| YouTube Channel

आदिवराह (AdivarAha)

 
शब्दसागरः
English
आदिवराह
m.
(-हः) A name of VISHNU.
E.
आदि and वराह a boar
the
first boar, alluding to VISHNU'S avatara or incarnation in that
form
also similar compounds, as आदिशूकरः, आद्यकोलः, &c.
Yates
English
आदि-वराह (हः) 1.
m.
Vishnu.
Wilson
English
आदिवराह
m.
(-हः) A name of VIṢṆU.
E.
आदि and वराह a boar
the first boar, alluding to VIṢṆU'S
avatāra, or incarnation in that form
also similar compounds, as
आदिशूकरः, आद्यकोलः, &c.
Monier Williams Cologne
English
आदि—वराह
m.
‘the first boar’,
N.
of Viṣṇu,
Kād.
Hariv.
N.
of a
poet.
N.
of Bhoja (Kanouj king),
Inscr.
Apte Hindi
Hindi
आदिवराहः
पुं*
आदि-वराहः -
‘प्रथमशूकर' विष्णु की उपाधि
Shabdartha Kaustubha
Kannada
आदिवराह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದಶಾವತಾರಗಳಲ್ಲೊಂದಾದ ವಿಷ್ಣುವಿನ ಮೂರನೆಯ ಅವತಾರ
L R Vaidya
English
Adi-varAha {% m. %} Vishṇu in his third or boar incarnation.
Schmidt Nachtrage zum Sanskrit Worterbuch
German
आदिवराह m. als Bein. Viṣṇu's auch H 39, 20. N. pr. eines Prakrit-Dichters, Hāla 85.
शब्दकल्पद्रुमः
Sanskrit
आदिवराहः,
पुं,
(आदिः कारणं वराहश्चेतिकर्म्मधारयः ।) विष्णुः इति त्रिकाण्डशेषः
अदिशूकरः आद्यकोलः
वाचस्पत्यम्
Sanskrit
आदिवराह
पु०
आदिराद्यो वराहः यज्ञवराहरूपेणा-विर्भूते विष्णोरवतारभेदे तत्कथा “ततो महात्मामनसा दिव्यं रूपमचिन्तयत् किं नु रूपमहंकृत्वा उद्ध्वरेयं वसुन्धराम् जले निमग्नां धरणींयेनाहं वै समुद्धरे इति सञ्चिन्त्य मनसा हरिर्नारा-यणः प्रभुः जलक्रीडारुचिस्तस्माद्वाराहं वपुरस्म-रत् हरिरुद्धरणे युक्तस्तदाऽभूदस्य मूमिधृक् अधृष्यंसर्व्वभूतात्रा वाङ्मयं ब्रह्मसंज्ञितम् दशयोजनविस्ता-रमुच्छ्रितं शतयोजनम् नीलजीभूतसङ्काशं मेघस्तनित-निस्वनम् गिरिसंहननं भीमं श्वेतदीप्तोग्रदंष्ट्रिणम् ।विद्युदग्निप्रकाशाक्षमादित्यसमतेजसम् पीनवृत्तायतस्कन्धंदृप्तशार्दूलविक्रमम् पीनोन्नतकटीदेशं वृषलक्षणल-क्षितम् रूपमास्थाय विपुलं वाराहममितं हरिः ।पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् वेदपादो यूप-दंष्ट्रः क्रतुहस्तश्चितीमुखः अग्निजिह्वो दर्भरोमा ब्र-ह्मशीर्षो महातपाः अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभू-षणः आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान् ।सत्यधर्म्ममयः श्रीमान् क्रमविक्रमसत्कृतः क्रियासत्रम-हाघोणः पशुजानुर्म्मखाकृतिः उद्गात्रन्त्रो होम-लिङ्गो वीजौषधिमहाफलः वाय्नन्तरात्मा सत्रस्फिक्विकृतः सोमशोणितः वेदिस्कन्धो ह्नविर्गन्धो हव्यक-व्यातिवेगवान् प्राग्वं शकायो द्युतिमान्नानादीक्षाभिर-न्वितः दक्षिणाहृदयो योगी महासत्रमयो महान् ।उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्त्तभूषणः नानाच्छन्दोगति-पथो गुह्योपनिषदासनः छायापत्नीसहायो वै मणिशृङ्गइवोच्छ्रितः भूत्वा यज्ञवराहोऽसौ द्रागधः प्राविशद्गुरुः ।अद्भिः सञ्छादितामुर्व्वीं तामार्च्छत् प्रजापतिः ।रसातलजले मग्नां रसातलतलं गतः प्रभुर्लोकहि-तार्थाय दंष्ट्राग्रेणोज्जहार गाम् ततः स्वस्थानमा-नीय पृथिवीं पृथिवीधरः मुमोच पूर्व्वं सहसा धार-यित्वा धराधरः ततो जगाम निर्व्वाणं मेदिनी तस्यधारणात् चकार नमस्कारं तस्मै देवाय विष्णवे ।एवं यज्ञवराहेण भूत्वा लोकहितार्थिना उद्धृतापृथिवी देवी सागराम्बुधरा पुरा” हरिवं० २२४ अ०