| YouTube Channel

आत्मोत्पत्ति (Atmotpatti)

 
वाचस्पत्यम्
Sanskrit
आत्मोत्पत्ति स्त्री आत्मन उत्पत्तिः स्वोपाध्यन्तःकरणवृत्ति-कर्म्मणाऽपूर्व्वदेहसंयोगः स्वोपाधीभूतान्तःकरणवृत्ति-कर्म्मणाऽपूर्व्वदेहसंयोगरूपे आत्मनो जन्मनि तदुत्पत्ति-प्रकारः मिताक्षरायां दर्शितो यथा ।“निमित्तमक्षरः कर्त्ता बोद्धा ब्रह्म गुणी वशी अजःशरीरग्रहणात्स जात इति कीर्त्यते” “आत्मनःसकलजगत्प्रप-ञ्चाविर्भावेऽविद्यासमावेशवशात्समवाय्यसमवायिनिमित्तमि-त्येवं स्वयमेव त्रिविघमपि कारणम् पुनःकार्य्यकोटि-निविष्टः यस्मादक्षरोऽविनश्वरः ननु सत्त्वादिगुणविकारस्यसुखदुःखमोहात्मकस्य कार्य्यभूते जगत्प्रपञ्चे दर्शनाद्गुण-वत्याः प्रकृतेरेव जगत्कर्त्तृतोचिता पुनर्निर्गुणस्य ब्रह्म-णः मैवं मंस्थाः आत्मैव कर्त्ता यस्मादसौ जीवोपभोग्यसुखदुःखहेतुपुण्यापुण्यादेर्बोद्धा नह्यचेतनायाः प्रकृतेर्ना-मरूपव्याकृतविचित्रभोक्तृवर्गभोगानुकूलभोग्यभोगायतनादियोगिजगत्प्रपञ्चना घटते तस्मादात्मैव कर्त्ता तथा सएव ब्रह्म वृंहकोविस्तारकः नचासौ निर्गुणः, यतः तस्यत्रिगुणा शक्तिरविद्या प्रकृतिप्रधानाद्यपरपर्याया विद्यते ।अतः स्वतोनिर्गुणत्वेऽपि शक्तिमुखेन सत्त्वादिगुणयोगी कय्य-ते नचैतावता प्रकृतेः कारणता यस्मादात्मैव वशी स्वतन्त्रोन प्रकृतिर्नाम खतन्त्रन्तत्त्वान्तरन्तादृग्विधत्ते प्रमाणाभावा-त् वचनीयं शक्तिरूपापि सैव कर्तृभूतेति यतःशक्तिमत्कारकं शक्तिस्तस्मादात्मैव जगतस्त्रिविधमपिकारणम् तथा अजौत्पत्तिरहितः अतस्तस्य यद्यपिसाक्षाज्जननं नोपपद्यते तथापि शरीरग्रहणमात्रेण जातइत्युच्यते अवस्थान्तरयोगितयोत्पत्तिर्गुहस्थोजात इतिवत्” मिता० देहोत्पत्तिप्रकारःकायशब्दे वक्ष्यते