| YouTube Channel

आतञ्चनं (AtaJcanaM)

 
शब्दकल्पद्रुमः
Sanskrit
आतञ्चनं,
क्ली,
(आङ् + तञ्च + ल्युट् ।) प्रतिवापः ।गलितस्य स्वर्णादेर्द्रव्यान्तरेणावचूर्णनं इतिस्वामी
निक्षेपणं इति सुभूतिः
उपद्रवः ।इति रायमकुटः
द्रवद्रव्यप्रक्षेपणोचितचूर्णं ।इति सारसुन्दरी
जवनं वेगः आप्यायनं ।तर्पणं इत्यमरमेदिन्यौ