| YouTube Channel

आढकी (ADhakI)

 
Monier Williams Cologne
English
आढकी
f.
the pulse Cajanus Indicus Spreng.,
Suśr.
a kind of fragrant earth,
Bhpr.
Shabdartha Kaustubha
Kannada
आढकी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ತೊಗರಿ
आढकी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸುವಾಸನೆಯುಳ್ಳ ಭೂಮಿ
E Bharati Sampat
Sanskrit
(स्त्री) १.शमीधान्यविशेषः। २.तुवरीधान्यम् ३.सुगन्धयुक्त भूमिः।
अभिधानचिन्तामणिः
Sanskrit
--source--
सौराष्ट्री पार्वती काक्षी कालिका पर्पटी सती १०५५
आढकी तुबरी कंसोद्भवा काक्षी मृदाह्वया
-wordlist-
सौराष्ट्री (स्त्री), पार्वती (स्त्री), काक्षी (स्त्री), कालिका (स्त्री), पर्पटी (स्त्री), सती (स्त्री), आढकी (स्त्री), तुवरी (स्त्री), कंसोद्भवा (स्त्री), काच्छी (स्त्री), मृदाह्वया (स्त्री)
--source--
आढकी तुवरी वर्णा स्यात्कुल्माषस्तु यावकः ११७५
-wordlist-
आढकी (स्त्री), तुवरी (स्त्री), वर्णा (स्त्री), कुल्माष (पुं), यावक (पुं)
अभिधानरत्नमाला
Sanskrit
आढकी
आढकी, तुवरी
वल्ला निष्पावकाः प्रोक्ता आढकी तुवरी स्मृता ५८४
verse 2.1.1.584
page 0066
शब्दकल्पद्रुमः
Sanskrit
आढकी,
स्त्री,
शमीधान्यविशेषः अरहर इतिभाषा तत्पर्य्यायः तुवरी वर्य्या करवीरभुजा वृत्तवीजा पीतपुष्पा अस्याःगुणाः कषायत्वं मधुरत्वं कफपित्तनाशि-त्वञ्च तद्द्विदलगुणाः ईषद्वातरुचिकारित्वं ।गुरुत्वं ग्राहित्वञ्च पीता रक्ता सिता त्रिविधेयं ।श्वेता दोषदा लोहिता रुच्या बल्या पित्तता-पादिहन्त्री पीता दीपनी पित्तदाहध्वंसिनीच
तद्युषं बल्यं इति राजनिर्घण्टः
अमर-मते तत्पर्य्यायः काक्षी मृतस्ना तुवरिका ४मृतालकं सुराष्ट्रजं भरतमल्लिकमते एतत्षट्कं अरहरस्य सारसुन्दरीमते तुवरिकाख्य-गन्धद्रव्यस्य केषाञ्चिन्मते सुगन्धिमृत्तिकायाः
(अस्याः पर्य्यायगुणावाह ।“आढकी तुवरी चापि सा प्रोक्ता शणपुष्पिका
आढकी तुवरा रूक्षा मधरा शीतला लघुः ।ग्राहिणी वातजननी वर्ण्या पित्तकफास्रजित्”
इति भावप्रकाशः
“मृदुः कषाया सरक्तपित्तंनिहन्ति कासानतिवातला स्यात् ।गुल्मज्वरारोचककासछर्द्दि-हृद्रोगदुर्नामहराढकी स्यात्”
इति हारीतः
“आढकी कफपित्तघ्नी वातला, इति चरकः
“आढकी कफपित्तघ्नी नातिवातप्रकोपनी” ।इति सुश्रुतः
)
वाचस्पत्यम्
Sanskrit
आढकी स्त्री आढौकते अच् पृषो० गौ० ङीष् (अरहर)इति ख्याते शमीधान्यभेदे “आढकी तुवरी रूक्षा मधुराशीतला लघुः ग्राहिणी वातजननी वर्ण्या पित्तकफास्र-जित्” भावप्र० फले अस्य पुस्त्वमपि “आढकांश्च मसूरांश्चकोद्रवान् लवणं त्यजेत्” काशी० ख० वैश्वदेवे वर्जने