| YouTube Channel

आचरितम् (Acaritam)

 
E Bharati Sampat
Sanskrit
(न) आ+चर(गतौ)+क्तः। ‘नपुंसके भावे क्तः’ ३.३.११४। १.व्यवहृतम्, कृतम् आचरणम् ‘जलंवामकरे कृत्वा या सन्ध्याचरिता द्विजैः’ काशीखण्डः। २.ऋणिकात् ऋणग्रहणोपाय भेदः। ऋणीकस्य दारपुत्रपशून् हृत्वा कृत्वा द्वारोपवेशनम् यत्रार्थी दाप्यतेऽर्थं स्व तदाचरितमुच्यते ‘धर्मेण व्यवहारेण छलेनचरितेन प्रयुक्तं साधयेदर्थम् पञ्चमेन बलेन च’ मनुः८.४९। (वि) ३.आ+चर(गतौ)+क्तः। ‘निष्ठा’ ३.२.१०२। कृतम्, अनुष्ठितं व्यवहृतम् वर्तनम्