| YouTube Channel

आत्मशुद्धिः (AtmazuddhiH)

 
E Bharati Sampat
Sanskrit
(स्त्री) आत्मनो देहस्य, मनसः, बुद्धेर्वा शुद्धिः। १.देहशुद्धिः। २.मनश्शुद्धिः। ३.बुद्धिशुद्धिः। ‘अद्भिः शुध्यन्ति गात्राणि, बुद्धिर्ज्ञानेन शुध्यति अहिंसया भूतात्मा मनः सत्येन शुध्यति ।’ ४.संचितकर्मफलनाशात् सम्भाव्यमाना शुद्धिः। ‘योगिनः कर्मकुर्वन्ति सङ्गंत्यक्त्वात्मशुद्धये’ गीता५.११।