| YouTube Channel

आत्यन्तिकः (AtyantikaH)

 
E Bharati Sampat
Sanskrit
(वि) अत्यन्तं+ठञ्/ठक् ‘विनयादिभ्यष्ठक्’ ५.४.३४। १.अत्यन्तः, अधिकः। ‘सा विष्णोरिव विष्णुगुप्तहतकस्य आत्यन्तिकश्रेयसे’ मुद्रा०२.१५। २.अत्युत्तमः, श्रेष्ठः, अतिशयः। अन्तम् अतिक्रान्तम्, अत्यन्तम् अत्यन्तम् एव आत्यन्तिकम् ‘सुखमात्यन्तिकं यत्तद्बुद्धिग्राय्हमतीन्द्रियम्’ गीता६.२१। ३.सर्वोच्यः, पूर्णः, अत्यन्तिकी स्वत्वनिवृत्तिः।