| YouTube Channel

आत्मध्यान (AtmadhyAna)

 
Shabdartha Kaustubha
Kannada
आत्मध्यान
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಪರಮಾತ್ಮನ ಧ್ಯಾನ
व्युत्पत्तिः - > आत्मनो ध्यानम्
वाचस्पत्यम्
Sanskrit
आत्मध्यान
न०
आत्मनोध्यानम् योगविशेषः आत्मसा-त्कारसाधने मानसवृत्तिभेदे तत्प्रकारश्च शङ्खस्मृतौदर्शितः“ध्यानं प्रोक्तं प्रवक्ष्यामि सर्वस्माद्योगतः शुभम् हृदि-स्थादेवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः हृदि ज्योत्तींषि-भूयश्च हृदि सर्व्वं प्रतिष्ठितम् स्वदेहमरणिं कृत्वा प्रण-वञ्चोत्तरारणिम् ध्याननिर्म्मथनाभ्यान्तु विष्णुं पश्येद्धृदिस्थितम् हृद्यर्कश्चन्द्रमःसूर्य्यः सोममध्ये हुताशनः ।तेजोमध्ये स्थितं तत्त्वं तत्त्वमध्ये स्थितोऽच्युतः अणो-रणीयान् महतो महीयानात्मास्य जन्तोर्न्निहितोगुहा-याम् तेजोमयं पश्यति वीतशोकोधातुः प्रसादान्महिमा-नमात्मनः वासुदेवस्तमोऽन्धानां प्रत्यक्षोनैव जायते अ-ज्ञानपटसंवीतैरिन्द्रियैर्विषयेप्सुभिः एष वै पुरुषोविष्णु-र्व्यक्ताव्यक्तः सनातनः एष धाता विधाता पुराणानि-ष्कलः शिवः वेदाहमेतं पुरुषं महान्तमादित्यवर्णं त-मसः परस्तात् मन्त्रैर्विदित्वा बिभेति मृत्योर्नान्यःपन्था विद्यतेऽस्यायनाय पृथिव्यापस्तथा तेजोवायुराका-शमेव पञ्चेमानि विजानीयान्महाभूतानि पण्डितः ।चक्षुः श्रोत्रे स्पर्शनञ्च रसना घ्राणमेवच बुद्धीन्द्रियाणिजानीयात् पञ्चेमानि शरीरके शब्दोरूपं तथा स्पर्थो-रसोगन्धस्तथैव इन्द्रियस्थान् विजानीयात् पञ्चैवविषयान् बुधः हस्तौ पादावुपस्थञ्च मुखं पायुस्तथैवच कर्म्मोन्द्रियाणि पञ्चैव नित्यं सन्ति शईरके मनो-बुद्धिस्तथैवात्मा व्यक्ताव्यक्तं तथैव इन्द्रियभ्यः परा-णीह चत्वारि प्रवराणि तथात्मानं तद्व्यतीतं पुरुषंपञ्चविंशकम् तन्तु ज्ञात्वा विमुच्यन्ते ये जनाः साधुवृ-त्तयः इदन्तु परमः शुद्धमेतदक्षरमुत्तमम् अशब्दमर-सस्पर्शमरूपं गन्धवर्ज्जितम् र्निदुःखमसुखं शुद्धं तद्विष्णोःपरमं पदम् विज्ञानसारथिर्यस्तु मनःप्रग्रहबन्धनः ।सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् आरा-ग्रशतशोभागः कल्पितस्तु सहस्रधा तस्यापि शतशोभा-गाज्जीवः सूक्ष्मौदाहृतः महतः परमव्यक्तमव्यक्तात्पुरुषः परः पुरुषान्न परं किञ्चित्सा काष्ठा सा परागतिः एष सर्व्वेषु भूतेषु तिष्ठत्यविरलः सदा दृश्यतेत्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः” जोवात्मपरमा-त्मानोरेकतया क्वचिदोश्वरधर्मेण क्वचिच्च जीवधर्मेण ध्यान-मुच्यते आत्मस्वरूपमुक्त्वा तस्य ध्यान प्रकारः या० स्मृतौउक्तः यथा “अनन्यविशयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् ।ध्येय आत्मा स्थितोयोऽसौ हृदये दीपवत् प्रभुः” “आत्म-व्यतिरिक्तविषयेभ्यो मनोबुद्धिस्मृतीन्द्रियाणि प्रत्या हृत्यात्मै-कविषयाणि कृत्वात्मा ध्येयः योऽसौ प्रभुर्निर्वातस्थप्रदीपव-द्देदीप्यमानो निष्प्रकम्पोहृदि तिष्ठति एतदेव तस्य ध्येयत्वं यच्चित्तवृत्तेर्बहिर्विषयावभासतिरस्कारेणात्मप्रवणता-नाम शरावसम्पुटनिरुद्धप्रभाप्रतानप्रसरस्येव प्रदीपस्यैकनिष्ठत्वम्” मिता०