| YouTube Channel

आज्ञाचक्र (AjJAcakra)

 
शब्दसागरः
English
आज्ञाचक्र
n.
(-क्रं) A mystical circle or diagram, one of six described by
the Tantras.
E.
आज्ञा and चक्र a circle.
Yates
English
आज्ञा-चक्र (क्रः) 1.
m.
Mystical circle.
Wilson
English
आज्ञाचक्र
n.
(-क्रं) A mystical circle or diagram, one of six
described by the Tantras.
E.
आज्ञा and चक्र a circle.
Monier Williams Cologne
English
आ-ज्ञा—चक्र
n.
a mystical circle or diagram (one of the six described by the
Tantras.
)
Shabdartha Kaustubha
Kannada
आज्ञाचक्र
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ದೇಹದಲ್ಲಿರುವ ಸುಷುಮ್ನಾ ನಾಡಿಯ ಮಧ್ಯದಲ್ಲಿ ಹುಬ್ಬುಗಳ ಮಧ್ಯದಲ್ಲಿರುವ ದ್ವಿದಳಪದ್ಮಾಕಾರದ ಒಂದು ಚಕ್ರ
प्रयोगाः - > "आज्ञाचक्रं तदूर्ध्वं तु आत्मनोऽधिष्ठितं परम् आज्ञासङ्क्रमणं तत्र गुरोराज्ञेति कीर्तिता ॥"
शब्दकल्पद्रुमः
Sanskrit
आज्ञाचक्रं,
क्ली,
षट्चक्रान्तर्गतषष्ठचक्रम् तथा चतन्त्रे, -- “आज्ञानामाम्बुजं तद्धिमकरसदृशं ध्यान-धामप्रकाशं हक्षाभ्यां वैकलाभ्यां प्रविलसितवपु-र्नेत्रपत्रं सुशुभ्रं तन्मध्ये हाकिनी सा शशिसम-घवला वक्त्रषट्कं दधाना विद्यां मुद्रां कपालंडमरुजपवटीं बिभ्रती शुद्धचित्ता
एतत् पद्मा-न्तराले निवसति मनः सूक्ष्मरूपं प्रसिद्धम्”
इति तत्त्वचिन्तामणौ षष्ठप्रकाशः
वाचस्पत्यम्
Sanskrit
आज्ञाचक्र
न०
आज्ञासंज्ञकं चक्रम् तन्त्रप्रसिद्धेदेहाव-स्थितसुषुम्णानाडीमध्यगते भ्रूमध्यस्थे द्विदले पद्मा-कारे चक्रभेदे विशुद्धचक्रमुक्त्वा “आज्ञाचक्रं तदूर्ड्वन्तुआत्मनोऽधिष्ठितं परम् आज्ञासंक्रमणं तत्रगुरोराज्ञेतिकीर्तिता” तत्र निहितचित्तस्य पुरुषस्य सर्वपदार्थसाक्षात्कारेण “एवं भूतम्, एवं वर्त्तते, एवं भविष्यतीति” ज्ञानेनगुरोरीश्वरस्य तदूर्द्धं सहस्रदलकमले स्थितस्याज्ञायाः“इतः परं त्वया इत्थं कर्त्तव्यमिति” नियोगस्य संक्रमणंभवति तेन तदाज्ञाख्यं चक्रमित्यर्थः यथा षट्-चक्राणां देहे स्थितिस्तथोक्तं शारदायाम् “षण्णवत्यङ्गुला-यामं शरीरमुभयात्मकम् गुदध्वजान्तरे कन्दमुत्सेधाद्-द्व्यङ्गुलं विदुः तस्य द्विगुणविस्तारं विन्दु-रूपेण शोभितम् नाड्यस्तत्र समुद्भूता मुख्यास्त्रिस्रः प्रकी-र्त्तिताः इडा वामे स्थिता नाडी पिङ्गला दक्षिणे मता ।तयोर्म्मध्यगता नाडी सुषुम्णा वंशमांश्रिता पादाङ्गुष्ठा-दपक्रान्ता शिखाभ्यां शिरसा पुनः ब्रह्मस्थानं समा-पन्ना सोमसूर्य्याग्निरूपिणी तस्यामध्यगता नाडी चि-त्राख्या योगिवल्लभा व्रह्मरन्ध्रं विदुस्तस्यां पद्मसूत्र-निभं परम् आधारांश्च विदुस्तत्र मतभेदाननेकधा ।दिव्यमार्गमिमं प्राहुरमृतानन्दकारकम् इडया सञ्च-लेच्चन्द्रः पिङ्गलायां दिवाकरः ज्ञातौ योगनिदानज्ञैःसुषुम्णायाञ्च ताबुभौ आधारकन्दमध्यस्थं त्रिकोणमतिमुन्दरम् ज्योतिषां निलयं दिव्यं प्राहुरागमवेदिनः ।तत्र विद्युल्लताकारा कुण्डली परदेवता परिस्फुरतिसर्व्वात्मा सुप्ताहिसदृशाकृतिः बिभर्त्ति कुण्डली शक्तिरा-त्मानं हंसमाश्रिता हंसः प्राणाश्रयोनित्यं प्राणा नाडीपथाश्रयाः आधारादुत्थितोवायुर्यथावत् सर्व्वदेहि-नाम् देहं प्राप्य खनाडीभिः प्रयाणं कुंरुते बहिः ।द्वादशाङ्गुलमानेन तस्मात् प्राण इतीरितः” तत्त्व-चिन्तामणौ षष्ठप्रकाशे “आज्ञानामाम्बुजं तद्धिमकरस-दृशं ध्यानधाम प्रकाशम् हक्षाभ्यां वै कलाभ्यां प्रविल-सितवपुर्युग्मपत्रं सुशुभ्रम् तन्मध्ये हाकिनी सा शशि-समधवला वक्त्रषट्कं दधाना विद्यामुद्रां कपालंडमरुजपवटीं बिभ्रती शुद्धचित्ता एतत्पद्मान्तराले निव-सति मनः सूक्ष्मरूपं प्रसिद्धम्” एतदभिप्रायेणैव “मनो-ऽपि भ्रूमध्ये निवसत्यानन्दलहर्य्यामुक्तम् मनसस्तत्रस्थित्या तदुपहितजीवस्यापि तत्रैव स्थितिः एवञ्च श्रुतौहार्द्दविद्यायां “हृद्ययं तस्माद्वृदयम्” इत्युक्तिस्तु हृदये ध्या-नार्थाइत्यविरोधः महानिर्वाणतन्त्रे शरीर एव चतुर्द्दशभुवनामि सूक्ष्मरूपेण स्थितानि तानि तत्रैव ध्येया-नीत्युक्तं तत्र कुत्र किं ध्येयमित्याकाङ्खायां मूलाधारादिकंभूरादिलोकतया ध्येयमित्युक्तम् तत्र विशुद्धचक्रस्यजनोलोकतया ध्येयतामुक्त्वाह ।“एतत्पद्मस्योर्द्धदेशे ज्ञानपद्मं सुदुर्लमम् दलद्वयसमा-युक्तं पूर्णचन्द्रस्य मण्डलम् पद्ममध्ये वीजकोषे स्मरे-च्चिन्तामणेः पुरीम् तन्मध्ये नवकोणञ्च यन्त्रं परम-दुर्लभम् शम्भुवीजं हि तन्मध्ये साकारं हंसरूपकम् ।हंसः परब्रह्मरूपः साकारः शिवरूपकः तारचञ्चुर्व-रारोहे निर्गमागमपक्षवान् शिवशक्तिपदद्वन्द्वं विन्दु-त्रयविलोचनः विहारश्चास्य हंसस्य हेमपङ्कजपूजिते ।एवं हंसोमणिद्वीपे तस्य क्रोडे परः शिवः वामे तस्यसिद्वकाली सदानन्दस्वरूपिणी तस्याः प्रसादमासाद्यसर्वकर्त्ता महेश्वरः तपोलोक इदं भद्रे! सर्व्वलोकस्यदुर्लभम् यत्र ब्रह्मादयो देवा ध्यानयोगं सदाभ्यसेत् ।मनसापि लभ्येत योगेन तपसा तपोलोकंगोलोकस्य चतुर्लक्षगुणं शिवे! ब्रह्मलोकेषु ये देवावैकण्ठे ये सुरादयः शम्भुलोके वसेद्योहि तेजोभक्ति-परायणः तपसापि लभ्येत तपोलोकगतिं शिवे ।तपीलोकसमोनास्ति लोकमध्ये सुलोचने! सालोक्यं हिमहोलोके सारूप्यं जनलोकके सायुज्यं तपोलोकेनिर्व्वाणं हि तदूर्द्धके ततो ब्रह्मादयो देवास्तपोलोका-र्थिनः सदा इति ते कथितं कान्ते! चक्रषट्कस्य लक्ष-णम् यज्ज्ञानादमरश्चैव जीवन्मुक्तश्च साधकः ।यज्ज्ञात्वा जननींगर्भं विशेत्तु, कदाचन”