽबुद्धिकृत इति प्रथमान्तंअनवधानकृत इत्यर्थः १८ । मुखमिव प्रथमं कृतःमुख्यःसर्गः । तस्थुषां स्थावराणाम् । षड्विधमेवाह । ये पुष्पंविना फलन्ति ते वनस्पतयः । ओषधयः फलपाकान्ताः ।लताः आरोहणापेक्षाः । त्वक्सारा वेण्वादयः । लता एवकाठिन्येनारोहणानपेक्षा वीरुधः । येपुष्पैः फलन्ति ते-द्रुमाः १९ । तेषां साधारणलक्षणमाह ऊर्द्ध्वंस्रोतआहारसञ्चारो येषाम् । तमःप्राया अव्यक्तचैतन्याः ।अन्तःस्पर्शमेव जानन्ति नान्यत् तदप्यन्तरेव न बहिः ।विशेषिणः अव्यवस्थितपरिणामाद्यनेकभेदवन्तः २० ।तिर्य्यक्स्रोतसां सर्गमाह तिरश्चामिति । स चाष्टविंशति-भेदः । तिरश्चां लक्षणम् अविदः श्वस्तनादिज्ञानशून्याः ।भूरितमसः आहारादिमात्रनिष्ठाः । घ्राणज्ञाः घ्राणेनै-वेष्टमर्थं जानन्ति हृदि अवेदिनः दीर्घानुसन्धानशून्याः ।तथा च श्रुतिः । “अथेतरेषां पशूनाम् अशनापिपासे एवा-भिज्ञानं न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति न विदुःश्वस्तनं न लोकालोकाविति” २१ । अष्टविंशतिभेदानाहगवादयौष्ट्रान्ताः द्विशफाः द्विखुरानव । खरादयः च-मर्य्यन्ता एकशफाः षट् । श्वादयोगोधान्ताः पञ्चनखा द्वा-दश २२ । एवमेते भूचराः सप्तविंशतिः । मकरादयोजलचराःकङ्कादयश्च खगाः अभूचरत्वेनैकीकृत्य गृहीताः । तदेवम-ष्टाविंशतिभेदान् वदन्ति । तेषु कृष्णरुरुगौराः मृग-विशेषाः अन्येषामपि तिर्य्यक्पाणिनामेतेष्वेव यथायथ-मन्तभावः २३ । अध आहारसञ्चारोयस्य सोऽर्व्वाक्स्रोताः ।ह्रस्वमार्षम् । नृणां सर्गः । नृणां लक्षणम् । रजः अधि-कंयेषु २४ । एते त्रयोवैकृताएव न कौमारवदुभयात्मकाः देव-सर्गोवेकृत इत्यनुषङ्गः । वैकारिकस्तु देवसर्गः प्राकृतेषु पू-र्व्वमेव प्रोक्तः अयन्तु ततोन्यूनत्वाद्वैकृतः देवसर्गएदन्त-र्भूतः सनत्कुमारादीनान्तु सर्गः प्राकृतोवैकृतश्च देवत्वेन मनु-ष्यत्वेन च सृज्य इत्यर्थः २५ । वैकृतश्च देवसर्गोऽष्टविधः अत्रविबुधादयस्त्रयोभेदाः गन्धर्व्वाप्सरसएकः यक्षरक्षांस्येकः ।मूतप्रेतपिशाचाएकः सिद्धचारणविद्याध्राः एकः किन्नराएकःआदिशब्दात् किंपुरुषाश्वमुखादयः” श्रीधरव्याख्या ।एवं सामान्यतः सर्गमुक्त्वा तत्रैव २६ अध्याये विशेष उक्तः“भगवानुवाच १० । यत्तत् त्रिगुणमव्यक्तं नित्यं सदसदा-त्मकम् । प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ११ ।पञ्चभिः पञ्चभिः ब्रह्म चतुर्भिर्दशभिस्तथा । एतच्चतुर्व्विंश-तिकं गुणं प्राधानिकं विदुः १२ । महाभूतानि पञ्चैवभूरापोऽग्निर्म्मरुन्नभः । तत्मात्राणि च तावन्ति गन्धा-दीनि मतानि मे । इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसनना-सिकाः । वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यते ।१३ । मनोबुद्धिरहङ्कारश्चित्तमित्यरात्मकम् । चतुर्द्धा ल-क्ष्यते भेदोवृत्त्या लक्षणरूपया १४ । एतावानेव संख्यातोब्रह्मणः सगुणस्य च । सन्निवेशोमयाप्रोक्तोयः कालःपञ्चविंशकः १५ । प्रभावं पौरुषं प्राहुः कालमेके यतो-भयम् । अहङ्कारविमूढस्य कर्त्तुः प्रकृतिमीयुषः १६ ।प्रकृतेर्गुणसाम्यस्य निर्विशेधस्य मानवि! । चेष्टा यतः सभगवान् काल इत्युपलक्षितः १७ । अन्तः पुरुषरूपेण काल-रूपेण यो बहिः । तमन्वेत्येष सत्वानां भगवानात्ममायया१९ । दैवात् क्षुभितधर्म्मिण्यां खस्यां योनौ परःपुमान् । आधत्त वीर्य्यं सासूत महत्तत्वं हिरण्म-यम् १९ । विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः ।स्वतेजसा पिबत्तीव्रमात्मप्रस्वापनं तमः २० । यत्तत् सत्व-गुणं स्वच्छं शान्तं भगवतः पदम् । यदाहुर्व्वासुदेवाख्यंचित्तं तन्महदात्मकम् २१ । स्वच्छत्वमविकारित्वं शान्तत्व-मिति चेतसः । वृत्तिभिर्लक्षणं प्रोक्तं यथाऽपां प्रकृतिःपरा २२ । महत्तत्वाद्विकुर्व्वाणाद्भगवद्वीर्य्यसम्भवात् ।क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत २३ । वैकारिकस्तैजसश्च तामसश्च यतोभवः । मनसश्चेन्द्रियाणाञ्च भूतानांमहतामपि २४ । सहस्रशिरसं साक्षात् यमनन्तं प्रच-क्षते । सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् २५ ।कर्त्तृत्वं करणत्वञ्च कार्य्यत्वञ्चेति लक्षणम् । शान्तघोरविमूढत्वमिति वा स्यादहङ्कृतेः २६ । वैकारिकाद्विकुर्व्वाणा-न्मनस्तत्त्वमजायत । यत्संकल्पविकल्पाभ्यां वर्तते कामस-म्भवः २७ । यद्विदुर्ह्य निरुद्धाख्यं हृषीकाणामधीश्वरम् ।शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः २८ । तैज-सात्तु विकुर्व्वाणाद्बुद्धितत्त्वमभूत् सति! । द्रव्यस्फुरणवि-ज्ञानमिन्द्रियाणामनुग्रहः २९ । संशयोऽथ विपर्य्यासोनिश्चयः स्मृतिरेव च । स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितःपृथक् ३० । तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागतः ।प्राणस्य हि क्रिया शक्तिर्बुद्धेर्व्विज्ञानशक्तिता ३१ । ताम-साच्च विकुर्व्वणाद्भगवद्वीर्य्य नोदितात् । शब्दमात्रमभूत्तस्मा-न्नभः श्रोत्रन्तु शब्दगम् ३२ । अर्थाश्रयत्वं शब्दस्यद्रष्टुर्लिङ्गत्वमेव च । तन्मात्रञ्चैव नभसो लक्षणं कवयोविदुः ३३ । भूतानां छिद्रदातृत्वं बहिरन्तरमेव च ।प्राणेन्द्रियात्मधिष्ण्यत्वं नभसोवृत्तिलक्षणम् ३४ । न-भसः शब्दतन्मात्रात् कालगत्या विकुर्वतः । स्पर्शोऽभव-त्ततोवायुस्त्वक् स्पर्शस्य तु संग्रहः ३५ । मृदुत्वं कठिनत्वञ्चशैत्यमुष्णत्वमेव च । एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वंनभस्वतः ३६ । चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्द-योः । सर्वेन्द्रियाणामात्मत्वं वायोः कर्म्माभिलक्षणम् ।बायोश्च स्पर्शतन्मात्राद्रूपं देवेरितादभूत् । समुत्थितंततस्तेजश्चक्षूरूपोपलम्भनम् । द्रव्याकृतित्वं गुणताव्यक्तिसं-स्थात्वमेव च । तेजस्त्वं तेजसः साध्वि! । रूपमात्रस्य वृ-त्तयः ३८ । द्योतनं पचनं पानमदनं हिममर्दनम् ।तेजसोवृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च । रूपमात्राद्विकु-र्व्वाणात्तेजसोदेवनोदितात् । रसमात्नमभूत्तस्मादम्भो-जिद्धा रसग्रहः ४० । कषायोमधुरस्तिक्तः कट्वम्ल इतिनैकधा । भौतिकानां विकारेण रस एकोविभिद्यते ४१ ।क्लेदनं पिण्डनं तृप्तिः प्राणनाप्ययनोद(न्द)नम् । तापापनोदोभूयस्त्वमम्भसो वृत्तयस्त्विमाः ४२ । रसमात्राद्विकुर्व्वा-णादम्भसो देवनोदितात् । गन्धमात्रमभूत्तस्मात् पृथ्वी-घ्राणस्तु गन्धगः ४३ । करम्भपूतिसौरभ्यशान्तोदग्रा-दिभिः पृथक् । द्रव्यावयववैषम्याद्गन्ध एकोविभिद्यते ४४ ।भावनं ब्रह्मणःस्थानं धारणं सद्विशेषणम् । सर्वसत्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम् ४५ । नभोगुणविशे-षोऽर्थो यस्य तत् श्रोत्रमुच्यते । वायोर्गुणविशषोऽर्थोयस्य तत् स्पर्शनं विदुः । तेजोगुणविशेषोर्थो यस्य तच्च-क्षुरुच्यते । अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुःभूमेर्गुणविशेषोऽर्थो यस्य घ्राणः स उच्यते ४६ । परस्य दृ-श्यते धर्म्मोह्यपरस्मिन् समन्वयात् । अतो विशेषोभावानां भूमावेवोपलभ्यते ४७ । एतान्यसंहत्य यदामहदादीनि सप्त वै । कालकर्म्मगुणोपेतो जगदादिरुण-विशत् ४ ८ । ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम् ।उत्थितं पुरुषो यस्मात् उदतिष्ठदसौ विराट । एतदण्डंविशेषाख्यं क्रमवृद्धैर्दशोत्तरैः । तोयादिभिः परिवृतंप्रधानेनाकृतं बहिः । यत्र लोकवितानोऽयं रूपंभगवतोहरेः ५० । हिरण्मयादण्डकोषादुत्थाय सलिले-शयात् । तमाविश्य महादेवो बहुधा निर्बिभेद खम् ५१ ।निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत् ।बाण्या वह्रिरथो नासे प्राणोतो घ्राण एतयोः ५२ ।घ्राणाद्वायुरभिद्येतामक्षिणी चक्षुरेतयोः । तस्मात् सूर्य्यो-ऽन्वभिद्येतां कर्ण्णौ श्रोत्रं ततोदिशः ५३ । निर्विभेद वि-राजस्त्वग्रोमश्मश्र्वादयस्ततः । ततः ओषधयश्चासन् शिश्नंनिर्ब्बिभिदे ततः । रेतस्तस्मादाप आसन्निरभिद्यत वै गुदम् ।गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्करः ५४ । हस्तौ चनिरभिद्येतां बलं ताभ्यां ततः स्वराट् । पादौ च निर-भिद्येतां गतिस्ताभ्यां ततोहरिः ५५ । नाड्योऽस्य निरभि-द्यन्त ताभ्योलोहितमाभृतम् । नद्यस्ततः समभवन्नुदरं सम-भिद्यत । क्षुत्पिपासे ततःस्यातां समुद्रस्त्वेतयोरभूत् । अ-थास्य हृदयं भिन्नं हृदयान्मन उत्थितम् ५६ । मनसश्च-न्द्रमाजातोबुद्धिर्ब्बुद्धेर्गिरांपतिः । अहङ्कारस्ततोरुद्रःचित्तञ्चैत्त्यस्ततोऽभवत् ५७ । एते ह्यभ्युत्थिता देवा नैवास्यो-त्थापनेऽशकन् । पुनराविशुः खानि तमुत्थापयितुंक्रमांत् । वह्रिर्व्वाचा मुखं भेजे नोदतिष्ठत्ततोविराट् ।घ्राणेन नासिके वायुर्नोदतिष्ठत्ततो विराट् । अक्षिणीचक्षुराटित्यो नोदतिष्ठत्ततो विराट् । हस्ताविन्द्रोबलेनैवबोदतिष्ठत्ततो विराट् । विर्ष्णुर्गत्येव चरणौ नोदतिष्ठत्ततोविराट् । नाडीर्नद्यो लोहितेन नोदतिष्ठत्ततो विराट् ।क्षुत्तृड्भ्यामुदरं सिन्धुर्नोदतिष्ठत्ततो विराट् । बुद्ध्या ब्रह्नापिहृदयं नोदतिष्ठत्ततो विराट् । श्रोत्रेण कर्ण्णौ च दिशोनो-तिष्ठत्ततो विराट् । रेतसा शिश्नमापस्तु नोदतिष्ठत्ततोविराट् । गुदं मृत्युरपानेन नोदतिष्ठत्ततो विराट् ।रुद्रोऽभिमत्या हृदयं नोदतिष्ठत्ततो विराट् । चित्तेनहृदयं चैत्त्यः क्षेत्रज्ञः प्राविशद्यदा । विराट् तदैव पुरुषःसलिलादुदतिष्ठत ५९ । यथा प्रसुप्तं हृदयं प्राणेन्द्रियमनोन्वयाः । प्रभवन्ति विना येन नोत्थाप्रयितुमोजसा ।तमस्मिन् प्रत्यगात्मानं धिया योगविवृत्तया । भक्त्या विरक्त्याज्ञानेन विविच्यात्मनि चिन्तयेत्” ६० । व्याख्यातमेतत् श्रीधरेण“दैवाज्जीवादृष्टवशात् क्षुभिता धर्म्मा गुणायस्याः । योनौअभिव्यक्तिस्थाने प्रकृतौ वीर्य्यंचिच्छक्तिम् । सा प्रकृतिर्म्महत-त्त्वमसूत । महतः स्वरूपमाह हिरण्मयं प्रकाशबहु-लम् १९ । विश्वं अहङ्कारादिप्रपञ्चं आत्मगतं स्वस्मिन्सूक्ष्मरूपेण स्थितं व्यञ्जन् प्रकटयन् तमोऽपिबत्, कूटस्थःलयविक्षेपशून्यः, आत्मानं प्रस्वापयतीति तथा यत्पूर्व्वं प्रलयसमये महान्त प्रकृतौ विलापयमासेति २० ।प्रसङ्गात् चतुर्व्यूहोपासनमाह यत्तदिति सर्व्वागमप्रसि-द्धत्वमाह । स्वच्छ विशदं शान्तं रागादिरहितं भगवतःपदमुपलब्धिस्थानम् । अतएव वासुदेवाख्यंयदाहुः । अय-मर्थः अधिभूतरूपेण तस्यैव महानिति, अध्यात्मरूपेणचित्तमिति, उपास्यरूपेण वासुदेव इति, अधिष्ठाता तत्त्वस्यक्षेत्रज्ञः, एवमहङ्कारे सङ्कर्षण उपास्यः, रुद्रोऽधिष्ठाता, मनसि अनिरुद्ध उपास्य ब्रह्माधिष्ठाता, बुद्धौ प्रद्युम्नउपास्यं ब्रह्माधिष्ठातेति ज्ञातव्यम् २१ । स्वच्छत्वं भग-वद्विभूतिग्राहित्वम् अविकारित्वं लयविक्षेपराहित्यंअपांप्रकृतिः फेनतरङ्गादिरहिताबस्थापरा भूतसंसर्गात्प्राक्तनी सा यथा मधुरा स्वच्छा शान्ता च तद्वदित्यर्थः २२अहङ्कारस्योत्पत्तिपूर्ब्धकं लक्षणमाह महत्तत्त्वादितिचतुर्भिः । क्रियासु शक्तिर्यस्य स क्रियाशक्तिः २३ । तस्यत्रैविध्यमाह वैकारिक इति । तस्य कार्य्यमाह यतोयस्मान्मनआदीनाम् भवौत्पत्तिरिति २४ । तस्मिन्नृपास्यंव्यूहमाह सहस्रशिरससिति २५ । कर्त्तृत्वं देवतारूपेण, करणमिन्द्रियरूपेण, कार्य्यत्वं भूतरूपेण, शान्तत्वादिकंतत्कारणगुणत्रयरूपेण २६ । मनस उत्पत्तिपूर्व्वकं लक्षणमाहवैकारिकादितिद्वाभ्याम् । संकल्पश्चिन्तनम् विकल्पोविशेष-चिन्तनं यस्य मनसः संकल्पविकल्पाभ्यां कामसम्मवोवर्त्ततेइति कामरूपा वृत्तिर्लक्षणत्वेनोक्ता न तु प्रद्युम्नोत्पत्ति-स्तस्य संकल्पादिकार्य्य त्वाभावात् उपास्यव्यूहस्यानिरुद्ध-स्योक्तेः २७ । शारदं शरत्कालोनमिन्दीबरं नीलीत्पलंतदिव श्यामं तच्छनैः संराध्यं वशीकर्त्तुमयोग्यं दुर्ग्रह-त्वात् २८ । बुद्धेरुत्पत्तिपूर्व्वकं लक्षणमाह तैजसादिति-द्वाभ्याम् हे सति! । द्रव्यस्फुरणरूपं विज्ञानमिति चित्तव्यावृत्त्यर्थमुक्तम् । इन्द्रियाणामनुग्नह इति सविकल्पज्ञानेहृषीकाणामधीश्वर इति यदुक्तं तत्तु निर्व्विकल्पकज्ञाने २९ । द्रव्यस्फुरणस्यैव प्रपञ्चः संशयादिः । विप-र्य्यासो मिथ्याज्ञानं निश्चयः प्रमाणज्ञानं स्वापो-निद्रा, “प्रमाणविपर्य्ययविकल्यनिद्रास्मृतयः” इति पात-ञ्जलोक्ते ३० । इन्द्रियाणामुत्पत्तिमाह तैजसाह-ङ्काराज्जातानि वैकारिकत्वशङ्कानिवृत्त्यर्थमेवकारः द्घि-विधान्यपीन्द्रियाणि तैजसान्येवेत्यर्थः । तत्र हेतुःप्राणस्येति हि यत्मात्प्राणस्य क्रियाशक्तिर्बुद्धेर्विज्ञान-शक्तिता अतः प्राणस्य तैजसत्वात् तदीयशक्तिमता-मिन्द्रियाणां तैजसत्वम् । तथा बुद्धेस्तैजसत्वात् तदीय-ज्ञानशक्तिमतामपि ज्ञानेन्द्रियाणां तैजसत्वमपीत्यर्थः ३१ ।तन्मात्रोत्पत्तिपूर्व्वकमाकाशादिमहाभूतोत्पत्तिन्तल्लक्षणञ्चाह ।तामसादिति पञ्चभिः । श्रोत्रन्तु शब्दगमित्यादिभि-र्विषयोत्पत्त्यनन्तरं तत्सम्बन्धमात्रंकथ्यते नंतूत्पत्तिःप्रागेवो-त्पन्नत्वात् शब्दं गच्छति प्राप्नोतीति शब्दगम् ३२ । शब्दस्यलक्षणमाह अर्थाश्रयत्वं अर्थवाचकत्वं, द्रष्टुर्लिङ्गत्वं कुड्यान्त-रितस्य द्रष्टुर्ज्ञापकत्वं तदुक्तं “लिङ्गं यद्द्रष्टृदृश्ययोरिति, नभसः तन्मात्रत्वं सूक्ष्मत्वं शब्दस्य लक्षणमित्यन्वयः ३३ । छि-द्रदातृत्वमवकाशदादृत्वं बहिरान्तरव्यवहारास्पदत्वम् आत्मामनः । प्राणादीनान्धिष्ण्यत्वमाश्रयत्वं नाड्यादिच्छिद्ररूपेणवृत्तिः कार्य्यमेतल्लक्षणम् । एवमुत्तरत्रापि एकेन श्लोकेनतन्मात्रमहाभूतयोरुत्पत्तिः द्वितीयेन तन्मात्रलक्षणं तृती-येन महाभूतलक्षणं इत्यनुसन्धेयम् । आकाशात्त्वक्-स्पर्शस्य सग्रहः सम्यग्ग्रहणं यया पुंस्त्वं नियतलिङ्गत्वात् ।यद्वा स्पर्शस्य संग्रहस्ततोभवतीति शेषः । शब्दतन्मात्रादि-त्यादि तन्मात्राणामुत्तरोत्तरान्वयार्थमुक्तम् ३५ । स्पर्शत्वंस्वरूपलक्षणमित्यर्थः । नभस्वतो वायोस्तन्मात्रत्वञ्च ३६ ।चालनं वृक्षशाखादेः । व्यूहनं मेलनं तृणादेः प्राप्तिः संयोगःद्रव्यस्य गन्धवतोघ्राणं प्रति नेतृत्वं यथा शौत्यादिमतः स्प-र्शनं, शब्दस्य श्रोत्रं प्रति नेतृत्वं सर्व्वेन्द्रियाणामात्मत्वम्उपोद्बलकत्वं कर्म्मणा कार्य्येणाभिलक्षणं भावे ल्युट् । कर्म्मै-वाभिलक्षणमिति विग्रहे तु करणे ३७ । द्रव्याकृतित्वं द्रव्य-स्याकारसमर्पकत्वं गुणता द्रव्योपसर्जनतया प्रतीतिः श-ब्दस्य तु स्वातन्त्र्येणैव प्रतीतिः । अप्रत्यक्षद्रव्यस्य स्पर्शा-देरपि स्वातन्त्र्येणैव प्रतीतिः रूपस्य तु नैवमिति तस्यायंविशेषौक्तः । व्यक्तिसंस्थात्वं द्रव्यस्य या संस्था सन्निवेशःसैव संस्था यस्य द्रव्यपरिणामतया प्रतीतिरित्यर्थः । तेजस-स्तेजस्त्वमसाघोरणत्वम् ३८ । द्योतनं प्रकाशनं पचनंतण्डुलादेः क्षुत्तृट् अशनाया पिपासा च तद्द्वारेण पानम-दनञ्च ३९ । जिह्वा रसनेन्द्रियं रसोगृह्यतेऽनेनेतिं रसग्र-हस्ततो भवतीत्यर्थः ४० । कषायादिषु लवणोऽपि द्रष्टव्यः ।भौतिकानां संसर्गिद्रव्याणां यएकोमधृरएव सन् अनेकधाभिद्यते स रसैत्यर्थः ४१ । क्लेदनमार्द्रीकरणं मृदादेः पि-ण्डीकरणं तृप्तिदातृत्वं प्राणनं जीवनम् “आपोमयः प्राण”इति” श्रुतेः आप्यायनं तृड्वैक्लव्यनिवर्त्तनं उदनं मृदुकरणम्उन्दनमितिपाठे सएवार्थः । भूयस्त्वं कूपादावुद्धृतस्यापिपुनःपुनरुद्गमः ४२ । गन्धगः गन्धं प्राप्नोति ४३ । कर-म्भोमिश्रगन्धः यथा व्यञ्जनादीनां हिङ्ग्वादिसंस्कारेणैव ।पूतिर्दुर्गन्धः सौरभ्यं कर्पूरादेः, शान्तः शतपत्रादेः, उदग्रो-लसुनादेः, संसर्गिणां द्रव्यावयवानां वैषम्यात् यएवंविभि-द्यते स गन्धैत्यर्थः ४४ । ब्रह्मणोभावनं प्रतिमादिरूपेण सा-कारतापादनं, स्थानं जलादिविलक्षणतया नैरपेक्ष्येण स्थितिःघारणं जलाद्याधारत्वं सतामाकाशादीनां विशेषणमवच्छे-दकत्वं प्राणिनां तत्तत्गुणानाञ्चपुंस्त्वादीनामुतद्भेदः परि-णामविशेषैः प्रकटीकरणम् ४५ । श्रोत्रादीनां शब्दादिग्रा-हकत्वमुक्तं तेषाञ्च लक्षणमेतदेव इत्याशयेनाह पञ्चभिःश्लोकार्द्धैःनभसोगुणविशेषः शब्दोयस्यार्थोविषयः ४६ ।गुणविशेषं शब्दव्यावृत्त्यर्थं दर्शयति परस्य कारणस्य धर्म्मःशब्दादिः अपरस्मिन् कार्य्यवाय्वादौ कारणान्वयाद्दृश्यते अ-तोभावानामाकाशादीनां विशेषगुणः सर्व्वोऽपि शब्दादिःभूमावेवोपलभ्यते चतुर्णां तत्रान्वयात्, जलादिषु यथान्वय-मेव न सर्व्वम् आकाशेऽन्यान्वयाभावेन एकएवेति ४७ ।एवं कारणोत्पत्तिमुक्त्वा कार्य्योत्पत्तिमाह सार्द्धैस्त्रिभिः ।एतान्यसंहत्य अमिलित्वा यदा स्थितानि तदा जगदादिरीश्वरःप्राविशत् सप्तेति प्राधान्याभिप्रायेणोक्त प्रवेशस्तु सर्वेष्वपि-विवक्षितएव ४८ । अनुविद्धेभ्त्यः क्षुभितेभ्यः यंस्मादसौविराट्पुरुष उदतिष्ठत् ४९ । भगवतोरूपमिति पुरुषाभेदा-भिप्रायेण ५० । तस्मिन्नध्यात्मादिविभागमाह हिरण्म-यादिति नवभिः । उत्थाय औदासीन्यं विहाय, तमाविश्यअधिष्ठाय । महांश्चासौ देवश्चेति खं छिद्रम् ५१ । वाण्यासह वह्निरभवत् प्राविशत् । नासे निरभिद्येतां प्राणोतःप्राणेन ऊतः स्यूतः सन् घ्राणएतयोर्नासिकयोरभवदित्य-नुषङ्गः ५२ । घ्राणादनन्तरं वायुः । प्राणोतैति विशेषणंसर्वेन्द्रियेष्वपि द्रष्टव्यं न्यभिद्येतामिति अन्वभिद्येतामितिपाठद्वयेऽप्येकएवार्थः । श्रोत्रं दिशः प्राविशन् ५३ । आदिश-ब्देन केशाः ५४ । स्वराटिन्द्रः । हरिविष्णुः ५५ । आभृतंजातम् ५६ । बुद्ध्यादिषु हृदयमेवा धिष्ठानम् । गिरांपतिर्ब्र-ह्मा, चैत्त्यः क्षेत्रज्ञः ५७ । अन्वयव्यतिरेकाभ्यां क्षेत्रज्ञंयिवेक्तुं सर्व्वेषां पुनः प्रवेशमाह एत इति नवभिः ५८ ।विवाड्देहस्य व्यष्टिदेहं दृष्टान्तत्वेनदर्शयन् साङ्ख्यानुकथ-नस्य प्रयोजनमाह यथेतिद्वाभ्याम् ५९ । प्रथमं परमश्वरे-भक्तिः ततोऽन्यत्र विरक्तिः ततोयोगप्रवृत्ता धीः एकाग्रचित्तं ततोयज्ज्ञानं तेन प्रत्यगात्मानं क्षेत्रज्ञं स्वस्मिन्नात्मनिकार्य्यकारणसङ्घाते विविच्य चिन्तयेत्” ६० ।वेदान्तिमते अत्र कश्चिद्विशेषः पञ्चदश्यामुक्तः । “चिदा-नन्दमयब्रह्मप्रतिविम्बसमन्विता । तमोरजःसत्त्वगुणा प्र-कृतिर्द्विविधा च सा । सत्त्वशुद्ध्यविशुद्धिभ्यां मायाऽविद्याच ते मते । मायाविम्बोवशीकृत्य तां स्यात् सर्व्वज्ञ-ईश्वरः । अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा । साकारणशरीरं स्यात् प्राज्ञस्तत्राभिमानवान् । तमःप्रधान-प्रकृतेस्तद्भोगायेश्वराज्ञया । वियत्पवनतेजोऽम्बुभूवोभूतातिजज्ञिरे । सत्त्वांशैः पञ्चभिस्तेषां क्रमाद्धीन्द्रियपञ्चकम् ।श्रोत्रत्वगक्षिरसनघ्राणाख्यमुपजायते । तैरन्तःकरणं सर्वै-र्वृत्तिभेदन तत् द्विधा । मनोविमर्षरूपं स्यात् बुद्धिःस्यान्निश्चयात्मिका । रजोऽंशैः पञ्चभिस्तेषां क्रमात्कर्म्मेन्द्रियाणि तु । वाक्पाणिपादपायूपस्थाभिधानानिजज्ञिरे । तैः सर्वैः सहितैः प्राणोवृत्तिभेदात् स पञ्चधा ।प्राणोऽपानः समानश्चोदानव्यानौ च ते पुनः । बुद्धि-कर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया । शरीरं सप्तदशभिःसूक्ष्मं तल्लिङ्गमुच्यते । प्राज्ञस्तत्राभिमानेन तैजसत्वं प्रप-द्यते । हिरण्यगर्भतामीशस्तयोर्व्व्यष्टिसमष्टिता । समष्टि-रीशः सर्व्वेषां स्वात्मतादात्म्यवेदनात् । तदभावात्ततो-ऽन्ये तु कथ्यन्ते व्यष्टिसंज्ञया । तद्भोगाय पुनर्भोग्य-भोगायतनजन्मने । पञ्चीकरोति भगवान् प्रत्येकं विय-दादिकम् । द्विधा विधाय चैकैकं चतुर्द्धा प्रथमं पुनः ।स्वस्वेतरद्वितीयांशैर्योजनात् पञ्च पञ्च ते । तैरण्डस्तत्रभुवनभोगाश्रयोद्भवः । हिरण्यगर्भस्थूलेऽस्मिन् देहेवैश्वानरोभवेत् । तैजसा विश्वतां यातादेवतिर्य्यङ्नरादयः ।ते पराग्दर्शिनः । प्रत्यक्तत्त्वबोधविवर्जिताः । कुर्वतेकर्म्म भोगाय कर्म्म कर्त्तुञ्च भुञ्जते” ।एतन्मतप्रपञ्चस्तु “तत्र सर्गाद्यकाले परमेश्वरः सृज्यमानप्रप-ञ्चवैचित्र्यहेतुप्राणिकर्म्मसहकृतापरिमितानिरूपितशक्तिवि-शेषविशिष्टमायासहितः सन्नामरूपात्मकं निखिलप्रपञ्चं प्रथमंबुद्धावाकलय्य इदं करिष्यामीति सङ्कल्पयति “तदैक्षत बहुस्यां प्रजायेयेति” श्रुतेः । तत आत्मन आकाशादीनि पञ्चभूतानि अपञ्चीकृतानि तन्मात्रपदप्रतिपाद्यानि उत्पद्यन्ते ।तत्राकाशस्य शब्दोगुणोवायोस्तु शब्दस्पर्शौ तेजसस्तु शब्द-स्पर्शरूपाणि अपान्तु शब्दस्पर्शरूपरसाः पृथिव्यास्तुशब्दस्पर्शरूपरसगन्धाः । न तु शब्दस्याकाशमात्रगुणत्वंवाय्वादावपि तदुपलम्भात् । नासौ भ्रमः बाधकाभावात् ।इमानि भूतानि त्रिगुणमायाकार्य्याणि अतस्त्रिगुणात्म-कानि । एतैश्च सत्त्वगुणोपेतैः पञ्चभूतैः श्रोत्रत्वक्चक्षूर-सनघ्राणानि पञ्चेन्द्रियाणि मनोबुद्ध्यहङ्कारचित्तानि चजायन्ते । श्रोत्रादीनां पञ्चानां क्रमेणैव दिग्वातार्क-वरुणाश्विनोऽधिष्ठातृदेवताः मन आदीनां चतुर्णां क्रमेणचन्द्रचतुर्मुखशङ्कराच्युताः अधिष्ठातृदेवताः । एतैरेव रजो-गुणेपेतैः पञ्चभूतैर्यथाक्रमेण वाक्पाणिपादपायूपस्थाख्यानिकर्मेन्द्रियाणि जायन्ते । तेषाञ्च क्रमेण वह्नीन्द्रोपेन्द्रमृ-त्युप्रजापतयोऽधिष्ठातृदेवताः । रजोगुणोपेतैः पञ्चभूतैरेवपञ्च वायवः प्राणापानव्यानोदानसमानाख्याजायन्ते ।तत्र प्रागननवान्० वायुः प्राणोनासाग्रस्थानवर्त्ती । अ-वागननवानपानः पाय्वादिस्थानवर्त्ती । विष्वगननवान्व्यानः अखिलशरीरवर्त्ती । ऊर्द्घमननवानुदानः कण्ठ-स्थानवर्त्ती । अशितपीतान्नादिसमीकरणः समानः नाभि-स्थानवर्त्ती । तैरेव तमोगणोपेतैरपञ्चीकृतभूतैः पञ्चीकृत-भूतानि जायन्ते “तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति”त्रिवृत्करणश्रुतेः पञ्चीकरणोपलक्षणार्थत्वात् । पञ्ची-करणप्रकारश्चेत्थम् । आकाशमादौ द्विधा विभज्य तयो-रेकं भागं पुनश्चतुर्द्धा विभज्य तेषां चतुर्णामंशानां वाय्वा-दिषु चतुर्भूतेषु संयोजनम् । एवं वायुं द्वेधा विभज्यतयोरेकं भागं पुनश्चतुर्द्धा विभज्य तेषाम् आकाशादिषुसंयोजनम् । एवं तेजोऽप्पृथिव्यंशानामपि । तदेवमे-कैकभूतस्यार्द्धं स्वांशात्मकं अर्द्धान्तरञ्च चतुर्व्विधभूतमयमितिपृथिव्यादौ स्वांशाधिक्यात् पृथिव्यादिव्यवहारः । तदुक्तम् ।“वैशेष्यात्तद्वादस्तद्वाद” इति शा० सू० । पूर्व्वोक्तैरपञ्चीकृतभू-तैर्लिङ्गशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्य्यन्तस्थायिमनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चकप्राणा-दिपञ्चकसयुक्तं जायते । तदुक्तन् । “प्रञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोग-साधनमिति” । तच्च द्विविधं परमपरञ्च । परं हिरण्य-गर्भलिङ्गशरीरम् । अपरमस्मदादिलिङ्गशरीरम् । तत्रहिरण्यगर्भलिङ्गशरीरं महत्तत्त्वम् अस्मदादिलिङ्गशरी-रञ्चाहङ्कारतत्त्वमित्याख्यायते । एवं तमोगुणयुक्तेभ्यः प-ञ्चीकृतभूतेभ्योभूम्यन्तरिक्षस्वर्ग महोजनस्तपःसत्यात्मकस्योर्द्ध्व-लोकसप्तकस्य अतलपातालवितलसुतलतलातलरसातल-महातलाख्यस्याधोलोकसप्तकस्य ब्रह्माण्डस्य जरायुजाण्डजस्वेदजोद्भिज्जाख्यचतुर्विधस्थूलशरीराणाञ्चोत्पत्तिः । तत्रजरायुजानि जरायुभ्योजातानि मनुष्यपश्वादिशरीराणि ।अण्डजानि अण्डेभ्योजातानि पक्षिपन्नगादिशरी-राणि । स्वेदजानि स्वेदाज्जातानि यूकमशकादिशरी-राणि । उद्भिज्जानि भूमिमुद्भिद्य जातानि वृक्षादिशरी-राणि वृक्षादीनामपि पापफलभोगायतनत्वेन शरीरि-त्वम् । तत्र परमेश्वरस्य पञ्चतन्मात्राद्युत्पत्तौ सप्तदशा-वयवोपेतलिङ्गशरीरोत्पत्तौ हिरण्यगर्भस्थूलशरीरोत्पत्तौच साक्षात्कर्त्तृत्वम्, इतरनिखिलप्रपञ्चोत्पत्तौ च हिरण्य-गर्भद्वारा “हन्ताहमिमास्तिस्रोदेवता अनेन जीवेनात्मना-नुप्रविश्य नामरूपे व्याकरवाणीति” श्रुतेः । हिरण्यगर्भो-नाम मूर्त्तित्रयादन्यः प्रथमोजीवः “स वै शरीरी प्रथमःस वै पुरुषौव्यते । आदिकर्त्ता स भूतानां ब्रह्माग्रे समव-र्त्तत” “हिरण्यगर्भः समवर्त्तताग्रे इत्यादि” श्रुतेः” । वेदा० प०सूक्ष्मादिस्थूलभूतान्तोत्पत्तिमुक्त्वा ब्रह्माण्डोत्पत्तिमाहआत्म “उत्पाद्यस्थूलभूतानि भगवान् भूतभावनः नीरेषुस्वात्मनो वीजं सहसैव समाक्षिपत् । क्षिप्तं तेन हि तद्वीर्यंनीराणामुपरिस्थितम् । दधिमण्डोपमम् कालात् काठिन्य-मगमद् घनम् । कठिना पृथिवी सेयं रूक्षा सा दृस्यतेऽधुना ।तस्याः सारसमुद्भूतो गोलकोऽभून्महालयः । कुक्कुटाण्डसमा-कारःसप्नलोकस्य संस्थितिः । अनुसंवत्सरं कालं नीरेष्वासीत्समन्ततः । शुष्कालाबुसमोनित्यं वायुनाभ्याहतोभृशम् । स तु संव-त्सरे पूर्णे विभिन्नः कुक्वु टाण्डवत् । तदन्तःपुरुषोजज्ञे सप्न-लोकशरीरभृत् । इदं सर्वं पुमानेव मूतं भावि स्थितं चथत् । एष भोगस्य मोक्षस्य सर्वदृष्टेर्महेश्वरः । अन्नेन बर्धय-त्येष स्थावराणि चराणि च । वक्ष्यमाणोऽस्य महिमा विज्ञेयःसर्वदा नृभिः । पादःसर्वाणि भूतानि त्रिपादात्मनि तिष्ठति ।महिमाश्रयमूतो यो महिम्नः सोऽधिको यथा । तथैवास्वमहिम्नोऽपि पुमानभ्यधिकोमतः । मार्गद्वयस्य कर्त्तायंवैदिकस्य सदा प्रभुः । प्रवृत्तेश्च निवृत्तेश्च स्वर्गमोक्षपुरं प्रति ।अयमभ्यधिको यस्मात् सर्वस्माद्भौतिकादजः । तस्मात् वि-राडिति प्रोक्तो विशेवाद्राजतेयतः । अधिष्ठाय पुरः सर्वा-स्थिरजङ्गमदेहिनाम् । पूरयत्यात्मना यस्मात् अतोयमधिपू-रुषः । यस्मादभ्यधिकः सोऽयं ब्रह्माण्डान्तःस्थितः पुमान् ।तस्य कार्य्यमिदं सर्वं गिरिदेहधरादिकम् । अयं यज्ञपुमान्हेतुरृक्सामयजुषामपि । छन्दांस्यपि च सर्वाणि गायत्र्या-दीनि जज्ञिरे । अस्मादजादयश्चापि विराजः पुरुषोत्तमात् ।इन्द्रश्चाग्निश्च विप्राश्च मुखतोऽस्य विनिर्गताः । क्षत्रियाबाहुत-स्तद्वत् ऊर्व्वावैश्याश्च जज्ञिरे । भूमिःशूद्रास्तथा पद्भ्यां जाताअस्य महात्मनः । चन्द्रमामनसोजातो नेत्रात् तद्वत् दिवा-करः । प्राणात् प्रभञ्जनोजातो नाभेस्तु गगनं महत् ।मस्तकात् स्वर्गलोकोऽयं श्रोत्राज् जाता इमादिशः । एवमन्ये-ऽपिपुं सोऽस्मात् जाता लोका महात्मनः । द्रव्याणि वा तथाकालोवसन्ताद्यात्मको महान् । देवता यजमानो वा क्रिया-वातःपरा न हि । सहस्रमस्तको देवः सहस्रेन्द्रियवानपि ।भूतभौतिकजातं स आवृत्यात्मा परःस्थितः । बुद्धिसाक्षिण-मात्मानमेतस्मात् परतः स्थितम् । स्वप्रकाशमहंवेदसर्वा-ज्ञानविवर्जितम् । नामरूपात्मकं सर्वं कृत्वाऽस्तेयोवदन्निवशक्र! त्वं धातृवदनात् सम्यक् विज्ञास्यते भवान् । दिशोऽपिप्रदिशस्तद्वदध ऊर्द्ध्वं सएव हि । यतस्ततोऽत्र यज्ञेनयक्ष्यन्ते तेन तं द्विजाः । धर्म्मश्ब्देन तेनैते स्वर्गं यास्यन्तितच्छिरः । पुंसोऽस्य मूर्द्धा स्वर्गः स्यात् चन्द्रसूर्य्यौ चचक्षुषी । घ्राणः प्रभञ्जनः प्रोक्तो मध्यदेहोऽन्तरिक्षकम् ।स्थलानि विविधान्यस्व मूत्राशय उदीरितः । भूर्लोकस्तुसमग्रोऽयं पादावस्य प्रकीर्त्तिर्तः । वक्त्रमाहवनीय-स्तद्धृदयं चावसख्यकः । सगार्हपत्यनासः स्याद्दक्षिणाग्निर्म-नोमतम् । उरोवेदिस्तथा दर्भालोमजातमुरःस्थितम् ।ओषध्योवनस्पतयः शेषाः केशाः शरीरगाः । किंबहूक्तेन शक्राद्य संक्षेपेणावधारय । यदस्ति यच्च नास्त्यत्रतत्सर्वं स महेश्वरः” ।काणादादिमते तु आदिसर्गे वायवीयेषु परमाणुषुसृज्य मानजीवादृष्टवशात् क्रियोत्पद्यते सा च क्रियास्वाश्रयं परमाणुं परमाण्वन्तरेण संयुनक्ति ततो-ह्यणुकादिक्रमेण महान् वायुरुत्पद्यते तेन नोदितेषुतैजसपरमाणुषु क्रियोत्पद्यते तया परमाणवः परमाण्वन्तरेण संहन्यमा नाः संयुज्यन्ते इत्येवंरूपेण महाभूतो-त्पत्तिरेवं शरीराणि चेन्द्रियाणि चतुर्द्दश भुवनान्युत्पद्यन्तेसर्वत्र चेश्वरोनिमित्तकारणम् । एतद्विवरणमारम्भवादशब्देदृश्यम् । तथा च आदिसर्गे एवैतेषां सर्वेषां सृष्टिः ।नैमित्तिकप्रलयोत्तरन्तु न सर्वेषाम् किन्तु येषांमेवतादृशप्रलयदृशायां नाशस्तेषामेव कतिपयानामिति भेदः ।वीजाङ्कुरवत् सृष्टेः प्रवाहरूपेणानादित्वेऽपि एतत्सृष्टेः सा-दित्वमपि तत्तद्वीजव्यक्तेरङ्कुरव्यक्तेश्च यथा सादित्वमेवमेववर्त्तमानब्रह्मण आदिसर्गकाले महदादेरुत्पत्तेरादिसर्ग-त्वमवगन्तव्यम् “यथेदानीमित्यादि” भागवतवचनेन “सूर्य्याच-न्द्रमसौ धाता यथापूर्व्वमकल्पयदिति” मन्त्रलिङ्गेन चप्रबाहस्यैवानादित्वं सूचितं न तु तत्तद्व्यक्तेः । कर्म्मसापेक्षस्यैव ईश्वरस्य स्रष्टृत्वोक्तेः पूर्बं कर्म्मणामभावे विचित्रसृष्ट्य-सम्भवः । अन्यथा वैषम्यनैर्घृण्ये ईश्वरस्य प्रसज्ये-याताम् जीवस्य च कृतहान्यकृताभ्यागमप्रसङ्गश्चेति दिक् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
