| YouTube Channel

आज्ञप्तः (AjJaptaH)

 
E Bharati Sampat
Sanskrit
(वि) आ+ज्ञप(ज्ञाने)+णिच्+क्तः। ‘निष्ठा’ ३.२.१०२। १.आज्ञां प्रापाः, आदिष्टः। ‘आज्ञप्तास्तु ततो दैत्पाश्चण्‌ड मुण्ड पुरोगमाः’ देवीमाहात्म्यम् आ+ज्ञप(ज्ञाने)+णिच्+क्तः। ‘निष्ठा’ ३.२.१०२। २.सम्यक् बोधितः।
शब्दकल्पद्रुमः
Sanskrit
आज्ञप्तः, त्रि, (आ + ज्ञा + णिच् + क्त ।) आज्ञा-प्राप्तः यथा, देवीमाहात्म्यम् ।“आज्ञप्तास्तु ततो दैत्याञ्चण्डमुण्डपुरोगमाः ।चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः”