| YouTube Channel

आज्यदोह (Ajyadoha)

 
Monier Williams Cologne
English
आज्य—दोह
n.
v.l. for आच्या-द्°, q.v.
Shabdartha Kaustubha
Kannada
आज्यदोह
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಸಾಮವೇದದ ಒಂದು ಸೂಕ್ತ
वाचस्पत्यम्
Sanskrit
आज्यदोह
न०
सामवेदिपाठ्ये सूक्तभेदे “वामदेव्यं वृहत्सामज्येष्ठसाम रथन्तरम् तथा पुरुषसूक्तञ्च रुद्रसूक्तं ततःपरम् आज्यदोहानि सामानि शान्तिकं भारुडानि ।पश्चिमे द्वारपालौ तु पठेतां सामगौ तथा” दानपारि०पु० तानि सामानि देवव्रतसंज्ञकानि त्रीणि यथा ।“अधि पतायि मित्र पतायि क्षत्रप तायि स्वाः तायिधनप ता २, यि ना २, माः मन्युना वृत्रहा सू-र्य्येण स्वराद्यन्नेन मघवा दक्षिणास्य प्रिया तनूराज्ञाविशं दाधार वृषभस्त्वष्टा वृत्रेण शचीपतिरन्नेन पयःपृथिव्या सृणिकोऽग्निना विश्वं भूतम् व्यभवो वायुनाविश्वाः प्रजा अभ्यपवथा वषट्कारेणार्द्धभाक् सोमेनसोमपाः समिज्या परमेष्ठी ये देवादेवाः दिविषदः ।स्थलभ्यो वो देवादेवेभ्यो नमः ये देवादेवाः अन्तरि-क्षसदः स्थलेभ्यो० ये देवा० पृथिवीषदः स्थलेभी० ।ये देवा० असुषदः स्थलेभ्यो० ये देवा० दिक्षुसदः ।स्थलेभ्यो० ये देवा० आशासदः स्थलेभ्यो० अव-ज्यामिव धन्वने विते मन्युन्नयामसि मृडतां नैह अस्म-भ्यम् इडा २, ३, भा यैदं विश्वं भूतं युयो२, आउ वा २, ३, ना २, ३, ४, माः
अ-धिप तायि मित्रप तायि क्षत्रप तायि स्वः-प तायि धनप ता २, यि ना २, माः नमउत्ततिभ्यश्चोत्तन्वानेभ्यश्च नमो नीषङ्गिभ्यश्चोपवीतिभ्यश्च न-मोऽस्यद्भ्यश्च प्रतिदधानेभ्यश्च नमः प्रविध्यद्भ्यश्च प्रव्याधि-भ्यश्च नमः त्सरद्भ्यश्च त्सारिभ्यश्च नमः श्रीतृभ्यश्च श्रायि-भ्यश्च नमस्तिष्टद्भ्यश्चोपतिष्ठद्भ्यश्च नमो यते वियते चनमः पथे विपथाय अवज्यामिव धन्वने इत्यादि प्रा-ग्वत्
अधिप तायि मित्रप तायि क्षत्रप ।तायि स्वःप तायि धनप ता २, यि ना २, माः नमोऽन्नाय नमोऽन्नपतय एकाक्षाय चावपन्नादायच नमो नमः रुद्राय तीरसदे नमः स्थिराय स्थिरधन्वनेनमः प्रतिपदाय पटरिणे नमस्त्रियम्बकाय कप्रर्द्दिनेच नम आश्रयेभ्यश्च प्रत्याश्रयेभ्यश्च नमः क्रव्येभ्यश्च विरिम्फे-भ्यश्च नमः संवृते विवृते अवज्यामित्यादि पूर्व्वंवत् (सामारणौ प्र० अ० ६, ७, गा०) गाना-शक्तौ अधिपतये इत्याद्यनुवाकं त्रिधा जपेत् अधिपतयेमित्रंपतये क्षत्रपतये स्वःपतये धनपतये नम इत्येवपठनीयमेवमग्रेऽपि अस्मभ्यमित्यनन्तरं इदं विश्वंभूतं युयोवे नम इति नीषङ्गीत्यत्र निषङ्गीत्येव पठनीय-मन्यत् गानांशं स्तोभं विहाय समानम्