| YouTube Channel

आत्मकामः (AtmakAmaH)

 
E Bharati Sampat
Sanskrit
(पुंवि) आत्मानमेव कामयते आत्म+कमु(कान्तौ)+अण् ‘कर्मण्यण्’ ३.२.१। १.आत्मज्ञानेच्छुः मुमुक्षुः इति वा ‘योऽकामोनिष्काम आप्तकाम आत्मकामः तस्य प्राणाः उत्क्रामत्ति’ बृ०उ०। २.स्वविषयाभिलाषाविरक्तः।