| YouTube Channel

आत्महा (AtmahA)

 
E Bharati Sampat
Sanskrit
(पुं)(वि)(आत्महन्) आत्मानं हतवान् आत्मन्+हन(हिंसागत्योः)+क्विप् ‘क्विप् च’ ३.२.७६। १.आत्मज्ञानरहितः, देहाद्यभिमानी, यः परमात्मज्ञानंसंपादनं विना व्यर्थं जीवति सः। ‘नृदेहमाद्यं सुलभं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारम् मथानुकूलेन नभस्वतेरितं पुमान् भवाब्धिं तरेत् आत्महा’ भाग०११.२०.१७। ‘यस्त्वात्मकुक्त्यै यतेत मूढधीः आत्महा स्वं विनिहन्त्यसद्गृहात्’ विवेकचू०।
Wordnet
Sanskrit
Synonyms:
आत्मघ्नः, आत्मघाती, आत्महा, आत्मघातकः, आत्मत्यागी, आत्मध्रुक्, जीवितत्यागी
noun
स्वम् एव हन्यमानः।
"आत्मघ्नः कः अस्ति इति इतोऽपि ज्ञायते।"
शब्दकल्पद्रुमः
Sanskrit
आत्महा, [न्]
पुं,
(आत्मन् + हन् + क्विप् ।) देवलः ।इति शब्दरत्नावली
आत्मघाती “नृदेहमाद्यंसुलमं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारं मया-नुकूलेन नभस्वतेरितं पुमान् भवाब्धिं तरेत् सआत्महा”
इति श्रीभागवतं
(अपरञ्च यथा, “लब्धा कथञ्चित् नरजन्म दुर्लभं तत्रापि पुंस्त्वंश्रुतिपारदर्शनं यस्त्वात्ममुक्त्यै यतेत मूढधीःस आत्महा स्वं विनिहन्त्यसद्ग्रहात्”
)