आत्मघाती (AtmaghAtI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiआत्मघाती
आत्मन्-घातिन् -
आत्महत्यारा अपने आप को स्वयं मारने वाला
आत्मघाती
आत्मन्-घातिन् -
नास्तिक
E Bharati Sampat
Sanskrit(वि) आत्मानं हन्ति । आत्मन्+हन(हिंसागत्योः)+णिनिः। ‘नन्दिग्रहि०’ ३.१.१३४। १.आत्महन्ता । ‘व्यापादयेत् वृथात्मानं स्वयं योऽग्न्युदकादिभिः। अवैधेनैव माग्रेण आत्मघाती स उच्चते ।’ ‘आत्मघातिभिरहम्मतिग्रहात्’ याद०१७.९३। २.पाखण्डी, नास्तिकः। ३.आत्मज्ञानरहित विहीनः। ४.विषयासवतः।
Wordnet
Sanskrit आत्मघ्नः, आत्मघाती, आत्महा, आत्मघातकः, आत्मत्यागी, आत्मध्रुक्, जीवितत्यागी
स्वम् एव हन्यमानः।
"आत्मघ्नः कः अस्ति इति इतोऽपि न ज्ञायते।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritआत्मघाती, [न्] त्रि, (आत्मन् + हन् + णिन् ।)आत्महन्ता । यथा कूर्म्मपुराणे ॥
“व्यापादयेद्वृथात्मानं स्वयं योऽग्न्युदकादिभिः ।विहितं तस्य नाशौचं नाग्निर्नाप्युदकादिकं” ॥
आत्महननकर्त्ता । अवैधबुद्धिपूर्व्वकात्महननस्यप्रायश्चित्तं यथा, --“इन्द्रियैरपरित्यक्ता ये च मूढा विषादिनः ।घातयन्ति स्वमात्मानं चण्डालादिहताश्च ये ॥
तेषां पुत्त्राश्च पौत्त्राश्च दयया समभिप्लुताः ।यथ श्राद्धं प्रतन्वन्ति विष्णुनामप्रतिष्ठितं ॥
तथा ते संप्रवक्ष्यामि नमस्कृत्य स्वयम्भुवे” ।इति हेमाद्रौ वृद्धशातातपेनोक्तम् ॥
“आत्मनो घातशुद्ध्यर्थं चरेच्चान्द्रायणद्वयं ।तप्तकृच्छ्रचतुष्कञ्च त्रिंशत् कृच्छ्राणि वा पुनः ॥
अर्ब्बाक् संवत्सरात् कुर्य्याद्दहनादि यथोदितं ।कृत्वा नारायणवलिमनित्यत्वात्तदायुषः” ॥
इदञ्चात्मबधनिमित्तं तज्जातिबधप्रायश्चित्तेन समु-च्चितं कार्य्यम् । इति निर्णयसिन्धौ ५ परिच्छेदः ॥
अन्यत् पतितशब्दे द्रष्टव्यम् ॥
* ॥
आत्मत्यागिषुविशेषमाह गौतमः । “प्रायोऽनाशकशस्त्राग्नि-विषोदकोद्बन्धनप्रपतनैश्चेच्छताम्” इति । प्रायोमहाप्रस्थानं । अनाशकमनशनं । प्रपतनं शैल-शिखरादवपातनं । इत्यादिनिमित्तैः शास्त्रावि-हितमार्गेण इच्छापूर्व्वकमृतानामशौचादिकं नकर्त्तव्यमित्यर्थः । अङ्गिराः ।“चाण्डालादुदकात् सर्पात् ब्राह्मणाद्वैद्युतादपि ।दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्म्मिणां ॥
उदकं पिण्डदानञ्च प्रेतेभ्यो यत् प्रदीयते ।नोपतिष्ठति तत्सर्व्वं अन्तरीक्षे विनश्यति” ॥
यथा मनुः ।“वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठतां ।आत्मनस्त्यागिनां चैव निवर्त्तेतोदकक्रिया” ॥
वृथासङ्करजातानामिति वृथाजाताः पञ्चमहा-यज्ञादिरहिताः । सङ्करजाताः प्रतिलोमजाः ॥
* ॥
प्रमादात् पूर्व्वोक्तनिमित्तैर्म्मरणे विद्यते एवा-शौचादिकं । अतएवाङ्गिराः ।“अथ कश्चित् प्रभादेन म्रियेताग्न्युदकादिभिः ।तस्याशौचं विधातव्यं कर्त्तव्या चोदकक्रिया” ॥
चाण्डालादिमृताहिताग्नेरग्न्रादीनां प्रतिपत्तिकर्म्मच स्मृत्यन्तरेऽभिहितं ।“वैतानं प्रक्षिपेदप्सु आवसथ्यं चतुष्पथे ।पात्राणि तु दहेदग्नौ यजमाने वृथामृते” ॥
वृथामृतः अविहितमार्गेण मृतः । तथा, --“आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया ।तेषामपि च गड्गायास्तीरे संस्थापनं मतं” ॥
गङ्गेति पुण्यनद्युपलक्षणं ॥
* ॥
एवं पूर्व्वोक्त-निन्दितमरणे मृतानां स्नेहादिनाग्न्याद्यौर्द्ध्वदेहिक-करणे स्मृत्यन्तरे प्रायश्चित्तमाम्नातं ।“कृत्वाग्निमुदकं स्नानं स्पर्शनं हवनं तथा ।“रज्जुच्छेदाश्रुपातञ्च तप्तकृच्छ्रेण शुद्ध्यति” ॥
इति ।एतच्च बुद्धिपूर्व्वे प्रत्येकमग्न्यादिकरणे ॥
अबुद्धिपूर्व्वके तु संवर्त्तः ।“एषामन्यतमं प्रेतं यो वहेत दहेत वा ।कटोदकक्रियां कृत्वा कृच्छ्रं सान्तपनं चरेत्” ॥
यच्च सुमन्त्वादिर्मासं भैक्षाहारस्त्रिसवनञ्च ।तथा एकरात्राभोजनादिकं चाभिहितं तदशक्त-विषये देशकालाद्यपेक्षानुसारेण योजनीयं ॥
* ॥
यस्तु वृद्धादिर्लुप्तभिषक्क्रियस्तस्यात्महननमप्यनु-ज्ञातमादिपुराणे ।“वृद्धः शौचस्मृतेर्लुप्तः प्रत्याख्यातभिषक्क्रियः ।आत्मानं घातयेद्यस्तु भृग्वन्यनशनाम्बुभिः ॥
तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिसञ्चयः ।तृतीये तूदकं कृत्वा चतुर्थे श्राद्धमारभेत्” ॥
तथा, --“गच्छेत् महापथं वापि तुषारगिरिमादरात् ।प्रयागे वटशाखायां देहत्यागं करोति यः ॥
स्वयं देहविनाशस्य काले प्राप्ते महामतिः ।उत्तमान् प्राप्नुयाल्लोकान्नात्मघाती भवेत् क्वचित् ॥
एतेषामधिकारस्तु सर्व्वेषां सर्व्वजन्तुषु ।नराणामथ नारीणां सर्व्ववर्णेषु सर्व्वदा ॥
अशौचं स्यात् त्र्यहं तेषां वज्रानलहतेषु च ।वाराणस्यां म्रियेद्यस्तु प्रत्याख्यातभिषक्क्रियः ॥
प्रणवं तारकं ब्रूते नान्यथा कस्यचित् क्वचित्” ।विवस्वान् ।“सर्व्वेन्द्रियविमुक्तस्य स्वव्यापाराक्षमस्य च ।प्रायश्चित्तमनुज्ञातमग्निपातो महापथः” ॥
धर्म्मार्ज्जनासमर्थस्य द्वादशवार्षिकादिरूपप्राय-श्चित्तासमर्थस्य । एवं शास्त्राविहितमार्गेण मृता-नां चाण्डालादिमृतानां संवत्सरादूर्द्ध्वमौर्द्ध्वदेहिकंकार्य्यं । षट्त्रिंशन्मते ।“गोब्राह्यणहतानाञ्च पतितानां तथैव च ।ऊर्द्धं संवत्सरात् कुर्य्यात् सर्व्वमेवौर्द्ध्वदेहिकं” ॥
* ॥
अत्रापरं विशेषमाह पराशरः ।“चाण्डालेन श्वपाकेन गोभिर्व्विप्रैर्हतो यदि ।आहिताग्निर्मृतो विप्रो विशेषेणात्मघातकः ॥
दहेत ब्राह्मणं विप्रो लोकाग्नौ मन्त्रवर्ज्जितं ।दग्ध्वास्थीनि पुनर्गृह्य क्षीरेण क्षालयेत्ततः ॥
स्वेनाग्निना स्वमन्त्रेण पृथगेतत् पुनर्द्दहेत्” ॥
* ॥
संवत्सरादर्व्वागपि तत्तत्पापानुसारेण द्विगुणादि-प्रायश्चित्तं विधाय नारायणवलिञ्च कृत्वा और्द्ध्व-देहिकं कार्य्यं । आयुषोऽनित्यत्वेन संवत्सरानन्तर-मौर्द्ध्वदेहिकादिलोपप्रसङ्गात् । तच्च नारायण-वलिं कृत्वा । तथा च वृद्धयाज्ञवल्क्यः ।“नारायणवलिः कार्य्यो लोकगर्हाभयान्नरैः ।तथा तेषां भवेत् शौचं नान्यथेत्यब्रवीद्यमः” ॥
नारायणवलौ कृते ऐर्द्ध्वदेहिककरणे भवती-त्यर्थः ॥
* ॥
सर्पहते तु विशेषः । संवत्सरं यावत्पञ्चम्यां नागपूजां विधाय तदनन्तरं नारायण-वलिं कृत्वा सौवर्णनागं प्रत्यक्षां गाञ्च व्यासोद्दे-शेन ब्राह्मणाय दत्त्वा ऐर्द्ध्वदेहिकं कुर्य्यात् ॥
* ॥
नारायणवलिस्वरूपञ्च विष्णुनाभिहितं ।“एकादशीं समासाद्य शुक्लपक्षस्य वै तिथिं ।विष्णुं समर्च्चयेद्देवं यमं वैवस्वतं तथा ॥
दशपिण्डान् घृताभ्यक्तान् दर्भेषु मधुसंयुतान् ।तिलमिश्रान् प्रदद्याद्वै संयतो दक्षिणामुखः ॥
विष्णुं बुद्धौ समासाद्य नद्यम्भसि ततः क्षिपेत् ।नामगोत्रग्रहं कृत्वा पुष्पैरभ्यर्च्चनं ततः ॥
धूपदीपप्रदानञ्च भक्ष्यभोज्यं तथापरं ।विद्यातपःसमृद्धान् वै कुलोत्पन्नान् समाहितान् ॥
निमन्त्रयेत विप्रान् वै पञ्च सप्त नवापि वा ।अपरेऽहनि सम्प्राप्ते मध्याह्ने समुपोषितः ॥
विष्णोरभ्यर्च्चनं कृत्वा विप्रांस्तानुपवेशयेत् ।उदङ्मुखान् यथाज्येष्ठं पितृरूपमनुस्मरन् ॥
मनो निवेश्य विष्णौ वै सर्व्वं कुर्य्यादतन्द्रितः ।आवाहनादि यत् प्रोक्तं दैवपूर्व्वं तदाचरेत् ॥
तृप्तान् ज्ञात्वा ततो विप्रस्तृप्तिं पृष्ट्वा यथाविधि ।हविष्यव्यञ्जनेनैव तिलादिसहितेन च ॥
पञ्च पिण्डान् प्रदद्याच्च दैवरूपमनुस्मरन् ।प्रथमं विष्णवे दद्यात् ब्रह्मणे च शिवाय च ॥
यमाय सानुसाराय चतुर्थं पिण्डमुत्सृजेत् ।मृतं संकीर्त्य मनसा गोत्रपूर्व्वमतःपरं ॥
विष्णोर्नाम गृहीत्ववं पञ्चमं पूर्व्ववत् क्षिपेत् ।विप्रानाचम्य विधिवत् दक्षिणाभिः समर्च्चयेत् ॥
एकं वृद्धतमं विप्रं हिरण्येन समर्च्चयेत् ।गवा वस्त्रेण भूम्या च प्रेतं तं मनसा स्मरेत् ॥
ततस्तिलाम्भो विप्रास्तु हस्तैर्द्दर्भसमन्वितैः ।क्षिपेयुर्गोत्रपूर्व्वन्तु नाम बुद्धौ निवेश्य च ॥
हविर्गन्धतिलाम्भस्तु तस्मै दद्युः समाहिताः ।मित्रभृत्यजनैः सार्द्धं पश्चाद्भुञ्जीत वाग्यतः” ॥
भविष्यपुराणे ।“सुवर्णतारनिष्पन्नं नागं कृत्वा तथैव गां ।व्यासाय दत्त्वा विधिवत् पितुरानृण्यमाप्तवान्” ॥
इति मदनपारिजाते ५ स्तवकः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
