| YouTube Channel

आतुर्य्य (Aturyya)

 
वाचस्पत्यम्
Sanskrit
आतुर्य्य
न०
आतुरस्य भावः ष्यञ् आतुरत्वे फलनाशकेज्वरांशभेदे “ज्वरांशाश्च वस्तुभेदेन नानाविधाः” हरि०१८३ अध्या० दर्शिताः “कृष्णौवाच शृणुष्व ज्वर सन्देशंयथा लोके चरिष्यसि सर्व्वजातिषु विन्यस्तस्तथा स्थावरजङ्गमे त्रिधा विभज्य चात्मानं मत्प्रियं यदि काङ्क्षसे ।चतुप्पदान् भजैकेन द्वितीयेन स्थावरान् तृतीयोयश्चतुर्भागो मानुषेषु प्रपत्स्यसे त्रिधा भूतं वपुः कृत्वापक्षिषु त्वं भव ज्वर! चतुर्थो यस्तृतीयस्य भविष्यति तेध्रुवम् एकान्ततश्चतुर्भागः खीरकश्च चतुर्थकः मानुषे-ष्वेकपादेन वस त्वं प्रविभज्य वै जातिष्वथ विशेषासुशिवसत्वं शृणुष्व मे वृक्षेषु कीटरूपेण तथा सङ्कोचपत्रकः पाण्डुपत्रश्च विख्यातः फलेष्वातुर्य्यमेव चपद्मिनोषु हिमोभूत्वा पृथिव्यामपि चोषरः अपान्तुपीलिकां विद्याः शिखोद्भेदश्च वर्हिणाम् गैरिकः पर्वते-ष्वेव मत्प्रसादाद्भविष्यसि गोष्वपस्मारको भूत्वा खोरकश्चभविष्यसि एवं विविधरूपेणभविष्यसि महीतले दर्शनात्स्पर्शनाच्चैव प्राणिनां बधमेष्यसि ऋते देवमनुष्यांश्चनान्यस्तां विषहिष्यते” “आतुर्य्यं जालकैकदेशेसङ्कोचः नीलकण्ठः