आदिकाव्य (AdikAvya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English आदिकाव्य AdikAvya another name of rAmAyaNa
आदिकाव्य AdikAvya first poem
Apte Hindi
Hindiआदिकाव्यम्
आदि-काव्यम् -
प्रथम काव्य- अर्थात् बाल्मीकि रामायणम्|11083 H2 आदि-काव्यम् NP -
प्रथम काव्य- अर्थात् बाल्मीकि रामायण
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaआदिकाव्य
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ವಾಲ್ಮೀಕಿವಿರಚಿತವಾದ ಶ್ರೀಮದ್ರಾಮಾಯಣ
L R Vaidya
Englishवाचस्पत्यम्
Sanskritआदिकाव्य आदि आद्यं काव्यं पादचतुष्ठयरूपच्छन्दोबद्धंवाक्यम् । बाल्मीकिरचिते रामायणे तस्य चाद्यकाव्यत्वंदर्शितं तत्रैव आदिका० २ सर्गे “ददर्श क्रौञ्च-योस्तत्र मिथुनं चारुदर्शनम् । तस्माच्च मिथुनादेकमाग-त्यानुपलक्षितः । जघान बद्धानुशयो निषादो मुनिसं-निधौ । तं शोणितपरीताङ्गं चेष्टभानं महीतले ।दृष्ट्वा क्रौञ्ची रुरोदार्ता करुणं खेपरिभ्रमा । तं तथा निहतंदृष्ट्वा निषादेनाण्डजं वने । मुनेः शिष्यसहायस्य कारुण्यंसमजायत । ततः करुणवेदित्वाद्धर्म्मात्मा स द्विजोत्तमः ।निशम्य करुणं क्रौञ्जीं रुदतीं तां जगाविदम् । मा नि-षाद! प्रतिष्ठां त्वमगमः शाश्वतीःसमाः । यत्क्रौञ्चमिथुना-देकमबधीः काममोहितम् । तस्येदमुक्त्वा वचनं चिन्ताभूत्तदनन्तरम् । शकुनं शोचता ह्येवं किमतेद्व्याहृतं मयामुहूर्त्तमिव च ध्यात्वा वाक्यं तत् प्रविमृष्य च । शिष्यमाहस्थितं पार्श्वे भारद्वाजमिदं वचः । पादैश्चतुर्भिः संयुक्तमिदंवाक्यं समाक्षरैः । शोचतोक्तं मया यस्मात् तस्माच्छ्लोकोभवत्विति” । एवं चिन्तयतस्तस्याश्रमे स्वयं ब्रह्मणागत्यो-पदिष्टम् । “महर्षे! यदथं प्रोक्तस्त्वया क्रौञ्चबधाश्रयः ।श्लोक एवास्त्वयं बद्धस्तव वाक्यस्य शोचतः । स्वच्छन्दा-देव ते ब्रह्मन्! प्रवृत्तेयं सरस्वती । रामस्य चरितं कृत्स्नंकुरुत्वमृषिसत्तम”! इत्युपदिष्टस्य वाल्मोकेः रामायणरचने-मतिरभूत् यथाह तत्रैव । “तस्य बुद्धिरभूत् तत्र वाल्मी-केरथ धीमतः । कृत्स्नं रामायणं श्लोकैरीदृशैः करवाण्य-हम्” इत्येवमभिनिवेशं कृत्वा कृत्स्नं रामायणं कृतमितिसर्गशेषे तत्रैवोक्तम् “ततः स रामस्य चकार कीर्तिमान् ।समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदा-रधीः परम्” । इह लोके चतुष्पादश्लोकस्यादौ तेनैव प्रचा-रणात् तत्कृतकाव्यस्यादिकाव्यत्वम् । वेदे तु बहूनामनुष्टु-प्छन्दस्कानां श्लोकानां सत्त्वेऽपि लोके प्रथमप्रचाराभावात्तस्याद्यत्वम् । तेन “ईशा वास्यमिदं सर्व्वं यत् किञ्चजगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्” इत्युपक्रमे “असुर्यानाम ते लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः”इत्यादयः श्लोकाः शु० य० वे० ४० अध्याये पठिताः ।एवम् ऋग्वेदादावपि बहबः तथाविधाः सन्ति” तथाच वेदे सत्त्वेऽपि लोके तेन प्रथमप्रचारणात्तस्याद्यका-व्यत्वम् । यत् तु उत्तरचरिते “चित्रमाम्नायाद-न्याऽयं नूतनश्छन्दसामवतार” इति वर्ण्णितम् तत् यथाश्रुतार्थेऽसङ्गतमेव । अन्यः लोकसिद्धवाक्यादित्यध्याहारेणआम्नायात् आम्नायं वेदं मूलत्वेन प्राप्य छन्दसांनवावतारैति व्याख्याने तु न कोऽपि दोष इति युक्तम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
