| YouTube Channel

आजं (AjaM)

 
शब्दकल्पद्रुमः
Sanskrit
आजं,
क्ली,
(अज + अण् अजसम्बन्धी छागस्य घृत-मांसादिः) घृतं इति जटाधरः
(यथा वैद्यके ।“गव्यमाजं तथा चौष्ट्रमाविकं माहिषञ्च यत् ।अतो धातुविवृद्ध्यर्थमाजं मांसं प्रशस्यते”
)(तथाच रामायणे ९१ ६७ ।“आजैश्चापि वाराहैर्निष्ठानवरसञ्चयैः” ।घृतार्थे -- गव्यादिघृतभेदेन यदुक्तं तत्सर्व्वं घृत-शब्दे ज्ञातव्यं किन्त्वाजशब्दव्युत्पत्त्या दुग्धादिकंयदुपलभ्यते तदन्यत्र प्रदर्श्यते
“आजं दधि भवेच्चोष्णं क्षयवातविनाशनं ।दुर्नामश्वासकासेषु हितमग्निप्रदीपनं
विपाके मधुरं वृष्यं रक्तपित्तप्रसादनं ।शस्तं कार्श्यापहं प्रोक्तं वातपित्तनिवर्हणं”
इति हारीतसुश्रुतौ
“नातिशीतं गुरुस्रिग्धं मांसमाजमदोषलं ।शरीरधातुसामान्यादनभिष्यन्दि वृंहणं”
इति चरको वाभटश्च
“गव्यतुल्यगुणन्त्वाजं विशेषाच्छोषिणां हितं ।दीपनं लघु संग्राहि श्वासकासास्रपित्तनुत् ।अजानामल्पकायत्वात् कटुतिक्तनिषेवनात्
नात्यम्बुपानाद्व्यायामात् सर्व्वव्याधिहरं पयः” ।“दध्याजं कफपित्तघ्नं लघुवातक्षयापहं ।दुर्नामश्वासकासेषु हितमग्नेः प्रदीपनं
विपाके मधुरं वृष्यं रक्तपित्तप्रसादनं”
“आजं घृतं दीपनीयं चक्षुष्यं बलवर्द्धनं ।कासे श्वासे क्षये चापि पथ्यं पाके तल्लघु”
इति सुश्रुतः
)