| YouTube Channel

आत्यन्तिकप्रलय (Atyantikapralaya)

 
Shabdartha Kaustubha
Kannada
आत्यन्तिकप्रलय
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನಾಲ್ಕು ವಿಧ ಪ್ರಳಯಗಳಲ್ಲೊಂದು
वाचस्पत्यम्
Sanskrit
आत्यन्तिकप्रलय
पु०
कर्म्म० प्रलयभेदे प्रलयस्तावत्चतुर्विधः” यथाह वेद० प० “स चतुर्विधः नित्यःप्राकृतो नैमित्तिक आत्यन्तिकश्चेति तत्र नित्यप्रलयः सुषुप्तिःतस्याः सकलकार्य्यप्रलयरूपत्वात् धर्म्माधर्म्मपूर्व्वसंस्काराणाञ्चतदा कारणात्मनाषस्थानं तेन सुप्तोत्थितस्य सुखदुःखा-द्यनुपपत्तिः वा स्मरणानुपपत्तिः सुषुप्तावन्तःकरणस्यापि विनाशे तदधीनप्राणनादिक्रियानुपपत्तिःवस्तुतः श्वासाद्यभावेऽपि तदुपलब्धेः पुरुषान्तरविभ्रम-मात्रत्वात् सुषुप्तशरीरोपलम्भवत् नचैवं सुषुप्तस्य परे-तादविशेषः, सुषुप्तस्य हि लिङ्गशरीरं संस्कारात्मनातत्रैव वर्त्तते परेतस्य तु लोकान्तरे इति वैलक्षण्यात् ।यद्वा अन्तःकरणस्य द्वे शक्ती ज्ञानशक्तिः क्रियाशक्तिश्चेतितत्र ज्ञानशक्तिविशिष्टान्तःकरणस्य सुषुप्तौ विनाशः तुक्रियाशक्तिविशिष्टस्येति प्राणनाद्यवस्थानमविरुद्धम् “यदासुप्तः स्वप्नं कञ्चन पश्यति अथास्मिन् प्राण एवैकधाभवति अथैनं वाक् सर्वैर्नामभिः सहाप्येति सता सौम्य!तदा सम्पन्नो भवति स्वमपीतोभबतीत्यादि” श्रुतिरुक्त सुप्तौमानम् प्राकृतप्रलयस्तु कार्य्यब्रह्मविनाशनिमित्तकःसकलकार्य्यविनाशः यदा तु प्रागेवोत्पन्नब्रह्मसाक्षात्-कारस्य कार्य्यब्रह्मणो ब्रह्माण्डाधिकारलक्षणप्रारब्ध-कर्नसमाप्तौ विदेहकैवल्यात्मिका परा मुक्तिः तदा तल्लोक-वासिनामप्युत्पन्नब्रह्मसाक्षात्काराणां ब्रह्वणा सह विदेहकैवल्यम् “ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे पर-स्यान्ते कृतात्मानः प्रविशन्ति परं पदमिति” श्रुतेः एवंस्वलोकवासिभिः सह कार्य्यब्रह्मणि मुच्यमाने तदधिष्ठि-तब्रह्माण्डतदन्तर्व्वर्त्तिनिखिललोकतदन्तर्व्वर्त्तिस्थावरादीनांभूतानाञ्च प्रकृतौ मायायां लयः तु ब्रह्मणि, बाघरू-पविनाशस्यैव ब्रह्मनिष्ठत्वादतः प्राकृत इत्युच्यते नै-मित्तिकप्रलयस्तु कार्य्यब्रह्मणोदिवसावसाननिमित्तकःत्रैलोक्यमात्रप्रलयो नैमित्तिकप्रलयः ब्रह्मदिवसश्चतु-र्युगसहस्रपरिमितः “चतुर्युगसहस्राणि ब्रह्मणोदि-नमुच्यते” इत्यादिवचनात् प्रलयकालोऽपि दिवस-कालपरिमितः रात्रिकालस्य दिवसकालतुल्यत्वात् ।प्राकृतप्रलये नैमित्तिकप्रलये पुराणवचनानि प्रमाणानि“द्विपरार्द्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः तदा प्रकृ-तयः सप्त कल्पन्ते प्रलयाय हि एष प्राकृतिकोराजन्!प्रकृतौ यत्र लीयते” इति वचन प्राकृतप्रलये मानम् ।“एव नैमित्तिकः प्रोक्तः प्रलयोयत्र विश्वसृक् शेतेऽन-न्तासने नित्यमात्मसात्कृत्य चात्मभूरिति” वचनं नैमित्तिकप्रलये मानम् तुरीयप्रलयस्तु ब्रह्मसाक्षात्कारनिमित्तकःसर्व्वगोक्षः सचैकजीववादे युगपदेव नानाजीववादे तु क्रमे-ण “सर्व्वएकीभवन्ति” इत्यादि श्रुतेः तत्राद्यास्त्रयोऽपिलयाः कर्म्मोपरमनिमित्ताः तुरीयस्तु ज्ञानोदयनिमित्तो-लयोऽज्ञानेन सहैवेति विशेषः” अत्र तुरीयः आत्य-न्तिकः तत्र विशेषमाह सि० शि० “वृद्धिर्वि-धेरह्नि भुवः समन्तात् स्याद्योजनं भूभवभूतपूर्वैः ब्राह्मेलये योजनमात्रवृद्धेर्नाशो भुवः प्राकृतिकेऽखिलायाः ।दिनेदिने यन्म्रियते हि भूतैर्दैनंदिनं तं प्रलयंवदन्ति ब्राह्मं लयं ब्रह्मदिनान्तकाले भूतानि यद्-ब्रह्मतनुं विशन्ति ब्रह्मात्यये यत् प्रकृतिं प्रयान्ति स-र्वाण्यतः प्राकृतिकं कृतीन्द्राः लीनान्यतः कर्मपुटान्त-रत्वात् पृथक् क्रियन्ते प्रकृतिर्विकारैः ज्ञानाग्निद-ग्धाखिलपुण्यपापा मनः समादाय हरौ परेशे यद्यो-गिनौ यान्त्यनिवृत्तिमस्मादात्यन्तिकं चेति लयश्चतुर्धा” ।“अत्र लयो भूतविनाशः तु साम्प्रतं प्रत्यहमुत्पद्यतेस दैनंदिन उच्यते यो ब्रह्मदिनान्ते चतुर्युगसहस्राव-साने लोकत्रयस्य संहारः ब्राह्मो लय उच्यते तत्रा-क्षीणपुण्यपापा एव लोकाः कालवशेन ब्रह्मशरीरं प्रवि-शन्ति तत्र मुखं ब्राह्मणाः, बाह्वन्तरं क्षत्रियाः, ऊ-रुद्वयं वैश्याः, पादद्वयं शूद्राः ततो निशावसानेपुनर्ब्रह्मणः सृष्टिं चिन्तयतो मुखादिस्थानेभ्यः कर्मपुटा-न्तरत्वाद्ब्राह्मणादयस्तत एव निःसरन्ति तस्मिन्प्रलये भुवो योजनमात्रवृद्धेर्विलयो नाखिलायाः अथयदा ब्रह्मण आयुषोऽन्तस्तदा यः प्रलयः महाप्रलयउच्यते तत्र ब्रह्मा ब्रह्माण्डे, तत् पाञ्चभौतिके, भूर्जले, जलं तेजसि, तेजो वायौ, वायुराकाशे, आकाशमहंकारे, अहंकारो महत्तत्त्वे, महत्तत्त्वंप्रकृतौ एवं सकलभुवनलोका अक्षीणपुण्यपापा एवा-व्यक्तं पविशन्ति यदा भगवान् सिसृक्षुः प्रकृतिपुरुषौक्षोभयति तदा तानि भूतानि कर्म्मपुटान्तरत्वात् प्रकृतेःस्वत एव निःसरन्ति यथाह श्रीविष्णुपुराणे पराशरोजगदुत्पत्तिकारणम् “प्रधानकारणीभूता यतो वै सृज्य-शक्तय” इति सृज्यशक्तयस्तत्कर्माणि तान्येव सृष्टौ मुख्यंकारणम् इतराणि निमित्तकारणानि अन्यैरप्युक्तम् ।“नाभक्तं क्षीयते कर्म कल्पकोठिशतैरपि” “नह्यात्मनांभवति कर्मफलोपभोगः कायाद्विनेत्यादि” अस्मिन् प्रलयेऽखिलायाभुवो नाश इत्यर्थः तथा “ज्ञानाग्निदग्धाखि-लपुण्यपापा योगिनो विषयेभ्यो मनः समादाय समाहृत्यतद्धरौ समाहितं कृत्वा यान्ति देहं त्यजन्ति अनि-वृत्तिं यान्ति आत्यन्तिको लय इति” प्रमिता०