| YouTube Channel

आतङ्कः (AtaGkaH)

 
Apte
English
आतङ्कः [ātaṅkḥ], [आ-तञ्च्-घञ्-कुत्वम्]
Disease, sickness of the body
दीर्घतीव्रामयग्रस्तं ब्राह्मणं गामथापि वा दृष्ट्वा पथि निरातङ्कं कृत्वा वा ब्रह्महा शुचिः
Y.*
3.245.
Fever.
Pain, affliction (of the mind), disquietude
anguish, agony
किन्निमित्तोयमातङ्कः
आतङ्कस्फूरितकठोरगर्भगुर्वीम्
U.*
1.49
Ś.*
3
V.*
3.
Doubt, uncertainty.
Fear, apprehension
पुरुषायुषजीविन्यो निरातङ्का निरीतयः
R.*
1.63
fright, terror
दत्तातङ्को$ङ्गनानाम्
Ratn.*
2.2.
The sound of a drum or tabor. -कम् The constellation भरणी
Gīrvāṇa.
Apte Hindi
Hindi
आतङ्कः
पुं*
- "आ+तङ्क+घञ्, कुत्वम्"
"रोग, शरीर की बीमारी"
आतङ्कः
पुं*
- "आ+तङ्क+घञ्, कुत्वम्"
"पीड़ा, आधि, व्यथा, वेदना"
आतङ्कः
पुं*
- "आ+तङ्क+घञ्, कुत्वम्"
"भीति, त्रास"
आतङ्कः
पुं*
- "आ+तङ्क+घञ्, कुत्वम्"
ढोल या तबले की आवाज
E Bharati Sampat
Sanskrit
(पुं) आ+तकि(कृच्छ्रजीवने)+घञ् ‘हलश्च’ ३.३.१२१। १.रोगः, व्याधिः। ‘दीर्घतीव्रा मथग्रस्तप् ब्राह्मणं गामयापिवा ‘दृष्ट्वापथि निरातङ्कम् कृत्वातु ब्रह्महा शुचिः’ याज्ञः३.१.२४५। २.तापः, ज्वरः। ‘आतङ्कश्रमसाहवसव्यतिकरोत्कम्पः कथं सह्याताम्’ म०वी०२.२१। ३.संशयः, सन्देहः। ४.भयम् ‘पुरुषायुषजीविन्यो निरातङ्का निरीतयः’ रघुः१.१६। ५.मुरजध्वनिः मृदङ्गध्वनिः। ‘आतङ्को रोगसन्तापशङ्कासु मुरजध्वनिः’ मेदिनी०।
Wordnet
Sanskrit
Synonyms:
आतङ्कः
noun
वाद्यस्य ध्वनिविशेषः।
"आतङ्कस्य ध्वनिना वादकः प्राकम्पत।"
Synonyms:
आतङ्कः
noun
अत्याचारादीभिः मनसि जातम् भयम्।
"काश्मीरप्रदेशः उग्रवादीनाम् आतङ्केन व्याप्तः अस्ति।"
Synonyms:
व्याधिः, गदः, आमयः, अपाटवः, आमः, आतङ्कः, भयः, उपघातः, भङ्गः, अर्तिः, रुक्, रुजा, उपतापः
noun
शरीरादिषु आगतः दोषः।
"शरीरं व्याधीनां गृहम्।"
शब्दकल्पद्रुमः
Sanskrit
आतङ्कः,
पुं,
(आङ् + तकि + घञ् ।) रोगः ।(यथा, याज्ञवल्क्यः, --“दृष्ट्वा पथि निरातङ्कं कृत्वा वा ब्रह्महा शुचिः”
)सन्तापः शङ्का (यथा, महावीरचरिते, --“आतङ्कश्रमसाहसव्यतिकरोत्कम्पःक्षणंसह्यतां” ।)मुरजध्वनिः इति मेदिनीकरहेमचन्द्रौ
ज्वरः ।इति राजनिर्घण्टः
(“नानातन्त्रविहीनानां भिषजामल्पमेधसां ।सुस्वं विज्ञातुमातङ्कमयमेव भविष्यति”
इति माधवकरः
रोगार्थे उदाहरणं यथा सुश्रुते ।“प्रश्नेन विजानीयात् देशं कालं जातिं सात्म्य-मातङ्कसमुत्पत्तिं वेदनासमुच्छ्रायं बलमित्यादि”
ज्वरार्थे पर्य्यायानाह ।“ज्वरो विकारो रोगश्च व्याधिरातङ्क एव ।एकार्थनामपर्य्यायैर्विविधैरभिधीयते”
इति चरकः
)
कृदन्तरूपमाला
Sanskrit
1 {@“तन्चू सङ्कोचने”@} 2 ‘तञ्जू--’ इति क्षीरस्वामिसम्मतः पाठः।
जकारान्तमध्ये पाठात् एवमेव न्याय्यम्, इति तदाशयः।
तञ्चकः-ञ्चिका, तञ्चकः-ञ्चिका, 3 तितञ्चिषकः-षिका-तितङ्क्षकः-क्षिका, 4 तातचकः-चिका
5 तञ्चिता-तङ्क्ता-त्री, तञ्चयिता-त्री, तितञ्चिषिता-तितङ्क्षिता-त्री, तातचिता-त्री
6 7 तञ्चन्-ती, तञ्चयन्-न्ती, तितञ्चिषन्-तितङ्क्षन्-न्ती
-- तञ्चिष्यन्-तङ्क्ष्यन्-न्ती-ती, तञ्चयिष्यन्-न्ती-ती, तितञ्चिषिष्यन्, तितङ्क्षिष्यन्-न्ती-ती
-- -- तञ्चयमानः, तञ्चयिष्यमाणः, -- तातच्यमानः, तातचिष्यमाणः
8 संतक्-संतग्-सन्तचौ-सन्तचः
-- -- 9 तक्तम्- 10 क्तः-क्तवान्, तञ्चितः, तितञ्चिषितः-तितङ्क्षितः, तातचितः-तवान्
तञ्चः, तञ्चः, तितञ्चिषुः-तितङ्क्षुः, 11 तातञ्चः
तञ्चितव्यम्-तङ्क्तव्यम्, तञ्चयितव्यम्, तितञ्चिषितव्यम्-तितङ्क्षितव्यम्, तातचितव्यम्
तञ्चनीयम्, तञ्चनीयम्, तितञ्चिषणीयम्-तितङ्क्षणीयम्, तातचनीयम्
12 तङ्क्यम्, तञ्च्यम्, तितञ्चिष्यम्-तितङ्क्ष्यम्, तातच्यम्
ईषत्तञ्चः-दुस्तञ्चः-सुतञ्चः
-- -- -- तच्यमानः, तञ्च्यमानः, तितञ्चिष्यमाणः-तितङ्क्ष्यमाणः, तातच्यमानः
आतङ्कः, तञ्चः, तितञ्चिषः-तितङ्क्षः, तातचः
तञ्चितुम्-तङ्क्तुम्, तञ्चयितुम्, तितञ्चिषितुम्-तितङ्क्षितुम्, तातचितुम्
तञ्चा, तञ्चना, तितञ्चिषा-तितङ्क्षा, तातचा
तञ्चनम्, तञ्चनम्, तितञ्चिषणम्-तितङ्क्षणम्, तातचनम्
13 तञ्चित्वा-तक्त्वा, तञ्चयित्वा, तितञ्चिषित्वा-तितङ्क्षित्वा, तातचित्वा
प्रतच्य, प्रतञ्च्य, प्रतितञ्चिष्य-प्रतितङ्क्ष्य, प्रतातच्य
14 तञ्चम् २, तञ्चित्वा-तक्त्वा २, तञ्चम् २, तञ्चयित्वा २, तितञ्चिषम् २-तितङ्क्षम् २, तितञ्चिषित्वा २-तितङ्क्षित्वा २, तातचम्
तातचित्वा २।
प्रासङ्गिक्यः
01
=>
(७०२)
02
=>
(७-रुधादिः-१४५९। सक। सेट्। पर।)
03
=>
[[४। ऊदित्त्वात् ‘स्वरतिसूतिसूयतिधूञूदितो वा (७-२-४४) इति सूत्रेणास्य धातोर्वला- द्यार्धधातुकस्येड्विकल्पः। इडभावपक्षे, ‘चो कुः’ (८-२-३०) इति चकारस्य ककारः। ‘नश्चापदान्तस्य झलि’ (८-३-२४) इत्यनेन, नकारस्यानुस्वारे, ‘आदे- शप्रत्यययोः’ (८-४-५९) इति सनः सकारस्य षकारः। ‘अनुस्वारस्य ययि-- (८-३-५८) इति परसवर्णे तितङ्क्षकः इति रूपम्। एवमिडभावपक्षे सन्नन्ते सवंत्र प्रक्रिया ज्ञेया।’]]
04
=>
[[५। यङन्ताण्ण्वुलि, ‘अनिदिताम्--’ (६-४-२४) इत्युपधानकारस्य लोपे ‘यस्य हलः’ (६-४-४९) ‘अतो लोपः’ (६-४-४८) इति क्रमेण यकाराकारयोर्लोपे द्वित्वे रूपम्। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[६। ऊदित्त्वेन वलादेरार्धधातुकस्येड्विकल्पः। इडभावपक्षे, कुत्वानुस्वारपरसवर्णा भवन्ति। एवं तव्यदादिष्वपि ज्ञेयम्।]]
06
=>
[पृष्ठम्०६४७+ २४]
07
=>
[[१। ‘रुधादिभ्यः श्नम्’ (३-१-७८) इति श्नम् विकरणप्रत्ययः। मित्त्वादयम् अन्त्यादचः परो भवति। ‘श्नान्नलोपः’ (६-४-२३) इति धातुनकारस्य लोपः। ‘श्नसोरल्लोपः’ (६-४-१११) इति अकारलोपः। अनुस्वारपरसवर्णौ भवतः।]]
08
=>
[[२। सम्यक् तञ्चतीति सन्तक्। ‘अनिदिताम्--’ (६-४-२४) इत्युपधानकारस्य लोपः।]]
09
=>
[[३। ऊदित्त्वेनेड्विकल्पात्, निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः। उपधानकारलोपः। कुत्वम्।]]
10
=>
[[आ। ‘संतक्तनद्धवसनाः परिवेगवृक्ता रङ्गं समेत्य पपृचुः स्वजनांश्च मल्लाः।।’ धा। का। ३। ३।]]
11
=>
[[४। ‘यङोऽचि च’ (२-४-७४) इत्यनेन यङो लुक्। नचात्रोपधानकारस्य लोपः शङ्क्यः
\n\n लुका लुप्तत्वेन ‘न लुमताऽङ्गस्य’ (१-१-६३) इति प्रत्ययलक्षणाभावात्।]]
12
=>
[[५। ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वम्। एवं घञ्यपि कुत्वं ज्ञेयम्।]]
13
=>
[[६। इट्पक्षे, ‘न क्त्वा सेट्। (१-२-१८) इति कित्त्वनिषेधान्नलोपो न।’]]
14
=>
[पृष्ठम्०६४८+ २६]