| YouTube Channel

आतुरोपक्रमणीय (AturopakramaNIya)

 
वाचस्पत्यम्
Sanskrit
आतुरोपक्रमणीय
पु०
आतुरमधिकृत्य रोगनिवारणायउपक्रमणीयम् आतुरस्य चिकित्मार्थमायुर्व्याध्यृत्वग्निवयो-देहबलसत्वसात्म्यप्रकृतिभेषजदेशानुसारेणौपक्रमणीये व्या-पारभेदे तदधि कृत्यकृतोग्रन्थः तत्प्रतिपादकग्रन्थे ।स सुश्रुतान्तर्गतोऽध्यायभेदः तत्रोक्तविशेषं ज्ञात्वावैद्यैरातुरस्य रोगनिवारणायोपक्रमणेयम् चाध्याय-स्तावद्दर्श्यते यथा “अथात आतुरोपक्रवणीयमध्यायम्व्याख्यास्यामः
आतुरमुपक्रममाणेन भिषजायुरवादौ परी-क्ष्येत सत्यप्यायुषि व्याध्यृत्वग्निवयोदेहबलसत्सात्म्यप्रकृति-भेषजदेशान् परीक्षेत
तत्र महापाणिपादपार्श्व पृष्ठस्त-नाग्रदशनवदनस्कन्धललाटम् दीर्घाङ्गुलिपर्व्वोच्छासप्रेक्षण-बाहुम् विस्तोर्ण्णभ्रूस्तनान्तरोरस्कम् ह्रस्वजङ्घामेढ्रग्रीवम्गम्भीरसत्वस्वरनाभिमनुच्चैर्ब्बद्धस्तनमुपचितमहारोमशकर्णम्पश्चान्मस्तिष्कम् स्रातानुलिप्तमूर्द्धानुपूर्व्व्या विशुष्य-माणशरीरम् पश्चाच्च विशुष्यमाणहृदयम् पुरुषम्जानीयाद्दीर्घायुः खल्वयमिति तमेकान्तेनोपक्रमेत् ।एभिर्लक्षणैर्व्विपरीतैरल्पायुर्मिश्रैर्म्मध्यमायुरिति
भवन्तिचात्र
गूढसन्धिसिरास्नायुः संहताङ्गः स्थिरेन्द्रियः ।उत्तरोत्तरसुक्षेत्रो यः दीर्घायुरुच्यते
गर्भात्प्र-भृत्यरोगो यः शनैः समुपचीयते
शरीरज्ञानविज्ञानैःस दीर्घायुः समासतः
मध्यमस्यायुषो ज्ञानमत ऊर्द्ध्वंनिबोध मे अधस्तादक्षिगायस्य लेखाः स्युर्व्यक्तमायताः
द्वे वा तिस्रोऽधिका वापि पादौ कर्णौ मांसलौ ।नासाग्रमूर्द्ध्वञ्च भवेदूर्द्ध्वलेखाश्च पृष्ठतः
यस्य स्युस्तस्यपरममायुर्भवति सप्ततिः जघन्यस्यायुषो ज्ञानमत ऊर्द्ध्वंनिबोध मे
ह्रस्वानि यस्य पर्व्वाणि सुमहच्चापिमेहनम् तथोरस्यवलीढानि नच स्यात्पृष्ठमायतम्
ऊर्द्ध्वञ्च श्रवणौ स्थानान्नासा चोच्च शरीरिणः हसतोजल्पतो वापि दन्तमांसम् प्रदृश्यते प्रेक्षते यश्चविभ्रान्तम् जीवेत्पञ्चविंशतिम्
अथ पुनरायुषोविज्ञानार्थमङ्गप्रत्यङ्गप्रमाणसारानुपदेक्ष्यामः तत्राङ्गान्य-न्तराधिसकिथबाहुशिरांसि तदवयवाः प्रत्यङ्गानीति ।तत्र स्वैरङ्गुलैः पादाङ्गुष्ठप्रदेशिन्यौ द्व्यङ्गुलायते प्रदे-शिन्यास्तु मध्यमाऽनामिका कनिष्ठिका यथोत्तरम् पञ्चम-भागहीना चतुरङ्गुलायते पञ्चाङ्गुलविस्तृते प्रपदपादतले पञ्चचतुरङ्गुलायतविस्तृता पार्ष्णिः चतुर्द-शाङ्गुलायतःपादः चतुर्दशाङ्गुलपरिणाहानि पादगुल्फजङ्घाजानुमध्यानि अष्टादशाङ्गुला जङ्घा जानूपरिष्टांद्द्वात्रिं शदङ्गुलमेवं पञ्चाशत् जङ्घायामसमावूरू ।द्व्यङ्गुलानि वृषणचिवुकदशननासापुटभागकर्ण्णमूलनय-नान्तराणि चतुरङ्गुलानि मेहनवदनान्तरनासाकर्ण्णल-लाटग्रीवोच्छ्रायदृष्ट्यन्तराणि द्वादशाङ्गुलानि भगविस्ता-रमेहननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धप्रकोष्ठ-स्थौल्यानि इन्द्रवस्तिपरिणाहांसपीठकूर्परान्तरायामःषोडशाङ्गुलः चतुर्विंशत्यङ्गुलो हस्तः द्वात्रिंशदङ्गुल-परिमाणौ भुजौ द्वात्रिं शत्परिणाहावूरू मणिबन्धकूर्परा-न्तरं षोडशाङ्गुलम् तलं षट्चतुरङ्गुलायामविस्तारम् ।अङ्गुष्ठमूलप्रदेशिनीश्रवणापाङ्गान्तरमध्यमाङ्गुल्यौ पञ्चा-ङ्गुले अर्द्धचतुरङ्गुले प्रदेशिन्यनामिके सार्द्धत्र्यङ्गुलौकनिष्ठाङ्गुष्ठौ चतुर्विशतिविस्तारपरिणाहं मुखग्रीवम् ।त्रिभागाङ्गुलुविस्तारा नासापुटमर्य्यादा नयनत्रिभागप-रिणाहा तारका नवमस्तारकांशोदृष्टिः केशान्तमस्तकान्त-रमेकादशाङ्गुलम् मस्तकादवटुकेशान्तो दशाङ्गुलः कर्णा-वट्वन्तरं चतुर्दशाङ्गुलम् पुरुषोरःप्रमाणविस्तीर्णा स्त्री-श्रोणिः अष्टादशाङ्गुलविस्तीर्ण्णमुरः तत्प्रमाणा पुरुषस्यकटी सविंशमङ्गुलशतं पुरुषायाम इति भवन्ति चात्र ।पञ्चविंशे ततो वर्षे पुमान् नारी तु षोडशे समत्वा-गतवीर्य्यौ तौ जानीयात् कुशलो भिषक् देहः स्वैर-ङ्गुलैरेष यथावदनुकीर्त्तितः युक्तःप्रमाणेनानेन पुमान्वा यदि वाऽङ्गना दीर्घमायुरवाप्नोति वित्तञ्च महदृ-च्छति मध्यमं मध्यमैरायुर्व्वित्तं हीनैस्तथाऽवरम् अथसारान् वक्ष्यामः स्मृतिभक्तिप्रज्ञाशौर्य्यशौचोपेतं कल्या-णाभिनिवेशं सत्त्वसारं विद्यात् स्निग्धं संहतश्वेतास्यिदन्त-नखं बहुलकामप्रजं शुक्रेण अकृशमुत्तमबलं स्निग्धगम्भीरस्वरं सौभाग्योपपन्नं महानेत्रञ्च मज्ज्ञा महाशिरःस्कन्ध-दृढदन्तहन्वस्थिनखमस्थिभिः, स्निग्धमूत्रस्वेदस्वरं वृहच्छ-रीरमायाससहिष्णुं मेदसा अच्छिद्रगात्रं गूढास्थिसन्धिंमांसोपचितञ्च मांसेन स्निग्धताम्रनखनयनतालुजिह्वौष्ठ-पाणिपादतलं रक्तेन सुप्रसन्नमृदुत्वग्रोमाणं त्व्कसारंविद्यादित्येषां पूर्व्वं पूर्व्वं प्रधानमायुःसौभाग्ययोरपि ।भवति चात्र सामान्यतोऽङ्गप्रत्यङ्गप्रमाणादथ सारतः ।परीक्ष्यायुः सुनिपुणो भिषक् सिध्यति कर्म्मसु व्याधि-विशेषास्तु प्रागभिहिताः सर्व्व एवैते त्रिविधाःसाध्यायाप्याः प्रत्याख्येयाश्च तत्रैतान् भूयस्त्रिधा परीक्षेत कि-मसावौपसर्गिकः प्राक्केवलोऽन्यलक्षण इति तत्रौपसर्गिकोयः पूर्व्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुपसृजतिस तन्मूलएवोपद्रवसंज्ञः प्राक्केवलो यः प्रागेवोत्पन्नोव्याधिरपूर्व्वरूपोऽनुपद्रवश्च अन्यलक्षणो यो भविष्यद्याधि-ख्यापकः पूर्व्वरूपसंज्ञः तत्र सोपद्रवमन्योन्याविरो-धेनोपक्रमेत बलवन्तमुपद्रवं वा प्राक्केवलं यथास्वंप्रतिकुर्व्वीत अन्यलक्षणे त्वादिव्याधौ प्रयतेत भवतिचात्र नास्ति रोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः ।अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत् प्रागभिहिताऋतवः शीते शीतप्रतीकारौष्णे चोष्कनिवारणम् कृत्वाकुर्य्यात् क्रियां प्राप्तां क्रियाकालं हापयेत् अप्राप्तेवा क्रियाकाले प्राप्ते वा कृता क्रिया क्रियाहीना-ऽतिरिक्ता वा साध्येष्वपि सिध्यति यात्युदीर्ण्णंशमयति नान्यं व्याधिं करोति सा क्रिया तुया व्याधिं हरत्यन्यमुदीरयेत् (व्रणप्रश्ने) प्रागभिहितो-ऽग्निरन्नस्य पाचकः चतुर्व्विधो भवति दोषानभिपन्नएको विक्रियामापन्नस्त्रिविधोभवति विषमो वातेन, तीक्ष्णःपित्तेन, मन्दः श्लेष्मणा, चतुर्थः समः सर्वसाम्यादिति ।तत्र यो यथा कालमन्नमुपयुक्तं सम्यक्पचति समःसमैर्दोषैः यः कदाचित्सम्यक्पचति कदाचिदाध्मानशू-लोदावर्त्तातिसारजठरगोरवान्त्रकूजनप्रवाहणानि कृत्वा सविषमः यः प्रभूतमप्युपयुक्तमन्नमाशु पचति तीक्ष्णः सएवाभिवर्द्धमानोऽत्यग्निरित्याभाष्यते मुहुर्मुहुः प्रभूत-मप्युपयुक्तमाशुतरं पचति पाकान्ते गलताल्वोष्ठशोषदा-हसन्तापान् जनयति यःस्वल्पमप्युपयुक्तमुदरशिरोगौरवका-सश्वासप्रसेकच्छर्दिगात्रसदनानि कृत्वा महता कालेन पचतिस मन्दः विषमो वातजान् रोगान् तीक्ष्णः पित्तनि-मित्तजान् करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् ।तत्र समे परिरक्षणं कुर्व्वीत, विषमे स्निग्धाम्ललवणैः क्रि-याविशेषैः प्रतिकुर्व्वीत, तीक्ष्णे मधुरस्निग्धशीतैर्व्विरेकैश्च, एवमेवात्यग्नौ विशेषेण माहिषैश्च क्षीरदधिसर्पिर्भिर्मन्देकटुतिक्तकषायैर्वमनैश्च जाठरो भगवानग्निरीश्वरोऽन्नस्यपाचकः सौक्ष्म्याद्रसानाददानो विवेक्तुं नैव शक्यते ।प्राणापानसमानैस्तु सर्व्वतः पवनैस्त्रिभिः ध्मायतेपाल्यते चापि स्वे स्वे स्थाने व्यवस्थितैः वयस्तुत्रिविधम् बालम् मध्यम् वृद्धमिति तत्रोनषो-डशवर्षा बालास्तेऽपि त्रिविधाः क्षीरपाः क्षीरान्नादाअन्नादाइति तषु संबत्सरपराः क्षीरपा द्विसंवत्सरपराःक्षीरान्नादाः परतोऽन्नादा इति
षोडशसप्तत्योरन्तरेमध्यम् वयस्तस्य विकल्पी वृद्धिर्य्यौवनम् संपूर्ण्णता हानि-रिति तत्रा विंशतेर्वृद्धिः, त्रिंशतो यौवनम्, चत्वा-रिंशतःसर्व्वधात्विन्द्रियबलवीर्य्यसम्पूर्णता अतऊर्द्ध्वमीषत्परिहाणिर्य्यावत्सप्ततिरिति सप्ततेरूर्द्ध्वंक्षीयमाणधात्विन्द्रि-यबलवोर्य्योत्साहमहन्यहनि वलीपलितखालित्यजुष्टं का-सश्वासप्रभृतिभिरुपद्रवैरभिभूयमानम् सर्व्वक्रियास्वसम-र्थम् जीर्णागारमिवाभिवृष्टमवसीदन्तम् वृद्धमाचक्षते
तत्रोत्तरोत्तरासु वयोऽवस्थासूत्तरोत्तरा भेषजमात्रा-विशेषा भवन्त्यृते परिहाणेस्तत्राद्यापेक्षया प्रतिकुर्वीत ।भवन्ति चात्र
बाले विवर्द्धते श्लेष्मा मध्यमे पित्तमेव तु ।भूयिष्ठं वर्द्धते बायुर्वृद्धे तद्वीक्ष्य योजयेत्
अग्निक्षार-विरेकैस्तु बालवृद्धौ विवर्जयेत् तत्साध्येषु विकारेषुमृद्वीम् कुर्य्यात्क्रियाम् शनैः
देहः स्थूलः कृशो मध्यइति प्रागुपदिष्टः कर्शयेद्वृंहयेच्चापि सदा स्थूलकृशौनरौ रक्षणञ्चैव मध्यस्य कुर्व्वीत सततम् भिषक्
बलमभिहितगुणम् दौर्ब्बल्यञ्च स्वभावदोषजरादिभिरवे-क्षितव्यम्
यस्माद्बलवतः सर्व्वक्रियाप्रवृत्तिस्तस्माद्बलमेव-प्रधानमधिकरणानाम्
केचित् कृशाः प्राणवन्तः स्थूला-श्चाल्पबला नराः तंस्मात् स्थिरत्वव्यायामैर्ब्बलं वैद्यःप्रतर्कयेत्
सत्वन्तु व्यसनाभ्युदयक्रियादिस्थानेप्ववैकल्य-करम् सत्त्ववान् सहते सर्व्वं संस्तभ्यात्मानमात्मना ।राजसः स्तभ्यमानोऽन्यैः सहते नैव तामसः
प्रकृतिम्भेषजम् चोपरिष्टाद्वक्ष्यामः
सात्म्यानि तु देशकालजात्युतुरोगव्यायामोदकदिवास्वप्नरसप्रभृतीनि प्रकृतिविरुद्धान्यपियान्यबाधकराणि भवन्ति यो रसः कल्पते यस्य सुखायैवनिषेवितः व्यायामजातमन्यद्वा तत्सात्म्यमिति निर्दि-शेत्
देशस्त्वानूपो जाङ्गलः साधारण इति
तत्र बहू-दकनिम्नोन्नतनदीवर्षगहनो मृदुशीतानिलो बहुमहापर्व-तवृक्षो मृदुसुकुमारोपचितशरीरमनुष्यप्रायः कफवातरीगभू-यिष्ठश्चानूपः
आकाशसमः प्रविरलाल्पकण्टकिवृक्षप्रायो-ऽल्पवर्षप्रस्रवणोदपानोदकप्रायौष्णदारुणवातः प्रविरला-ल्पशैलः स्थिरकृशशरोरमनुष्यप्रायोवातपित्तरोगभूयिष्ठश्चजाङ्गलः
उभयदेशलक्षणः साधारण इति
भवन्तिचात्र
समाः साधारणे यस्माच्छीतवर्षोष्ममारुताः ।दोषाणाम् समता जन्तोस्तस्मात्साधारणो मतः
तथाबलवन्तः स्युर्जलजा वा स्थलाहृताः स्वदेशे निचिता दोषाअन्यस्मिन् कोपमागताः
उचिते वर्त्तमानस्य नास्तिदेशकृतम् भयम् आहारस्वप्नचेष्टादौ तद्देशस्य गुणे सति ।देशप्रकृतिसात्म्यर्त्तुविपरीतोऽचिरोत्थितः सम्पत्तौ भिष-गादीनां बलसत्वायुषां तथा
केवलः समदेहाग्नेःसुखसाध्यतमो गदः अतोऽन्यथा त्वसाध्यः स्यात् कृच्छ्रोव्यामिश्रलक्षणः
क्रियायास्तु गुणालाभे क्रियामन्यांप्रयोजयेत् पूर्व्वस्यां शान्तवेगायां क्रियास ङ्करोहितः
गुणालाभेऽपि सपदि यदि सैव क्रिया हिता ।कर्त्तव्यैव तदा व्याधिः कृच्छ्रसाध्यतमो यदि
यए वमेनंविधिमेकरूपं बिभर्त्ति कालादिवशेन धीमान् मृत्यु-पाशान् जगतो गदौघान्छिनत्ति भैषज्यपरश्वधेन”