| YouTube Channel

आत्मा (AtmA)

 
Spoken Sanskrit
English
आत्मा - AtmA -
m.
- self
स्व - sva -
adj.
- ofself
स्वार्थिन् - svArthin -
adj.
- selfish
धृति - dhRti -
f.
- self-command
ममता - mamatA -
f.
- self-interest
आत्मसमर्पणं करोति { क्र् } - AtmasamarpaNaMkaroti{kr} - verb 8 - self-surrender
आत्मविश्वास - AtmavizvAsa -
m.
- selfconfidence
केचन जनाः स्वार्थिनः - kecanajanAHsvArthinaH -
sent.
- Somepeopleareselfish.
सर्वे जनाः स्वार्थिनः - nasarvejanAHsvArthinaH -
sent.
- Notallpeopleareselfish.
आहङ्कारिक - AhaGkArika -
adj.
- belongingtoself-consciousness
आत्मौपम्य - Atmaupamya -
n.
अनन्य - ananya -
adj.
- self
तनु - tanu -
f.
- self
स्वयम् - svayam -
ind.
- self
आत्मन् - Atman -
m.
- self
आत्मभाव - AtmabhAva -
m.
- self
त्मन् - tman -
m.
- self
विलक्षी करोति { कृ } - vilakSI karoti { kR } - verb caus. - abash [ destroy self-confidence of ]
कवारि - kavAri -
adj.
- selfish
उदरम्भरि - udarambhari -
adj.
- selfish
आत्मा - AtmA -
m.
- self
आत्मा , आत्मन् - AtmA , Atman -
m.
- soul
Hindi
Hindi
आत्मा
E Bharati Sampat
Sanskrit
(पुं)(आत्मन्) अतति सन्ततभावेन जाग्रदादि सर्वासु अवस्चास्तु अनुवर्तते अत(सातत्यगमने)+मनिन् ‘सातिभ्यां मनिन्मनिणौ’ उ०४.१५३। १.जीवः। ‘आत्मानं रचिनं विद्धि मनः प्रगृहमेव च’ कठ०। २.स्वभावः। ३.बुद्धिः, ज्ञानम् ‘तमात्मसंपन्नमनिन्दितात्मा कृत्वा युवानं युवराजमेव’ रघुः१८.१८। ४.परव्यावर्तनम् ‘यत्ने स्वभावे परमात्मनि चित्ते धृतौ बुद्धौ परव्यावर्तनेपि च’ धरणिः। ५.देहः। ६.मनः, चित्तम् ‘आरेभिरेजितात्मानः पुत्रीयामिष्टिमृविजः’ रघुः १०.४। ७.परमात्मा ब्रह्म ‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह यच्चास्य सन्ततो भावः तस्मादात्मेति कीर्त्यते आत्मेव दृष्टः सहसा प्रजानांमादशीनेच्छामितरेषु दत्ते’ याद०१८.९३। ८.पुत्रः। ‘आत्मा वै पुत्र नामासि ।’ ९.सूर्यः। १०.अग्निः। ११.वायुः। ‘क्षेत्रज्ञ आत्मा पुरुषः’ अमरः१.५.२९। ‘आत्मा चित्ते धृतौ यत्ने घिषणायां कलेवरे परमात्मनि जीवेर्के हुताशन समीरयोः’ स्वभावे ‘क्षेत्रज्ञावात्मनिपुणौ’ हैमः। ‘आत्मा कलेवरे ।’ १२.स्वः, स्वयम् ‘आत्मानममृतोदन्तस्थितममन्यत’ याद०१६.२३८। १३.स्वरूपः। ‘अथविश्वात्मने गौरी सन्दिदेश मियः सखीम्’ कुमारः६.१।
Wordnet
Sanskrit
Synonyms:
आत्मा-उपनिषद्, आत्मा
noun
एका उपनिषद्।
"आत्मा-उपनिषद् अथर्ववेदेन सम्बन्धिता।"
Synonyms:
आत्मा
noun
सा सत्ता या मनसः तथा हृदयस्य व्यापारान् नियन्त्रयति।
"आत्मा विनश्यति।"
Synonyms:
प्राणाः, आत्मा, असवः
noun
सा चेतना यया सजीवाः जीवन्ति।
"यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।"
Sanskrit Tibetan
Tibetan
nyer bskrun
आत्मा / उत्पत्ति
अमरकोशः
Sanskrit
Word: आत्मा
Root: आत्मन्
Gender: पुं
Number: all
Meaning(s):
soul
self
breath
spirit
nature
essence
character
peculiarity
individual soul
Shloka(s):
1|4|29|1 क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्। (कालवर्गः)
3|3|208|1 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु। (नानार्थवर्गः)
3|3|212|1 स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने। (नानार्थवर्गः)
Synonym(s):
1|4|29|1 क्षेत्रज्ञः (क्षेत्रज्ञ) (पुं) clever, cunning, skilful, dexterous, form of bhairava, knowing localities, knowing the body i.e. the soul, familiar with the cultivation of the soil, conscious principle in the corporeal frame
1|4|29|1 आत्मा (आत्मन्) (पुं) soul, self, breath, spirit, nature, essence, character, peculiarity, individual soul
1|4|29|1 पुरुषः (पुरुष) (पुं) man, soul, male, people, spirit, friend, person, officer, servant, attendant, human being, functionary, soul or spirit, pupil of the eye, height or measure of a man, follower of the sAMkhya Philosophy, Supreme Being or Soul of the universe, spirit or fragrant exhalation of plants, red kamala plant [Mallotus philippensis - Bot.], member or representative of a race or generation, bleeding-heart plant [Clerodendrum phlomidis - Bot.], personal and animating principle in men and other beings, primaeval man as the soul and original source of the universe, Spirit as passive and a spectator of the prakRti or creative force
3|3|208|1 भावः (भाव) (पुं) thing, spirit, manner, emotion, sentiment, intuition, prescience, attitude [mental]
3|3|212|1 स्वः (स्व) (पुं)
Related word(s):
जातिः आत्मा
परा_अपरासंबन्धः परमात्मा
शब्दकल्पद्रुमः
Sanskrit
आत्मा, [न्]
पुं,
(अतति सन्ततभावेन जाग्रदादि-सर्व्वावस्थासु अनुवर्त्तते, अत सातत्यगमने +मनिण् ।) यत्नः धृतिः बुद्धिः स्वभावः ।ब्रह्म देहः इत्यमरः
मनः इति मेदिनी
परव्यावर्त्तनं इति धरणी
पुत्त्रः इतिशब्दरत्नावली
जीवः अर्कः हुताशनः ।वायुः इति हेमचन्द्रः
(“आत्मज्ञः करणैर्योगात् ज्ञानं तस्य प्रवर्त्तते” ।“अय्यक्तमात्मा क्षेत्रज्ञः शाश्वतो विभुरव्ययः” ।“चेतवान् यतश्चात्मा ततः कर्त्ता निरुच्यते” ।“देही सर्व्वगतोह्यात्मा स्वेस्वे संस्पर्शनेन्द्रिये ।सर्व्वाः सर्व्वाश्रयस्थास्तु नात्मातो वेत्ति वेदनाः”
“विभुत्वमतएवास्य यस्मात् सर्व्वगतो महान् ।मनसश्च समाधानात् पश्यत्यात्मा तिरस्कृतं”
“आदिर्नास्त्यात्मनः क्षेत्रपारम्पर्य्यमनादिकं” ।“स सर्व्वगः सर्व्वशरीरभृच्च, विश्वकर्म्मा विश्वरूपः ।स चेतनाधातुरतीन्द्रियश्च, नित्ययुक् सानुशयः सएव
रसात्ममातापितृसम्भवानि, भूतानि विद्याद्दश षट् देहे ।चत्वारि तत्रात्मनि संश्रितानि, स्थितस्तथात्मा चतुर्षु तेषु
भूतानि मातापितृसम्भवानि, रजश्च शुक्रञ्च वदन्ति गर्भे ।आप्याय्यते शुक्रमसृक्सुभूतै-र्यैस्तानि भूतानि रसोद्भवानि
भूतानि चत्वारि तु कर्म्मजानि, यान्यात्मलीनानि विशन्ति गर्भं ।सवीजधर्म्माह्यपरापराणि, देहान्तराण्यात्मनि याति याति
रूपाद्विरूपप्रभवः प्रसिद्धः, कर्म्मात्मकानां भनसो मनस्तः ।भवन्ति येत्वाकृतिबुद्धिभेदाःरजस्तमस्तत्र कर्म्महेतुः
अतीन्द्रियैस्तैरतिसूक्ष्मरूपैरात्मा कदाचिन्न वियुक्तरूपः ।न कर्म्मणा नैव मनोमतिभ्यांन चाप्यहङ्कारविकारदोषैः”
इति चरकः
“यदा यदात्माकृतिमानयं भवे-त्तदा मनस्तत्त्वधितिष्ठतीन्द्रियं ।ततो मनोऽधिष्ठितमिन्द्रियं घटे-प्रवर्त्तते संशयबुद्धिसम्भवे”
इति वैद्यकवादार्थदर्पणं
)