| YouTube Channel

आचार्य्यः (AcAryyaH)

 
शब्दकल्पद्रुमः
Sanskrit
आचार्य्यः,
पुं,
(आङ् + चर् + ण्यत् ।) वेदाध्या-पकः वैदिकमन्त्रव्याख्याकर्त्ता तत्पर्य्यायः ।मन्त्रव्याख्याकृत् इत्यमरः
द्रोणाचार्य्यः ।इति त्रिकाण्डशेषः
तल्लक्षणं यथा, --“उपनीय तु यः शिष्यं वेदमध्यापयेत् द्विजः ।सकल्पं सरहस्यञ्च तमाचार्य्यं प्रचक्षते”
इति मानवे २४०
(ततोऽनन्तरमाचार्य्यं परीक्षेत तद्यथा, --“पर्य्यवदातश्रुतं परिदृष्टकर्म्भाणं दक्षं दक्षिणं शुचिंजितहस्तमुपकरणवन्तं सर्व्वेन्द्रियोपपन्नं प्रकृतिज्ञंप्रतिपत्तिज्ञमनुपस्कृतविद्यमनसूयकमकोपनं क्ले-शक्षमं शिष्यवत्सलमध्यापकं ज्ञानदानसमर्थमि-त्येवंगुणो ह्याचार्य्यः सुक्षेत्रमार्त्तवो मेघ इवशस्यगुणैः सुशिष्यमाशु वैद्यगुणैः सम्पादयति ।तमुपसृत्यारिराधयिषुरुपचरेदग्निवच्च देववच्चराजवच्च पितृवच्च भर्त्तृवच्चाप्रमत्तस्ततस्तत्प्रसादात्कृत्स्नं शास्त्रमधिगम्य शास्त्रस्य दृढतायामभि-धानसौष्ठवस्यार्थस्य विज्ञाने वचनशक्तौ भूयःपयतेत सम्यक्” इति चरकः
)