| YouTube Channel

आतुरोपद्रव (Aturopadrava)

 
वाचस्पत्यम्
Sanskrit
आतुरोपद्रव
पु०
त० आतुरस्य उपद्रवे ते उपद्रवासंप्रतीकारोपायाः सुश्रुते दर्शिता यथा“अथात आतुरोपद्रवचिकित्सितं व्याख्यास्यामः स्नेह-पीतस्य वान्तस्य विरिक्तस्य स्रुतासृजः निरूढस्य काया-ग्निर्मन्दो भवति देहिनः
सोऽन्नैरत्यर्थगुरुभिरुपयुक्तैःप्रशाम्यति अल्पोमहद्भिर्बहुभिश्छादितोऽग्निरिवेन्धनैः
सचाल्पैर्लघुभिश्चान्नैरुपयुक्तैर्विवर्द्धते काष्ठैरणुभिरल्पैश्चसन्धुक्षित इवानलः हृतदोषप्रमाणेन सदाहारविधिःस्मृतः त्रीणि चात्र प्रमाणानि प्रस्थोऽर्द्धाढकमाढकम्
तत्रावरं प्रस्थमात्रं द्वे शेषे मध्यमोत्तमे
प्रस्थे परिस्रुतेदेया यवागूः स्वल्पतण्डुला द्वे चैवार्द्धाढके देया तिस्रश्चा-प्याढके गते
विलेपीमुचिताद्भक्ताच्चतुर्थांशकृतां ततः ।दद्याद्युक्तेन विधिना क्लिन्नसिक्थामपिच्छिलाम्
अस्नि-ग्वलवणां स्वच्छमुद्गयूषयुतान्ततः अंशद्वयप्रमाणेन दद्या-त्सुस्निग्धमोदनम्
ततः सघृतमन्नेन हृद्येनेन्द्रियबा-धिना त्रीनंशान् वितरेद्भोक्तुमातुरायौदनं मृदुम् ततोयथोचितं भक्तम्भोक्तुमस्मै विचक्षणः
लावणैर्हरिणादीनांरसैर्द्दद्यात्सुसंस्कृतैः हीनमध्योत्तमेष्वेव विरेकेषु विधिःस्मृतः
एकद्वित्रिगुणः सम्यगाहारस्य क्रमो हि सः ।कफपित्ताधिकान्मद्यनित्यान्हीनविशोधितान्
पेयाभिष्य-न्दवत्तेषां तर्पणादिक्रमो हितः वेदनालाभनियमशोक-वैचित्त्यहेतुभिः
नरानुपोषितांश्चापि विरक्तवदुपाचरेत् ।आढकार्द्धाढकप्रस्थसङ्ख्या ह्येषा विरेचने
एको विरेकःश्लेष्मान्तो द्वितीयोऽस्ति कश्चंन बलं यत्त्रिविधं प्रोक्त-मतस्तत्र क्रमस्त्रिधा
तत्रानुक्रममेकन्तु बलस्थः सकृदा-चरेत् द्विराचरेन्मध्यबलस्त्रीन्वारान्दुर्ब्बलस्तथा
केचि-देवं क्रमं प्राहुर्मन्दमध्योत्तमाग्निषु संसर्गेण विवृद्धेऽग्नौदोषकोपभयाद्भजेत्
प्राक्स्वादुतिक्तौ स्निग्धाभ्ललवणान्-कटकं ततः स्वाद्वस्ललवणान्भूयः स्वादुतिक्तावतः परम्
स्निग्धरूक्षान्रसांश्चैव व्यत्यासात्स्वस्थवत्ततः केवलं स्नेह-पीतो वा वान्तो यश्चापि केवलम्
सप्तरात्रं मनुजोभुञ्जोत लघु भोजनम् कृतः सिराव्यधो यस्य कृतं यस्यच शोधनम्
ना परिहरेन्मासं यावद्वा बलवान्भवेत् ।एकैकस्मिन्परिहरेद्वस्तौ वस्तौ त्र्यहं त्र्यहम्
तृतीये तुपरीहारे यथायोगं समाचरेत् तैलपूर्णाममृद्भाण्डसध-र्माणो व्रणातुराः
स्निग्धशुद्धाक्षिरोगार्त्ता ज्वरातीसा-रिणश्च ये क्रुध्यतः कुपितं पित्तं कुर्य्यात्तांस्तानुपद्रवान्
आयास्यतः शोचतो वा चित्तं विभ्रममृच्छति मैथुनोप-गमाद्घोरान् व्याधीनाप्नोति दुर्मतिः
आक्षेपकं पक्षघात-मङ्गप्रग्रहमेव गुह्यप्रदेशे श्वयथुं कासश्वासौ दा-रुणौ
शुक्रवच्चापि रुधिरं सरजस्कं प्रवर्त्तते लभते चदिवास्वप्नात्तांस्तान् व्याधान् कफात्मकान्
प्लीहोदरं प्रति-श्यायं पाण्डुतां श्वयथुं ज्वरम् मोहं सदनमङ्गानाम-विपाकं तथाऽरुचिम्
तमसा चाभिभूतस्तु स्वप्नमेवाभिन-न्दति उच्चैः सम्भाषणाद्वायुः शिरस्यापादयेद्रुजम्
आन्ध्यं जाड्यमजिघ्रत्वं बाधिर्य्यं मूकतां तथा
हनुमोक्ष-मधीमन्थं मर्द्दितञ्च सुदारुणम् नेत्रस्तम्भं निमेषं वातृष्णां कासं प्रजागरम्
लभते दन्तचालं तांस्तांश्चा-न्यानुपद्रवान् यानयानात्तु लभते च्छर्द्दिमूर्च्छाभ्रमक्ल-मान्
तथैवाङ्गग्रहं घोरमिन्द्रियाणाञ्च विभ्रमम् चि-रासनात्तथा स्नानाच्छ्रोण्यां भवति वेदना
अतिचङ्क्रम-णाद्वायुर्जङ्घयोः कुरुते रुजः सक्थिप्रशोषं शोफं वापादहर्षमथापि वा
शींतसम्भोगतोयानां सेवा मारुतवृ-द्धये ततोऽङ्गमर्द्दविष्टम्भशूलाध्मानप्रवेपकाः
वातात-पाभ्यां वैवर्ण्यं ज्वरं चापि समाप्न्रयात् विरुद्धाध्यशना-न्मृत्युं व्याधिं वा घोरमृच्छति
असात्म्यभोजनं हन्या-द्बलवर्णमसंशयम् अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः
रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि व्यापदांकारणं वीक्ष्य व्यापत्स्वेतासु बुद्धिमान्
प्रयतेतातुरारोग्येप्रत्यनीकेन हेतुना
विरिक्तवान्तैर्हरिणैणलावकाः शशश्चसेव्यः समयूरतित्तिरिः सषष्टिकाश्चैव पुराणशालयस्तथैवमुद्गा लघु यच्च कीर्त्तितम्”
एवमन्येऽपि ततएवावगम्याः