| YouTube Channel

आत्मंभरिः (AtmaMbhariH)

 
E Bharati Sampat
Sanskrit
(पुं)(वि) आत्मानं बिभर्ति आत्मन्+डुभृञ्(धारणपोषणयोः)+इन्+मुम् ‘फलेग्रहिरात्मंभरिश्च’ ३.२.२६, ‘भृञः कुक्ष्यात्मनोर्मुम् च’ वा०। स्वोदरपूरकः, आत्मोदरमात्रभरणकर्ता, स्वार्थपरः। ‘आत्मंभरिस्त्वं पिशितैर्नराणाम्’ भट्टिः२.३३। ‘शिष्टैरप्यविशज्ञः उग्रं कृतनाशकः। त्यज्यते किं पुनर्नान्यैः पत्राप्यात्मं भरिर्नरः’ हितो०। ‘उभौ आत्मंभरिः कुक्षिभरिः स्वोदरपूरके’ अमरः ३.१.२१।