| YouTube Channel

आत्मतत्त्व (Atmatattva)

 
शब्दसागरः
English
आत्मतत्त्व
n.
(-त्वं) The nature of spirit.
E.
आत्मन् and तत्त्व truth.
Monier Williams Cologne
English
आत्म—तत्त्व
n.
the true nature of the soul or of the supreme spirit,
ŚvetUp.
Apte Hindi
Hindi
आत्मतत्त्वम्
नपुं*
आत्मन्-तत्त्वम् -
आत्मा या परमात्मा की वास्तविक प्रकृति
Shabdartha Kaustubha
Kannada
आत्मतत्त्व
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಆತ್ಮನ ನಿಜ ಸ್ವರೂಪ
व्युत्पत्तिः - > आत्मनः तत्त्वम्
Aufrecht Catalogus Catalogorum
English
आत्मतत्त्व vedānta. Burnell 93^b.
--by Rāmānandatīrtha. Mentioned L. 1017.
शब्दकल्पद्रुमः
Sanskrit
आत्मतत्त्वं,
क्ली,
(आत्मनः तत्वं स्वरूपम् ।) तत्तद्भा-सकं नित्यशुद्धबुद्धमुक्तसत्यस्वभावं प्रत्यक्चैतन्यमे-वात्मतत्त्वं पुत्रादिभासकं नित्यशुद्धत्वादिस्वरूप-मेवात्मवस्त्विति यावत् एतद्विवरणं यथा ।“इदानीं प्रत्यगात्मनि इदमिदमयमयमारोपय-तीति विशेष उच्यते तथाच अतिप्राकृतस्तुआत्मा वै जायते पुत्र इत्यादि श्रुतेः स्वस्मिन्निवस्वपुत्त्रेऽपि प्रेमदर्शनात् पुत्त्रे पुष्टे नष्टेऽहमेवपुष्टो नष्टश्चेत्याद्यनुभवाच्च पुत्त्र आत्मेति वदति
चार्व्वाकस्तु वा एष पुरुषोऽन्नरसमयइत्यादि श्रुतेः प्रदीप्तगृहात् स्वपुत्त्रं परित्यज्यापिस्वस्य निर्गमदर्शनात् स्थूलोऽहं कृशोऽहं इत्याद्य-नुभवाच्च स्थूलशरीरमात्मेति वदति
अप-रश्चार्व्वाकः तेऽप्राणाः प्रजाप्रतिं समेत्य ब्रूयुरित्यादिश्रुतेः इन्द्रियाणामभावे शरीरचलना-भावात् काणोऽहं वधिरोऽहं इत्याद्यनुभवाच्चइन्द्रियाण्यात्मेति वदति
अन्यस्तु चार्व्वाकःअन्योऽन्तर आत्मा प्राणमय इत्यादिश्रुतेः प्राणा-भावे इन्द्रियचलनायोगात् अहमशनायावानहंपिपासावान् इत्याद्यनुभवाच्च प्राण आत्मेति वदति॥
इतरस्तु चार्व्वाकः अन्योऽन्तर आत्मामनोमय इत्यादिश्रुतेः मनसि सुप्ते प्राणादेर-भावात् अहं सङ्कल्पवानहं विकल्पवानित्याद्यनु-भवाच्च मन आत्मेति वदति
बौद्धस्तु अन्योऽन्तर आत्मा विज्ञानमय इत्यादिश्रुतेः कर्त्तुरमावेकरणस्य शक्त्यभावात् अहं कर्त्ताहं भोक्ता इत्या-द्यनुभवाच्च बुद्धिरात्मेति वदति
प्राभाकर-तार्किकौ तु अन्योऽन्तर आत्मा आनन्दमयइत्यादिश्रतेः सुषुप्तौ बुद्ध्यादीनामज्ञाने लयदर्श-नात् अहमज्ञोऽहं ज्ञानीत्याद्यनुभवाच्च अज्ञान-मात्मेति वदतः
भट्टस्तु प्रज्ञानघन एवानन्द-मय आत्मेत्यादिश्रुतेः सुषुप्तौ प्रकाशाप्रकाशसद्-भावात् मामहं जानामि इत्याद्यनुभवाच्च अज्ञा-नोपहितं चैतन्यमात्मेति वदति
अपरबौद्धःअसदेवेदमग्र आसीदित्यादिश्रुतेः सुषुप्तौ सर्व्वा-भावादहं सुप्तः सुषुप्तौ नासमित्युत्थितस्य स्वाभाव-परामर्शविषयानुभवाच्च शून्यमात्मेति वदति
एतेषां पुत्त्रादीनां शून्यपर्य्यन्तानामनात्मत्व-मुच्यते एतैरतिप्राकृतादिवादिभिरुक्तेषु श्रुति-युक्त्यनुभवाभासेषु पूर्व्वपूर्व्वोक्तश्रुतियुक्त्यनुभवाभासा-नामुत्तरोत्तरश्रुतियुक्त्यानुभवाभासैरात्मबाधदर्श --नात् पुत्त्रादीनामनात्मत्वं स्पष्टमेवेति
*
किञ्चप्रत्यगस्थूलोऽचक्षुरप्राणोऽमना अकर्त्ता चैतन्यंचिन्मात्रं सदित्यादिप्रबलश्रुतिविरोधात् अस्यपुत्त्रादिशून्यपर्य्यन्तस्य जडस्य चैतन्यभास्यत्वेनघटादिवदनित्यत्वात् अहं ब्रह्मेति विद्वदनुभवप्राबल्याच्च तत्तच्छ्रुतियुक्त्यनभवाभासानां बाधित-त्वादपि पुत्त्रादिशून्यपर्य्यन्तमखिलमनात्मैव अत-स्तत्तद्भासकं नित्यशुद्धबुद्धमुक्तसत्यस्वभावं प्रत्यक्-चैतन्यनेवात्मतत्त्वमिति वेदान्तविदनुभवः” इतिवेदान्तसारः (५० -- ५८)
वाचस्पत्यम्
Sanskrit
आत्मतत्त्व
पु०
आत्मनस्तत्त्वम् आत्मनो यथार्थस्वरूपे चै-तन्यरूपे मतभेदे कर्त्तुत्वादिरूपे आत्मतत्त्वं उदयनाचार्यैःचार्व्वाकादिमतनिरसनेन आत्मतत्त्वविवेके दर्शितम् यथा“इह खलु निसर्गप्रतिकूलस्वभावं सर्व्वजनसंवेदनसिद्धंदुःखं जिहासवः सर्वएव तद्धानोपायमविद्वांसोऽनुसरन्तःसर्वाध्यात्मविदेकवाक्यतया तत्त्वज्ञानमेव तदुपायमाकर्ण-यन्ति ततोऽन्यम्, प्रतियोग्यनुयोगितया आत्मैव तत्त्व-तोज्ञेयः तथाहि यदि नैरात्म्यं यदि वात्मास्ति वस्तु-भूत उभयथापि नैसर्गिकमात्मज्ञानमतत्त्वज्ञानमेवेत्यत्राप्ये-कवाक्यतैव वादिनाम् अत आत्मतत्त्वं विविच्यते इत्या-दिना, विस्तरस्तु तत्रैव अवगन्तव्यः आत्मैव तत्त्वं परम-पदार्थः आत्मरूपे परमपदार्थे