| YouTube Channel

आदिराजः (AdirAjaH)

 
E Bharati Sampat
Sanskrit
(पुं) आदिः, आद्यः राजा आदि+राजा+टच् ‘राजाहःसखिभ्यष्टच्’ ५.४.९१। पृथुमहाराजः, महाराजेषु पृथुः आदिमः।
शब्दकल्पद्रुमः
Sanskrit
आदिराजः,
पुं,
(आदिः प्रथमः राजा इति राजहः-सखिभ्यष्टच् ।) पृथुराजः इति हेमचन्द्रः
(मही-क्षितामाद्यो वैवस्वतो ममुः अविक्षित्पुत्त्रः स्वना-मख्यातः पौरवो राजा यथा, रामायणे ।“आदिराजो मनुरिव प्रजानां परिरक्षिता”
महाभारते ।“अविक्षितः परिक्षित्तु शवलाश्वश्च वीर्य्यबान् ।आदिराजो विरागश्च शाल्मलिश्च महाबलः”
)