आत्मतत्त्वं (AtmatattvaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritआत्मतत्त्वं, (आत्मनः तत्वं स्वरूपम् ।) तत्तद्भा-सकं नित्यशुद्धबुद्धमुक्तसत्यस्वभावं प्रत्यक्चैतन्यमे-वात्मतत्त्वं । पुत्रादिभासकं नित्यशुद्धत्वादिस्वरूप-मेवात्मवस्त्विति यावत् । एतद्विवरणं यथा ।“इदानीं प्रत्यगात्मनि इदमिदमयमयमारोपय-तीति विशेष उच्यते । तथाच । अतिप्राकृतस्तुआत्मा वै जायते पुत्र इत्यादि श्रुतेः स्वस्मिन्निवस्वपुत्त्रेऽपि प्रेमदर्शनात् पुत्त्रे पुष्टे नष्टेऽहमेवपुष्टो नष्टश्चेत्याद्यनुभवाच्च पुत्त्र आत्मेति वदति ॥
१ ॥
चार्व्वाकस्तु स वा एष पुरुषोऽन्नरसमयइत्यादि श्रुतेः प्रदीप्तगृहात् स्वपुत्त्रं परित्यज्यापिस्वस्य निर्गमदर्शनात् स्थूलोऽहं कृशोऽहं इत्याद्य-नुभवाच्च स्थूलशरीरमात्मेति वदति ॥
२ ॥
अप-रश्चार्व्वाकः तेऽप्राणाः प्रजाप्रतिं समेत्य ब्रूयुरित्यादिश्रुतेः इन्द्रियाणामभावे शरीरचलना-भावात् काणोऽहं वधिरोऽहं इत्याद्यनुभवाच्चइन्द्रियाण्यात्मेति वदति ॥
३ ॥
अन्यस्तु चार्व्वाकःअन्योऽन्तर आत्मा प्राणमय इत्यादिश्रुतेः प्राणा-भावे इन्द्रियचलनायोगात् अहमशनायावानहंपिपासावान् इत्याद्यनुभवाच्च प्राण आत्मेति वदति॥
४ ॥
इतरस्तु चार्व्वाकः अन्योऽन्तर आत्मामनोमय इत्यादिश्रुतेः मनसि सुप्ते प्राणादेर-भावात् अहं सङ्कल्पवानहं विकल्पवानित्याद्यनु-भवाच्च मन आत्मेति वदति ॥
५ ॥
बौद्धस्तु अन्योऽन्तर आत्मा विज्ञानमय इत्यादिश्रुतेः कर्त्तुरमावेकरणस्य शक्त्यभावात् अहं कर्त्ताहं भोक्ता इत्या-द्यनुभवाच्च बुद्धिरात्मेति वदति ॥
६ ॥
प्राभाकर-तार्किकौ तु अन्योऽन्तर आत्मा आनन्दमयइत्यादिश्रतेः सुषुप्तौ बुद्ध्यादीनामज्ञाने लयदर्श-नात् अहमज्ञोऽहं ज्ञानीत्याद्यनुभवाच्च अज्ञान-मात्मेति वदतः ॥
७ ॥
भट्टस्तु प्रज्ञानघन एवानन्द-मय आत्मेत्यादिश्रुतेः सुषुप्तौ प्रकाशाप्रकाशसद्-भावात् मामहं न जानामि इत्याद्यनुभवाच्च अज्ञा-नोपहितं चैतन्यमात्मेति वदति ॥
८ ॥
अपरबौद्धःअसदेवेदमग्र आसीदित्यादिश्रुतेः सुषुप्तौ सर्व्वा-भावादहं सुप्तः सुषुप्तौ नासमित्युत्थितस्य स्वाभाव-परामर्शविषयानुभवाच्च शून्यमात्मेति वदति ॥
९ ॥
एतेषां पुत्त्रादीनां शून्यपर्य्यन्तानामनात्मत्व-मुच्यते । एतैरतिप्राकृतादिवादिभिरुक्तेषु श्रुति-युक्त्यनुभवाभासेषु पूर्व्वपूर्व्वोक्तश्रुतियुक्त्यनुभवाभासा-नामुत्तरोत्तरश्रुतियुक्त्यानुभवाभासैरात्मबाधदर्श --नात् पुत्त्रादीनामनात्मत्वं स्पष्टमेवेति ॥
* ॥
किञ्चप्रत्यगस्थूलोऽचक्षुरप्राणोऽमना अकर्त्ता चैतन्यंचिन्मात्रं सदित्यादिप्रबलश्रुतिविरोधात् अस्यपुत्त्रादिशून्यपर्य्यन्तस्य जडस्य चैतन्यभास्यत्वेनघटादिवदनित्यत्वात् अहं ब्रह्मेति विद्वदनुभवप्राबल्याच्च तत्तच्छ्रुतियुक्त्यनभवाभासानां बाधित-त्वादपि पुत्त्रादिशून्यपर्य्यन्तमखिलमनात्मैव । अत-स्तत्तद्भासकं नित्यशुद्धबुद्धमुक्तसत्यस्वभावं प्रत्यक्-चैतन्यनेवात्मतत्त्वमिति वेदान्तविदनुभवः” । इतिवेदान्तसारः (५० -- ५८) ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
