आतिवाहिक (AtivAhika)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishआतिवाहिक [ātivāhika], [अतिवाहे नियुक्तः ठक्] Employed to convey to the other world
आतिवाहिकास्तल्लिङ्गात् Br. Sūt. 4.3.4. -कम् An epithet of the Sūkṣma Śarira (in Sān. Phil.) from its surpassing the wind in swiftness.
Apte 1890
EnglishMonier Williams Cologne
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaआतिवाहिक
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಈ ಲೋಕದಿಂದ ಲೋಕಾಂತರಕ್ಕೆ ಕರೆದುಕೊಂಡು ಹೋಗಲು ನೇಮಿಸಲ್ಪಟ್ಟ
निष्पत्तिः - > "ठक्" (४-४-६९)
व्युत्पत्तिः - > अतिवाहे इहलोकात् परलोकप्रापणे नियुक्तः
Indian Epigraphical Glossary
Englishवाचस्पत्यम्
Sanskritआतिवाहिक अतिवाहे इहलोकात् परलोकप्रापणेनियुक्तः ठक् । एतल्लोकात् परलोकप्रापणे ईश्वरनियुक्तेअर्चिराद्यभिमानिदेवगणे धूमाद्यभिमानिदेवगणे च ।“आतिवाहिकास्तल्लिङ्गात्” शा० सू० । अतिवाहने नियु-क्ताश्च द्विविधाः दक्षिणमार्गे उत्तरमार्गे च तत्र कर्मिणांदक्षिणमार्गेण ज्ञानिनाञ्चोत्तरमार्गेण गमनात् तत्रनयनाय ईश्वरनियुक्ता धूमादयः अर्च्चिरादयश्च ते चछा० उ० दर्शिता यथा ।“अथ य इमे ग्राम इष्टापूर्त्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपरपक्षनपरपक्षाद्यान्षड्द-क्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति मासेभ्यःपितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमोराजा तद्देवानाभन्नं तं देवा भक्षयन्ति” । “इष्टापूर्त्तेइष्टमग्निहोत्रादि वैदिकं कर्म्म, पूर्व्वं वापीकूप-तडागारामादिकरणम् । दत्तं च बहिर्वेदि, यथाशक्त्य-र्हेम्यो द्रव्यसम्भागो दत्तम् । इत्येवंविधं परिचरण-परित्राणाद्युपासते । इतिशब्दस्य प्रकारदर्शनार्थत्वात् ।ते दर्शनवर्ज्जितत्वाद्धूमं धूमाभिमानिनीं देवतामाभिमुख्येनसम्भवन्ति प्रतिपद्यन्ते । तयाऽतिवाहिता धूमाद्रात्रिं रात्रि-देवतां, रात्रेरपरपक्षदेवताम्, एवमेव कृष्णपक्षाभिमानिनीम-परपक्षात् यान् षण्मासान् दक्षिणा दक्षिणां दिशमेतिसविता तान् मासान् दक्षिणायनान् षण्मासाभिमानि-नीर्देवताः प्रतिपद्यन्त इत्यर्थः । सङ्घचारिण्यो हि षण्मा-सदेवता इति मासानिति बहुवचनप्रयोगस्तासु । नैतेकर्म्मिणः प्रकृताः संवत्सरं संवत्सराभिमानिर्नी देवताम-भिप्राप्नुवन्ति । कुतः पुनः संवत्सरपाप्तिप्रसङ्गो यतः प्रति-षिध्यते । अस्ति हि संवत्सरस्य प्रसङ्गोह्येकस्यावयवभूतेदक्षिणोत्तरायणे तत्रार्चिरादिमार्गप्रवृत्तानामुदगयनमासे-भ्योऽवयविनः संवत्सरस्य प्राप्तिरुक्ता । अत इहापि तदव-यवभूतानां दक्षिणायनमासानां प्राप्तिं श्रुत्वा तदवयविनःसंवत्सरस्यापि पूर्व्ववत्प्राप्तिरापन्नेत्यतस्तत्प्राप्तिः प्रतिषिध्यतेनैते संवत्सरमभिप्राप्नुवन्तीति । मासेभ्यः पितृलोकं, पितृ-लोकादाकाशमाकाशाच्चन्द्रमसम् । कोऽसौ यस्तैः प्राप्यःचन्द्रमाः य एष दृश्यतेऽन्तरिक्षे सोमो राजा ब्राह्मणानांतदन्नं देवानां तं चन्द्रमसमन्नं देवता इन्द्रादयो भक्षयन्ति ।अतस्ते धूमादिना गत्वा चन्द्रभूताः कर्म्मिणो देवैर्भक्ष्यन्तेनन्बनर्थायेष्टादिकरणं यद्यन्नभूता देवैर्भक्ष्येरन् नैष दोषः ।अन्नमित्युपकरणमात्रस्य विविक्षतत्वात् । न हि ते कवलो-त्क्षेपेण देवैर्भक्ष्यन्ते । किं तर्ह्युपकरणमात्रं देवानांभवन्ति ते स्त्रीपशुभृत्यादिवत् । दृष्टश्चान्नशब्द उप-करणेषु स्त्रियोऽन्नं पशवोऽन्नं राज्ञामित्यादि । न चतेषां स्त्र्यादीनां पुरुषोपभोग्यत्वेऽप्युपभोगो नास्ति ।त मात्कर्मिणो देवतानामुपभोग्या अपि सन्तः सुस्विनो देवैःक्रीडन्ते । शरीरञ्च तेषां तेषूपभोगयोग्यं चन्द्रम-ण्डले आप्यमारभ्यते । तदुक्तं “पुरस्ताच्छ्रद्धा शब्दा आपोद्युलोकाग्नौ हुताः सोमो राजा सम्भवन्तीति” । ता आपःकर्म्म समवायिन्य इतरैश्च भूतैरनुगताः द्युलोकं प्राप्य चन्द्र-त्वमापन्नाः शरीराद्यारम्भिका इष्टाद्युपासकानां भवन्ति ।इति” भा० पितृयानःपन्था दर्शितः देवयानस्तु ।“अथ यदु चैवास्मिञ्छव्यं कुर्व्वन्ति यदि च नार्च्चिषमेवाभि-सम्भवन्त्यर्च्चिषोऽहरह्न आपूर्य्यमाणपक्षमापूर्य्यमाणपक्षा-दुयान् षडुदङ्ङेति मासांस्तान्मासेभ्यः संवसत्सरं, संवत्सरा-दादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवःस एतान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्य-माना इमं मानवमावर्त्तं नावर्त्तन्ते नावर्त्तन्ते” “अथेदानींयथोक्तब्रह्मविदो गतिरुच्यते यद्यदि उ च एवास्मान्नेवं-विदि शव्यं शवकर्म्म मृते कुर्व्वन्ति यदि च न कुर्व्वन्तिऋत्विजः, सर्व्वथाप्येवंवित्तेन शवकर्म्मणा अकृतेनापि नप्रतिबद्धो ब्रह्म प्राप्नोति न च कृतेन शवकर्म्मणाऽस्य कश्च-नाभ्यधिको लोकः “न कर्म्मणा वर्द्धते नो कनीयानिति”श्रुत्यन्तरात् । शवकर्म्मण्यनादरं दर्शयन् विद्यां स्तौति, नपुनः शवकर्म्म एवंविदो न कर्त्तव्यमिति । अक्रियमाणे हिशवकर्म्मणि कर्म्मणां फलारम्भे प्रतिबन्धः कश्चिदनुमीयतेअन्यत्र । यत इह विद्याफलारम्भकाले शवकर्म्म स्याद्वान वेति विद्यावतोऽप्रतिबन्धेन फलारम्भं दर्शयति । येसुखाकाशमक्षिस्थं संयद्वामनीत्वेनोपासते प्राण-सहितामग्निविद्यां, तेषामन्यत्कर्म्म भवतु मा वा भूत्सर्व्वथापि तेऽर्च्चिषमेवाभिसम्भवन्त्यर्च्चिरभिमानिनीं देवता-मभिसम्भवन्ति प्रतिपद्यन्त इत्यर्थः । अर्च्चिषोऽर्च्चिर्देव-ताया अहरहरभिमानिनीं देवतामह्न आपूर्य्यमाणपक्षंशुक्लपक्षदेवतामापूर्य्यमाणपक्षान् षण्मासानुदङ्ङुत्तरांदिशमेति सविता तान्मासानुत्तरायणदेवतां, तेभ्यो मासेभ्यःसंवत्सरं संवत्सरदेवतां ततः संवत्सरादादित्यमादित्याच्चन्द्र-मसं चन्द्रमसो विद्युतं तत्तत्स्थांस्तान् पुरुषः कश्चिद्ब्रह्म-लोकादेत्यअमानवो मानव्यां सृष्टौ भवो मानवो न मानवोऽ-ऽमानवः स पुरुष एतान् ब्रह्म सत्यलोकस्थं गमयति ग-न्तृगन्तव्यगमयितृत्वव्यपदेशेभ्यः । सन्मात्र ब्रह्मप्राप्तौ तद-नुपपत्तेः । “ब्रह्मैव सन् ब्रह्माऽप्येतीति हि वक्तुं न्याय्यम् ।सर्व्वभेदनिरासेन सन्मात्रप्रतिपत्तिं वक्ष्यति । न चादिष्टोमार्गो गमनायोप्रतिष्ठते । “स एनमविदितो न भुनक्तीति”श्रुत्यन्तरात् । एष देवपथो देवैरर्चिरादिभिर्गमयितृत्वेना-धिकृतैरुपलक्षितः पन्था देवपथ उच्यते । ब्रह्म गन्तव्यं तेनचोपलक्षित इति ब्रह्मपथः । एतेन प्रतिपद्यमाना गच्छन्तोब्रह्म इमं मानवं मनुसम्बन्धिनं मनोः सृष्टिलक्षणमा-वर्त्तं नावर्त्तन्ते । आवर्त्तन्तेऽस्मिन् जननमरणप्रबन्धचक्रा-रूढा घटीयन्त्रवत् पुनः पुनरित्यावर्त्तस्तं न प्रतिपद्यन्ते ।नावर्त्तन्त इति द्विरुक्तिः सफलाया विद्यायाः परिसमाप्ति-दर्शनार्थां” भा० ।यथा चैषामातिवाहिकत्वं तथा निरूपितम् शा०सू० भा० । “आतिवाहिकास्तल्लिङ्गात्” सू० ।“तेष्वेवार्चिरादिषु संशयः किमेतानि मार्गचिह्नान्युतभोगभूमयोऽथ वा नेतारोगन्तृणामिति । तत्र मार्गलक्षण-भूता अर्चिरादय इति तावत् प्राप्तं तत्स्वरूपत्वा-दुपदेशस्य । यथा हि कश्चिल्लोको ग्रामं नगरंवा प्रतिष्ठासमानोऽनुशिष्यते गच्छेस्त्वममुं गिरिं ततो-न्यग्रोधं ततोनदीं ततोग्राभं ततोनगरं वा प्राप्स्य-सीति । एवमिहाप्यर्चिरर्चिषोऽहरह्न अपूर्य्यमाणपक्ष-मित्याह । अथ वा भोगभूमयएता इति प्राप्तम् । तथाहि लोकशब्देनाग्न्यादीनुपबध्नाति अग्निलोकमागच्छती-त्यादि । लोकशब्दश्च प्राणिनां भोगायतनेषु भाष्यतेसनुष्यलोकः पितृलोको देवलोक इति च । तथा चब्राह्मणम् “अहोरात्रेषु लोकेषु सृज्यन्त” इत्यादि । तस्मा-न्नातिवाहिका अर्चिरादयः । अचेतनत्वादपि तेषामा-तिवाहिकत्वानुपपत्तिः । चेतना हि लोके राजनियुक्तापुरुषाः दुर्गेषु मार्गेष्वतिवाह्यानतिवाहयन्तीत्येवं प्राप्तेब्रूमः । आतिवाहिका एवैते भवितुमर्हन्ति । कुतः त-ल्लिङ्गात् । तथा हिचन्द्रमसोविद्युतं तत्पुरुषोऽमानवःस एतान् ब्रह्म गमयतीति सिद्धवद्गमयितृत्वं दर्शयति । या-वद्वचनं वाचनिकमितिन्यायात् । तद्वचनं तद्विषये एवोपक्षो-णमि तिचेन्न प्राप्तमानवत्वनिवृत्तिमात्रपरत्वाद्विशेषणस्य ।यद्यर्चिरादिषु पुरुषा गमयितारः प्राप्तास्ते च मानवास्ततो-युक्तं तन्निवृत्त्यर्थं पुरुषविशेषणममानव इति । ननु-लिङ्गमात्रभगमकं न्यायाभावात् । नैष दोषः । उभयव्या-मोहात्तत्सिद्धेः । एतावदर्चिरादिमार्गगास्ते देहवियो-गात्सं पिण्डितकरणग्रामाइत्यस्वतन्त्राः । अर्च्चिरादीनाम-प्यचेतनत्वादस्वातन्त्र्यमित्यतोऽर्चिराद्यभिमानिनश्चेतना देवताविशोषा अतियात्रायां नियुक्ता इति गम्यते । लोके-ऽपि हि मत्तमूर्च्छि तादयः संपिण्डिकरणग्रामाः परप्रयु-क्तवर्त्मानो भवन्ति । अनवस्थितत्वादप्यर्चिरादीनां न मार्ग-लक्षणत्वोपपत्तिः । न हि रात्रौ प्रेतस्याहःस्वरूपाभिस-म्भव उपपद्यते । न च प्रतिपालनमस्तीत्युक्तमधस्तात् ।ध्रुवत्वाद्देवतात्मनां नायं दोषो भवति । अर्चिरादिशब्दता-चैषामर्चिराद्यभिमानादुपपद्यते । अर्चिषोऽहरित्यादिनिर्देशस्त्वातिवाहिकत्वेऽपि न विरुध्यते । अर्चिषा हेतुनाह-रभिसम्भवन्ति अह्ना हेतुनापूर्य्यमाणं पक्षमिति । तथा चलोके प्रसिद्धेष्वप्यातियात्रिकेष्वेवंजातीयक उपदेशोदृश्य-ते गच्छ त्वमितोबलवर्माणं ततोजयसिंहं ततः कृष्णगुप्त-मिति । अपिचोपक्रमे तेऽर्चिषमभिसन्धवन्तीति सम्बन्धमा-त्रमुक्तं न सम्बन्धविशेषः कश्चित् । उपसंहारे तु “स एतान्ब्रह्म गमयतीति” सम्बन्धविशेषोऽतिवाह्यातिवाहकत्वलक्षणउक्तः तेन सएवोपक्रमेऽपीति निर्द्धार्य्यते । संपिण्डित-करणग्रामत्वादेव च गन्थृणां न तत्र भोगसम्भवः । लो-कशब्दस्तु अनुपभुञ्जानेष्वपि गन्तृषु गमयितुं शक्यते अ-न्येषां तल्लोकवासिनां भोगभूमित्वात् । अतोऽग्निस्वा-मिकं लोकं प्राप्तोऽग्निनाऽतिवाह्यते वायुस्वामिकलोकं प्राप्तोवायुनेति योजयितव्यम् । कथं पुनरातिवाहिकत्वपक्षेवरुणादिषु तत्सम्भवः विद्युतोह्यधिवरुणादय उपक्षिप्ताः ।विद्युतश्चानन्तरमा ब्रह्मप्राप्तेरमानवस्यैव पुरुषस्य गमयि-तृत्वं श्रुतमित्यतौत्तरं पठति । “वैद्युतेनैव तच्छ्रुतेः” ।ततो विद्युदभिसम्भवादूर्द्धं विद्युदनन्तरवर्त्तिनैवामानयेनपुरुषेण वरुणलोकादिष्वतिवाह्यमाना ब्रह्मलोकं गच्छन्तो-त्यवगन्तव्यम् । तान् वैद्युतान् पुरुषोऽमानवः स एतान्ब्रह्मलोकं गमयतीति तस्यैव गमयितृत्वश्रुतेः । वरुणादयस्तुतस्यैवाप्रतिबन्धकरणेन साहचर्य्यानुष्ठानेन वा केनचि-दनुग्राहकाइत्यवगन्तव्यम् । तस्मात्सूक्तमातिवाहिकादेवतात्मानोऽर्चिरादय इति” शाङ्करभाष्यम् ।अतिवाहे अतिवाहकाले इतोलोकान्तरगतिकाले भवःठञ् । मनुष्याणां गृत्युकालभवे २ देहभेदे शरीरविशेष-णत्वे । “तत्क्षणादेव गृह्णाति शरोरमातिवाहिकम् ।ऊर्द्ध्वं व्रजन्ति भूतानि ग्रीण्यस्मात्तस्य विग्रहात्” ।विष्णुघ० । त्रीणि भूतानि तोजीवाय्वाकाशानि उर्द्धंगच्छन्ति गुरुत्वाभावात् पृथिवीजले तु गुरुत्वादधोगच्छतइत्यभिप्रायः तत्क्षणात् मृत्युक्षणं प्राप्येत्यर्थः “आति-वाहिकसंज्ञोऽसौ देहो भवति भार्गव! केवलं तन्मनुष्याणांनान्येषां प्राणिनां क्वचित्” । इति च तत्रैवोक्तम् । पञ्च-भूतानामुर्द्ध्वाधोगतिश्च स्थूलभूतविषया सूक्ष्माणान्तु लिङ्ग-शरीराश्रयतया सर्वजीवानां देहान्तरप्राप्तौ तद्देहारम्भसा-धनतयासहैव गमनम् यथाह “तदन्तरप्रतिपत्तौ रंहति संपरि-ष्वक्तः प्रश्ननिरूपणाभ्याम्” शा० सू० व्याख्यातभिदं शङ्करा-चार्य्येण “जोवोमुख्यप्राणसचिवः सेन्द्रियः समनस्कोविद्या-कर्म्मपूर्व्वप्रज्ञापरिग्रहः पूर्व्वदेहं विहाय देहान्तरं प्रति-पद्यत इत्ये तदवगतं अथैनमेते प्राणा अभिसमायन्तीत्येवमा-देरन्यन्नवतरं रूपं कुरुते इत्येवमन्तात् संसारप्रकरणस्थाच्छ-व्दात् धर्म्माधर्म्म फलोपभोगसंभवाच्च । स किं देहवीजै-र्भूतसूक्ष्मैरसंपरिष्वक्तो गच्छति आहोस्वित् संपरिष्वक्तइति चिन्त्यते किं तावत् प्राप्तं असंपरिष्वक्त इति ।कुतः करणोपादानवत् भूतोपादानस्याश्रुतत्वात् । “स एता-स्तेजोमात्राः समभ्याददानः” इत्यत्र तेजोमात्राशब्देन कर-णानामुपादानं संकीर्त्तयति वाक्यशेषे चक्षरादिसंकीर्त्तनात् ।नैवं भूतमात्रीपादानसंकीर्त्तनमस्ति सुलभाश्च सर्व्वत्र भूत-मात्रा यत्रैव देह आरव्धव्यस्तत्रैव सन्तीति ततश्च तासांनयनं निष्पयोजनम् । त स्मादसंपरिष्वक्तोयातीत्येवं प्राप्तेपठत्याचार्थ्यः “तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त” इति ।तदन्तरप्रतिपत्तौ देहात् देहान्तरप्रतिपत्तौ देहवीजैर्भू-तसूक्ष्मैः संपरिष्वक्तो गच्छतीत्यवगन्तव्यं कुतः प्रश्ननिरूप-णाभ्याम् । तथा हि प्रश्नः “वेत्थ यथा पञ्चम्यामाहुतावापःपुरुष वचसो भवन्तीति” । निरूपणञ्च प्रतिवचनं द्युपर्ज्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतो-रूपाः पञ्चाहुतीर्दर्शयित्वा “इति तु पञ्चम्यामाहुता-वापः पुरुषवचसो भवन्तीति” । तस्मादद्भिः परिवेष्टितोजीवोरं हतीति गम्यते । नन्वन्या श्रुतिर्जलौकावत् पूर्व्वं देहंन मुञ्चति यावद्देहान्तरं न क्रामतीति दर्शयति तद्यथातृणजलायुकेति तत्राप्परिवेष्टितस्यैव जीवस्य कर्म्मोप-स्थापितप्रतिपत्तव्यदेहविषयभावाय दीघींभावमात्रं जलौ-कयोपमीयत इत्यविरोधः । एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे सति याः पुरुषमतिप्रभवाः कल्पनाः व्यापिनां क-रणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्म्मवशाद्व्रत्तिलाभस्तत्रतत्र भवति केवलस्यैव वात्मनोवृत्तिलाभस्तत्र तत्र भवति ।इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थानउत्पद्यन्ते, मनएव वा केवलं भोगस्थानमभिप्रतिष्ठते जीव-एव वा उत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते शुकैव वृक्षाद्वृ-क्षान्तरमित्येवमाद्याः, ताः सर्व्वाएवानादर्त्तव्याः श्रुतिविरोधात् । ननूदाहृताभ्यां प्रश्नप्रतिवचनाभ्यां केवलाभि-रद्भिः संपरिष्वक्तो रंहति इति प्राप्नोति अप्शब्दश्रवण-सामर्थ्यात् तत्र कथं सामान्येन प्रतिज्ञायते सर्व्वैरेव भूत-सूक्ष्मैः संपरिष्वक्तो रंहतीत्यतौत्तरं पठति । “त्र्यात्मक-त्वात्तुभूयस्त्वात्” सू० । “तुशब्देनचोदितामाशङ्कामुच्छिनत्तित्र्यात्मिका ह्यापः त्रिवृत्करणश्रुतेः तास्वारम्भिकास्वभ्युप-गतास्वितरदपि भूतद्वयमवश्याभ्युपगन्तव्यं भवति त्र्यान्मकश्च-देहः त्रयाणामपि तेजोबन्नानां तस्मिन् कार्य्योपलब्धेः पुनश्चत्र्यात्मकः त्रिधातुकत्वात् त्रिभिर्वातपित्तश्लेष्मभिर्व्याप्तत्वात्न स भूतान्तराणि प्रत्याख्याय केबलाभिरद्भिरारब्धुं शक्यते ।तस्माद्भूयस्त्वापेक्षोऽयम् “आपः पुरुषवचसैति” प्रश्नप्रतिव-चनयोरप्शब्दो न कैबल्यापेक्षः सर्व्वदेहेषु हि रसलोहि-तादिद्रवभूयस्त्वं दृश्यते । ननु पार्थिवोधातुर्भूयिष्ठोदेहे-षूपलक्ष्यते नैष दोषः इतरापेक्षयापां बाहुल्यं भविष्यतिदृश्यते च शुक्रशोणितलक्षणे पि देहवीजे द्रवबाहुल्यम् ।कर्म्म च निमित्तं कारणं देहान्तरारम्भे कर्म्माणि चाग्नि-होत्रादीनि सोमाज्यपयः प्रभृतिद्रवद्रव्यव्यपाश्रयाणि क-र्म्मसमवायिन्यश्चापः श्रद्धाशब्दोदिताः सह कर्म्मिभिर्द्यु-लोकाख्येऽग्नौ हूयन्त इति वक्ष्यति तस्मादप्यपां बाहुल्यप्रसिद्धिः । बाहुल्याच्चाप्शब्देन सर्व्वेषामेव देहवीजानांभूतसूक्ष्माणामुपादानमिति निरवद्यम् । “प्राणगतेश्च” सू०“प्राणानाञ्च देहान्तरप्रतिपत्तौ गतिः श्राव्यते “तमुत्क्रामन्तंप्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्व्वे प्राणाअनूत्क्रा-मन्तीत्यादि” श्रुतिभिः । सा च प्राणानां गतिर्नाश्रयमन्त-रेण सम्भवतीत्यतः प्राणगतिप्रयुक्तानां तदाश्रयभूताना-मपामपि भूतान्तरोपसृष्टानां गतिरवगम्यते । न हि निरा-श्रयाः प्राणाःक्वचिद्गच्छन्ति तिष्ठन्ति वा जीवतोऽदर्शनात्”भा० । मनुरपि “यदाणुमात्रिकोभूत्वा वीजं स्थास्नु चरिष्णुच ।समाविशति संसृष्टस्तदा मूर्त्तिं विमुञ्चति” सूक्ष्मभूतैःसं-सृष्टस्यैव गतिमाह । अत्र अणुपदं पुर्य्यष्टकोपलक्षणम् ।“भूतेन्द्रियमनोबुद्धिवासनाकार्यवायवः । अविद्या चाष्टकंप्रोक्तं पुर्य्यष्टकमिदं पुनः” सनन्दोक्तेः “पुर्य्यष्टकेन लिङ्गेनप्राणाद्येन स युज्यते । तेन बद्धस्य वै बन्धोमोक्षीमुक्तस्यतेन वै” ब्रह्मपु० उक्तेश्च मंसृतिकाले पुर्य्यष्टकस्यपरलोकगामित्वसिद्धेः । आतिवाहिकशरीरसत्त्वेऽन्यथानुप-पत्तिरेव प्रमाणम् तत्स्वरूपञ्चोक्तं सांख्यसूत्रभाष्यादौ ।“तद्वीजात् संसृतिः” सू० । तस्य शरीरस्य वीजात् त्रयोविं-शतितत्त्वरूपात् सूक्ष्माद्धेतोः पुरुषस्य संसृतिर्गतागतेभवतः कूटस्थस्य विभुतया स्वतो गत्याद्यसम्भवादित्यर्थःत्रयोविंशतितत्त्वेऽवस्थितो हि पुरुषस्तेनैवोपाधिना पूर्व्व-कृतकर्मभोगार्थं देहाद्देहं संसरति । “मानसं मनसैवाय-मुपभुङ्क्ते शुभाशुभम् । वाचा वाचा कृतं कर्म कायेनैव तुकायिकम्” इत्यादिस्मृतिभिः पूर्वसर्गीयकरणैरेवोत्सगेतःसर्गान्तरेषूपभोगसिद्धेः । अतएव ब्रह्मसूत्रम् “तदन्तरप्रति-पत्तौ रं हति सम्परिष्वक्त इति” । संसृतेरवधिमप्याह ।“आविवेकाच्च प्रवर्त्तनमविशेषाणाम्” सू० । “ईश्वरानीश्वर-त्वादिविशेषरहितानां सर्वेषामेव पुंसां विवेकपर्य्यन्तमेव प्रव-र्त्तनं संसृतिरावश्यकी विवेकोत्तरं च न सा तत्र हेतुमाह ।“उपभोगादितरस्य” सू० । इतरस्याविवेकिन एवस्वीयकर्मफलभोगावश्यम्भावादित्यर्थः । देहसत्त्वेऽपि संसृ-तिकाले भोगो नास्तीत्याह । “सम्प्रति परिमुक्तो द्वा-भ्याम्” सू । सम्प्रति संसृतिकाले पुरुषो द्वाभ्यां शीतोष्णसु-खदुःखादिद्वन्द्वैः परिमुक्तो भवतीत्यर्थः । तदेतत्कारि-कयोक्तम् । “संसरति निरुपभोगं भावैरधिवासितं लि-ङ्गम्” । इति । भावा धर्माधर्मवासनादयः । अतःपरं शरीरद्वयं विशिष्य वक्तुमुपक्रमते । “मातापितृजंस्थूलं प्रायश इतरन्न तथा” सू० । स्थूलं मातापितृजंप्रायशो बाहुल्येनायोनिजस्यापि स्थूलशरीरस्य स्मरणा-दितरच्च सूक्ष्मशरीरं न तथा न मातापितृजं सर्गादावुत्पन्न-त्वादित्यर्थः । तदुक्तं कारिकया । “पूर्व्वोत्पन्नमसक्तंनियतं महदादि सूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावै-रधिवासितं लिङ्गम्” इति नियतं नित्यं द्विपरार्धस्थायिगौणनित्यं प्रतिशरीरं लिङ्गोत्पत्तिकल्पने गौरवात् ।प्रलये तु तन्नाशः श्रुतिस्मृतिप्रामाण्यादिष्यते । गतिकालेभोगाभाववचनमुत्सर्गाभिप्रायेण । कदाचित् तु वायवीय-शरीरप्रवेशतो गमनकालेऽपि भोगो भवति । अतो यम-मार्गे दुःखभोगवाक्यान्युपपद्यन्ते । स्थूलसूक्ष्मशरी-रयोर्मध्ये किमुपाधिकः पुरुषस्य द्वन्द्वयोगस्तदवधारयति ।“पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नेतरस्य” सू० । पूर्वंसर्गादावुत्पत्तिर्यस्य लिङ्गशरीरस्यतस्यैव तत्कार्यत्वं सुख-दुःखकार्यकत्वं कुत एकस्य लिङ्गदेहस्यैव सुखदुःखाख्यभोगात्न त्वितरस्य स्थूलशरोरस्य मृतशरीरे सुखदुःखाद्यभावस्यसर्वसम्मतत्वादित्यर्थः । उक्तस्य सूक्ष्मशरीरस्य स्वरूप-माह । “सप्तदशैकं लिङ्गम्” सू० । सूक्ष्मशरीरमप्यधाराधेय-भावेन द्विविधं भवति तत्र सप्तदश मिलित्वा लिङ्गशरीरंतच्च सर्गादौ समष्टिरूपमेकमेव भवतीत्यर्थः । एकादशेन्द्रि-याणि पञ्च तन्मात्राणि बुद्धिश्चेति सप्तदश । अहङ्कारस्य बु-द्धावेवान्तर्भावः । चतुर्थसूत्रे वक्ष्यमाणप्रमाणादेतान्येव सप्त-दशलिङ्गं मन्तव्यं न तु सप्तदश एकं चेत्यष्टादशपरतयाव्याख्येयम् । उत्तरसूत्रेण व्यक्तिभेदस्योपपाद्यतयात्र लिङ्गै-कत्वे एकशब्दस्यतात्पर्याबधारणाच्च । “कर्मात्मा पुरुषोयोऽसौ बन्धमोक्षैः प्रयुज्यते । स सप्तदशकेनापि राशिनायुज्यते च सः” इति मोक्षधर्मादौ लिङ्गशरीरस्य सप्तदश-त्वसिद्धेश्च सप्तदशावयवा अत्र सन्तीति सप्तदशको राशिरि-त्यर्थः । राशिशब्देनस्थूलदेहवल्लिङ्गदेहस्यावयवित्वं निरा-कृतम् । अवयविरूपेण द्रव्यान्तरकल्पनायां गौरवात् ।स्थूलदेहस्य चावयवित्वमेकतादिप्रत्यक्षानुरोधेन कल्प्यतइति । अत्र च लिङ्गदेहे बुद्धिरेव प्रधानेत्याशयेन लिङ्ग-देहस्य भोगः प्रागुक्तः । प्राणश्चान्तःकरणस्यैव वृत्तिभेदः ।अतो लिङ्गदेहे प्राणपञ्चकस्याप्यन्तर्भाव इत्यस्य सप्तदशा-वयवकस्य शरीरत्वं स्वयं वक्ष्यति “लिङ्गशरीरनिमित्तक इतिसनन्दनाचार्य” इति सूत्रेण । अतो भोगायतनत्वमेव मुख्यंशरीरलक्षणम् । तदाश्रयतया त्वन्यत्र शरीरत्वमिति पश्चा-द्व्यक्तीभविष्यति । “चेष्टेन्द्रियार्थाश्रयः शरीरमिति” तुन्यायेऽपि तस्यैव लक्षणं कृतमिति । ननु लिङ्गंचेदेकं तर्हिकथं पुरुषभेदेन विलक्षणा भोगाः स्युस्तत्राह । “व्यक्ति-भेदः कर्मविशेषात्” सू० यद्यपि सर्गादौ हिरण्यगर्भो-पाधिरूपमेकमेव लिङ्गं तथापि तस्य पश्चाद्व्यक्तिभेदोव्यक्तिरूपेणांशतो नानात्वमपि भवति । यथेदानीमेकस्यपितृलिङ्गदेहस्य नानात्वमंशतो भवति पुत्रकन्यादिलिङ्गदे-हरूपेण । तत्र कारणमाह कर्मविशेषादिति । जीवान्त-राणां भोगहेतुकर्मादेरित्यर्थः । अत्र विशेषवचनात् सम-ष्टिसृष्टिर्जीवानां साधारणैः कर्मभिर्भवतीत्यायातम् । अयंच व्यक्तिभेदो मन्वादिष्वप्युक्तः । यथा मनौ समष्टिपु-रुषस्य षडिन्द्रियोत्पत्त्यनन्तरम् । “तेषां त्ववयवान् सू-क्ष्मान् षण्णामप्यमितौजसाम् । सन्निवेश्यात्ममात्रासु सर्व-भूतानि निर्ममे” इति षण्णामिति समस्तलिङ्गशरीरो-पलक्षणम् । आत्ममात्रासु चिदंशेषु संयोज्येत्यर्थः । तथाच तत्रैव वाक्यान्तरम् । “तच्छरीरसमुत्पन्नैः कार्यैस्तैः क-रणैः सह । क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः” ।इति नन्वेवं भोगायतनतया लिङ्गस्यैव शरीरत्वे स्थूलेकथं शरीरत्वव्यवहारस्तत्राह । “तदधिष्ठानाश्रये देहे तद्वा-दात् तद्वादः” सू० । तस्य लिङ्गस्य यदधिष्ठानमाश्रयो व-क्ष्यमाणभूतपञ्चकं तस्याश्रये षाट्कौशिके देहे तद्वादो देह-वादस्तद्वादात् तस्याधिष्ठानशब्दोक्तस्य देहस्य वादादित्यर्थःलिङ्गसम्बन्ध्वादधिष्ठानस्य देहत्वमधिष्ठानाश्रयत्वाच्च स्थूलस्यदेहत्वमिति पर्यवसितोऽर्थः । अधिष्ठानशरीरं च सूक्ष्मपञ्चभूतात्मकं वक्ष्यते तथा च शरीरत्रयं सिद्धम् । यत्तु “आतिवाहिक एकीऽस्ति देहोऽन्यस्त्वाधिभौतिकः ।सर्वासां भूतजातानां ब्रह्मणस्त्वेक एव किम्” इत्यादिशा-स्त्रेषु शरीरद्वयमेव श्रूयते तल्लिङ्गशरीराधिष्ठानशरीर-योरन्योऽन्यनियतत्वेन सूक्ष्मत्वेन चैकताभिप्रायादिति ।ननु षाट्कौशिकातिरिक्ते लिङ्गशरीराधिष्ठानभूते शरीरा-न्तरे किं प्रमाणमित्याकाङ्क्षायामाह । “न स्वातन्त्र्यात् तदृतेछायावच्चित्रवच्च” सू० । “तल्लिङ्गशरीरं तदृतेऽधिष्ठानं विनास्वातन्त्र्यान्न तिष्ठति । यथा छाया निराधारा न तिष्ठतियथा वा चित्रमित्यर्थः तथा च स्थूलदेहं त्यक्त्रा लोका-न्तरगमने लिङ्गदेहस्याधारभूतं शरीरान्तरं सिध्य-तीति भावः । तस्य च स्वरूपं कारिकायामुक्तम् । “सूक्ष्मामातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः । सूक्ष्मा-स्तेषां नियता मातापितृजा निर्वन्तते” इति । अत्रतन्मात्रकार्यं मातापितृजशरोरापेक्षया सूक्ष्मं यद्भ तप-ञ्चकं यावल्लिङ्गस्थायि प्रोक्तं तदेव लिङ्गाधिष्ठानं शरीर-मिति लब्धं कारिकान्तरेण । “चित्रं यथाश्रयमृते स्था-ण्वादिभ्यो विना यथा छाया । तद्वद्विना विशेषैर्न ति-ष्ठति निराश्रयं लिङ्गम्” । इति । विशेषैः स्थूलभूतैः सू-क्ष्माख्यैः, स्थूलावान्तरभेदैरिति यावत् । अस्यां कारि-कायां सूक्ष्माख्यानां स्थूलभूतानां लिङ्गशरीराद्भेदावग-मेन “पूर्वोत्पन्नमसक्तं नियतं महदादि सूक्ष्मपर्यन्तम्” ।इत्यादिपूर्वोदाहृतकारिकायां सूक्ष्मभूतपर्यन्तस्य लिङ्गत्वंतार्थः किन्तु महदादिरूपं यल्लिङ्गं तत् स्वाधारसूक्ष्मप-र्यन्तं संसरति तेन सह संसरतीत्यर्थः । नन्वेवं लिङ्गघटक-पदार्थाः कियन्त इति कथमवधार्यमिति चेत् । “वासना-भूतसूक्ष्मं च कर्माविद्ये तथैव च । दशेन्द्रियं मनो बुद्धि-रेतल्लिङ्गं विदुर्बुधाः इति वाशिष्ठादिवाक्येभ्यः । अत्रलिङ्गशरीरप्रतिपादनेनैव पुर्यष्टकमपि व्याख्येयमित्याश-येन बुद्धिधर्माणामपि वासनाकर्माविद्यानां पृथगुपन्यासः ।भूतसूक्ष्मं चात्र तन्मात्रा । दशेन्द्रियाणि च ज्ञानकर्मेन्द्रिय-भेदेन पुरोद्वयमित्याशयः । यत् तु मायावादिनो लिङ्गश-रीरस्य तन्मात्रस्थाने प्राणादिपञ्चकं प्रक्षिपन्ति पुर्यष्टकंचान्यथा कल्पयन्ति तदप्रामाणिकमिति । ननु मूर्त-द्रव्यतया वाय्वादेरिव लिङ्गस्याकाशमेवासङ्गेनाधारोऽस्तुव्यर्थमन्यत्र सङ्गकल्पनमिति तत्राह । “मूर्तत्वेऽपि न स-ङ्घातयोगात् तरणिवत्” सू० मूर्तत्वेऽपि न स्वातन्त्र्याद-सङ्गतयावस्थानं प्रकाशरूपत्वेन सूर्यस्येव सङ्घातसङ्गानु-मानादित्यर्थः । सूर्यादीनि सर्वाणि तेजांसि पार्थिवद्र-व्यसङ्गेनैवावस्थितानि दृश्यन्ते लिङ्गं च सत्त्वप्रकाशभयमतोभूतसङ्गतमिति । लिङ्गस्य परिमाणमवधारयति ।“अणुपरिमाणं तत्कृतिश्रुतेः” सू० तल्लिङ्गमणुपरिमाणंपरिच्छिन्नं न त्वत्यन्तमेवाणु सावयवस्योक्तत्वात् । कुतःकृतिश्रुतेः क्रियाश्रुतेः । “विज्ञानं यज्ञं तनुते कर्माणितनुतेऽपि च” इत्यादिश्रुतेर्विज्ञानाख्यबुद्धिप्रधानतया विज्ञा-नस्य लिङ्गस्याखिलकर्मश्रवणादित्यर्थः । विभुत्वे सति क्रियान संम्भवति । तद्गतिश्रुतेरिति पाठस्तु समीचीनः । लिङ्ग-शरीरस्य च गतिश्रुतिः “तमुत्क्रामन्तं प्राणोऽनूत्क्रामतिप्राणमनूत्क्रामन्तं सविज्ञानो भबति सविज्ञानमेवानूत्क्राम-तीति” सविज्ञानो बुद्धिसहित एव जायते सविज्ञानं यथास्यात् यथा संसरति चेत्यर्थः । परिच्छिन्नत्वे युक्त्यन्तर-माह । “तदन्नमयत्वश्रुतेश्च” सू० तस्य लिङ्गस्यैकदेश-तोऽन्नमयत्वश्रुतेर्न विभुत्वं सम्भवतीति । विभुत्वे सतिनित्यतापत्तेरित्यर्थः । सा च श्रुतिः “अन्नमयं हि सौम्य! मनआपोमयः प्राणस्तेजोमयी वागित्यादिः” । यद्यपि मनआदीनि न भौतिकानि तथाप्यन्नसंसृष्टसजातीयांशपूरणा-दन्नमयत्वादिव्यवहारो बोध्यः । अचेतनानां लि-ङ्गानां किमर्थं संसृतिर्देहाद्देहान्तरसञ्चार इत्याशङ्काया-माह । “पुरुषार्थं संसृतिर्लिङ्गानां सूपकारवद्राज्ञः” सू०यथा राज्ञः सूपकाराणां पाकशालासु सञ्चारो राजार्थंतथा लिङ्गशरीराणां संसृतिः पुरुषार्थमित्यर्थः” प्र० भाष्यम्सूक्ष्मदेहसत्त्वे प्रमाणं सांख्यतत्त्वकौमुद्यामित्थं दर्शितम् ।“स्यादेतद्बुद्धिरेव साहङ्कारेन्द्रिया कस्मान्न संसरति कृतं सू-क्ष्मशरीरेणाप्रामाणिकेनेत्यत आह । “चित्रं यथाश्रय-मृते स्थाण्वादिभ्योविना यथा छाया । तद्वद्विना विशे-षैर्न तिष्ठति निराश्रयं लिङ्गम्” । लिङ्गनात् ज्ञाप-नात् बुद्ध्यादयोलिङ्गं तत् अनाश्रितं न तिष्ठति । जन्म-प्रयाणान्तराले बुद्ध्यादयः प्रत्युत्पन्नशरीरश्रिताः प्रत्युत्पन्न-पञ्चतन्मात्रवत्त्वे सति बुद्ध्यादित्वात् दृश्यमानशरीरवृत्ति-बुद्ध्यादिवत् । विना विशेषैरिति सूक्ष्मैः शरीरैरित्यर्थः ।आगमश्चात्र भवति “अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमोवला-दिति” । अङ्गुष्ठमात्रत्वेन सूक्ष्मतामुपलक्षयति आत्मनो-निष्कर्षासम्भवेन सूक्ष्ममेव शरीरं पुरुषस्तदपि हि पुरिस्थूलशरीरे शेते” । एवञ्च सर्वेषां भूतानां संसरणकालेसूक्ष्मदेहस्यावश्यकत्वे स्थिते मनुष्याणामेव दाहाद्यूर्द्धम्आतिवाहिकदेहान्तरोत्पत्तिर्नत्वन्येषां प्रागुक्तवचनात्असति तु दाहादो नृणां श्माशानिकभूतभावप्राप्तिरितिभेदः यथोक्तम्” शुद्धित० विष्णु० । “अतिवाहिक-संज्ञोऽसौ देहो भवति भार्गव! । केवलं तन्मनुष्ठाणांनान्येषां प्राणिनां क्वचित्” इत्युपक्रम्य प्रेतपिण्डैस्तथादत्तैर्देहमाप्नोति भार्गव! । भोगदेहमिति प्रोक्तं क्रमा-देव न संशयः । प्रेतपिण्डा न दीयन्ते यस्य तस्य विमोक्ष-णम् । श्माशानिकेभ्यो भूतेभ्यो नाकल्पमेव विद्यते । तत्राऽस्यघातना घोरा शीतवातातपीद्भवा इति” अत्र प्रे तका-र्य्याकरणे दोषाभिधानम् । निन्दार्थवादी विधेयस्तुत्यर्थम्“न निन्द्यं निन्दनीयं निन्दति किन्तु विघेयं स्तोताति”न्यायात् । एतच्च विद्वद्भिन्नविषयम् छा० उ० विदुषःदैवात्तदकरणेऽपि अर्चिरादिप्राप्तेरुक्तेः “अथ यदु चैवा-स्मिन् शव्यं कुर्व्वन्ति यदि न, अर्चिषमेवाभिसन्धव-न्तीति” । एतद्भाष्यञ्च ६५१ पृष्ठे प्राग् दर्शितन् ।एवं गयाश्राद्धादावपि “अग्निदग्धाश्च ये जीवा नाग्नि-दग्धास्तथाऽपरे तेषामुरद्धणार्थाय इमं पिण्डं ददा-म्यहमिति । मन्त्रलिङ्केनानग्निदग्धस्याप्युद्धारप्रतिपादनात् ।निष्कर्षस्त संसृतिकाले प्राणिमात्रस्य सूक्ष्मदेहप्राप्तिः तत्रपश्वादीनां दाहादिकर्म्मादिकमन्तरेणापि स्वस्वकर्म्मानु-सारेण देहान्तरप्राप्तिः मनुष्याणान्तु विद्वदादिव्यतिरिक्तानांदाहादिकमन्तरेण श्माशानिकभूतभावप्राप्तिः कृते तुदाहादौ आतिवाहिकदेहप्राप्तिः पूरकपिण्डादौ पुनःप्रेतदेहप्राप्तिः सपण्डीकरणात्परं भोगदेहप्राप्तिः । तीर्थ-मृतानां न तु प्रेतदेह इति भेदः “कृते सपिण्डीकरणे नरःसंवत्सरात्परम् । प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यतेइत्युक्तेः” “ततः स नरकेयाति स्वर्गे वा स्वेन कर्मणा”इत्युक्तेश्च विदुषां महातीर्थमृतानां तु दैवात् दाहा-दिकार्य्याकरणेऽपि अर्च्चिरादिमार्गेण तत्तत्स्थानयोग्य-देहप्राप्तिरिति ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
