| YouTube Channel

आचमनीयं (AcamanIyaM)

 
शब्दकल्पद्रुमः
Sanskrit
आचमनीयं,
क्ली,
(आचम्यतेऽनेन आङ् + चम् +अनीयर् ।) मुखप्रक्षालनार्थजलं तद्दानविधि-र्यथा, कालिकापुराणे ६७ अध्यायः
“दद्यादाचमनीयन्तु सुगन्धिसलिलैः शुभैः ।कर्पूरवासितैर्व्वापि कृष्णागुरुसुधूपितैः
यथा तथा सुगन्धैर्व्वा प्रसन्नैः फेनवर्ज्जितैः ।तत्तैजसेन पात्रेण शङ्खेनाथ प्रदापयेत्
उदकं दीयते यत्तु प्रसन्नं फेनवर्ज्जितं ।आचमनाय देवेभ्यस्तदाचमनमुच्यते
केवलं तोयपात्रेण तदा दद्यान्नमिश्रितं ।वासितन्तु सुगन्ध्याद्यैः कर्त्तव्यं यदि लभ्यते
आयुर्ब्बलं यशोवृद्धिं प्रदायाचमनीयकं ।लभते साधको नित्यं कामांश्चैव यथेप्सितान्”